१०३

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ अदर्शि’ इति चतुर्दशर्च दशमं सूक्तं काण्वस्य सोभरेरार्षम् । अत्रानुक्रम्यते–’ अदर्शि षळूना सोभरिर्बार्हतं पञ्चम्याद्ययुजः सतोबृहत्योऽष्टम्यादियुजः ककुब्गायत्री ककुबनुष्टुबन्त्याग्निमारुती इति । पञ्चमीसप्तमीनवम्येकादशीत्रयोदश्यः पञ्च सतोबृहत्यः । अष्टमीद्वादश्यौ ककुभौ दशमी गायत्री चतुर्दश्यनुष्टुप् । शिष्टा बृहत्यः । ‘आग्नेयं तु ’ इत्युक्तत्वादग्निर्देवता । अन्त्यायास्त्वग्निर्मरुतश्च । प्रातरनुवाकस्याग्नेये क्रतौ बार्हते छन्दस्यादितः सप्तर्चः । सूत्रितं च – अदर्शि गातुवित्तम इति सप्तेति बार्हतम्’ (आश्व. श्रौ. ४. १३)। आभिप्लविकेषूक्थ्येषु मैत्रावरुणस्य ‘प्र मंहिष्ठाय’ इति वैकल्पिकः स्तोत्रियस्तृचः । सूत्रितं च— प्र मंहिष्ठाय गायत प्र सो अग्ने तवोतिभिः ’ ( आश्व. श्रौ. ७. ८) इति । अध्यायोपाकरणोत्सर्जनयोर्मण्डलान्त्यहोमे ‘ आग्ने याहि’ इत्येषा । सूत्रितं च—’ मा चिदाग्ने याहि मरुत्सखा यत्ते राजन्नग्ने’ ( आश्व. गृ. ३. ५, ७) इति ॥

Jamison Brereton

103 (712)
Agni (1–13), Agni and the Maruts (14)
Sobhari Kāṇva
14 verses: br̥hatī 1–4, 6; virāḍrūpā 5; satobr̥hatī 7, 9, 11, 13; kakubh 8, 12; gāyatrī 10; anuṣṭubh 14. One trca (1–3), 5 prag ̥ āthas (4–13), final verse (14).
Another metrically complex hymn, consisting mostly of pragāthas in various com binations of meters, but beginning with a tr̥ca (vss. 1–3) and ending with a single verse (14). Proferes (2007: 38–40) argues that the opening tr̥ca concerns the forg ing of a unified power from multiple clans by commitment to their mutually wor shiped fire, which is identified as belonging to Divodāsa, the great Bharata leader (vs. 2). The territorial expansion and the overcoming of other populations therein are treated in verses 2–3.
Though the pragātha that follows (vss. 4–5) does not explicitly continue the theme of victory through centralized leadership, it does promise rewards to the man who devotes himself to Agni—particularly the renowned “imperishable fame” (ákṣiti śrávaḥ, vs. 5), a phrase whose Indo-European antiquity has been known and discussed for a century and a half. And “heroic glory” (vīrávad yáśaḥ, vs. 9), as well as goods and protection, are the rewards for service to Agni in the following pragāthas (vss. 6–11). The final pragātha (vss. 12–13) seeks to avert Agni’s anger. In the summary verse (14) the poet names himself and invites Agni to the sacrifice.

Jamison Brereton Notes

Agni

01 अदर्शि गातुवित्तमो - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

अद॑र्शि गातु॒वित्त॑मो॒ यस्मि॑न्व्र॒तान्या॑द॒धुः ।
उपो॒ षु जा॒तमार्य॑स्य॒ वर्ध॑नम॒ग्निं न॑क्षन्त नो॒ गिरः॑ ॥

02 प्र दैवोदासो - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

प्र दैवो॑दासो अ॒ग्निर्दे॒वाँ अच्छा॒ न म॒ज्मना॑ ।
अनु॑ मा॒तरं॑ पृथि॒वीं वि वा॑वृते त॒स्थौ नाक॑स्य॒ सान॑वि ॥

