१०२

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

त्वमग्ने’ इति द्वाविंशत्यृचं नवमं सूक्तं गायत्रमाग्नेयम् । भृगुगोत्रः प्रयोगो नामर्षिः । बार्हस्पत्यः पावकविशेषणविशिष्टोऽग्न्याख्यो वा । यद्वा । सहोनाम्नः पुत्रौ गृहपतियविष्ठसंज्ञकौ द्वावग्नी । तौ सहेदं सूक्तमपश्यताम् । तस्मादस्य तावृषी । अथवा तयोरन्यतरः । तथा चानुक्रान्तं– ‘ त्वमग्ने द्व्यधिका भार्गवः प्रयोगो बार्हस्पत्यो वाग्निः पावकः सहसः सुतयोर्वाग्न्योर्गृहपतियविष्ठयोर्वान्यतर आग्नेयं तु’ इति । प्रातरनुवाकस्याग्नेये क्रतौ गायत्रे छन्दस्यादितोऽष्टादशर्चः । सूत्रितं च-’ त्वमग्ने बृहद्वय इत्यष्टादशार्चन्तस्त्वेति सूक्ते’ (आश्व. श्रौ. ४. १३) इति । देवसुवां हविःष्वग्नेर्गृहपतेरनुवाक्या’ ‘ त्वमग्ने बृहद्वयः’ इत्येषा । सूत्रितं च-’ त्वमग्ने बृहद्वयो हव्यवाळग्निरजरः पिता नः’ (आश्व. श्रौ. ४. ११) इति । अन्वारम्भणीयायामग्नेर्भगिनोऽनुवाक्या ‘आ सवं सवितुः’ इत्येषा। सूत्रितं च-’ आ सवं सवितुर्यथा स नो राधांस्या भर’ (आश्व. श्रौ. २.८) इति । आभिप्लविकेषूक्थ्येषु तृतीयसवने मैत्रावरुणस्य ‘अग्निं वो वृधन्तम्’ इति वैकल्पिकः स्तोत्रियस्तृचः । सूत्रितं च -–‘अग्निं वो वृधन्तमग्ने यं यज्ञमध्वरम्’ ( आश्व. श्रौ. ७. ८) इति । दशमेऽहनि ‘इमं नो यज्ञम्’ इति स्तोकसूक्तस्य द्वितीयस्य स्थाने ‘अग्ने घृतस्य’ इत्येषा । सूत्रितं च- स्तोकसूक्तस्य द्वितीयतृतीययोः स्थानेऽग्ने घृतस्य धीतिभिरुभे सुश्चन्द्र सर्पिष इत्येते’ (आश्व. श्रौ. ८. १२) इति ॥

Jamison Brereton

102 (711)
Agni
Prayoga Bhārgava or Agni Pāvaka Bārhaspatya or Agni Grhapati Sahasa ̥ ḥ Sūnu and Agni Yaviṣṭha Sahasaḥ Sūnu (together or one or the other)
22 verses: gāyatrī, arranged in trcas ̥
For most of its length, this hymn is a conventional treatment of Agni’s ritual activities, but with particular stress on his role as kaví “poet” or “sage poet” (vss. 1, 5, 17, 18