03 यस्माद्रेजन्त कृष्थयश्चकृड़्त्यानि - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

यस्मा॒द्रेज॑न्त कृ॒ष्टय॑श्च॒र्कृत्या॑नि कृण्व॒तः ।
स॒ह॒स्र॒सां मे॒धसा॑ताविव॒ त्मना॒ग्निं धी॒भिः स॑पर्यत ॥

04 प्र यम् - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

प्र यं रा॒ये निनी॑षसि॒ मर्तो॒ यस्ते॑ वसो॒ दाश॑त् ।
स वी॒रं ध॑त्ते अग्न उक्थशं॒सिनं॒ त्मना॑ सहस्रपो॒षिण॑म् ॥

05 स दृळ्हे - विराड्रूपा

विश्वास-प्रस्तुतिः ...{Loading}...

स दृ॒ळ्हे चि॑द॒भि तृ॑णत्ति॒ वाज॒मर्व॑ता॒ स ध॑त्ते॒ अक्षि॑ति॒ श्रवः॑ ।
त्वे दे॑व॒त्रा सदा॑ पुरूवसो॒ विश्वा॑ वा॒मानि॑ धीमहि ॥

06 यो विश्वा - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

यो विश्वा॒ दय॑ते॒ वसु॒ होता॑ म॒न्द्रो जना॑नाम् ।
मधो॒र्न पात्रा॑ प्रथ॒मान्य॑स्मै॒ प्र स्तोमा॑ यन्त्य॒ग्नये॑ ॥

07 अश्वं न - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

अश्वं॒ न गी॒र्भी र॒थ्यं॑ सु॒दान॑वो मर्मृ॒ज्यन्ते॑ देव॒यवः॑ ।
उ॒भे तो॒के तन॑ये दस्म विश्पते॒ पर्षि॒ राधो॑ म॒घोना॑म् ॥

08 प्र मंहिष्टाय - ककुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्र मंहि॑ष्ठाय गायत ऋ॒ताव्ने॑ बृह॒ते शु॒क्रशो॑चिषे ।
उप॑स्तुतासो अ॒ग्नये॑ ॥

09 आ वंसते - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

आ वं॑सते म॒घवा॑ वी॒रव॒द्यशः॒ समि॑द्धो द्यु॒म्न्याहु॑तः ।
कु॒विन्नो॑ अस्य सुम॒तिर्नवी॑य॒स्यच्छा॒ वाजे॑भिरा॒गम॑त् ॥

10 प्रेष्टमु प्रियाणाम् - ह्रसीयसी

विश्वास-प्रस्तुतिः ...{Loading}...

प्रेष्ठ॑मु प्रि॒याणां॑ स्तु॒ह्या॑सा॒वाति॑थिम् ।
अ॒ग्निं रथा॑नां॒ यम॑म् ॥

11 उदिता यो - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

उदि॑ता॒ यो निदि॑ता॒ वेदि॑ता॒ वस्वा य॒ज्ञियो॑ व॒वर्त॑ति ।
दु॒ष्टरा॒ यस्य॑ प्रव॒णे नोर्मयो॑ धि॒या वाजं॒ सिषा॑सतः ॥

12 मा नो - ककुप्

विश्वास-प्रस्तुतिः ...{Loading}...

मा नो॑ हृणीता॒मति॑थि॒र्वसु॑र॒ग्निः पु॑रुप्रश॒स्त ए॒षः ।
यः सु॒होता॑ स्वध्व॒रः ॥

13 मो ते - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

मो ते रि॑ष॒न्ये अच्छो॑क्तिभिर्व॒सोऽग्ने॒ केभि॑श्चि॒देवैः॑ ।
की॒रिश्चि॒द्धि त्वामीट्टे॑ दू॒त्या॑य रा॒तह॑व्यः स्वध्व॒रः ॥

14 आग्ने याहि - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आग्ने॑ याहि म॒रुत्स॑खा रु॒द्रेभिः॒ सोम॑पीतये ।
सोभ॑र्या॒ उप॑ सुष्टु॒तिं मा॒दय॑स्व॒ स्व॑र्णरे ॥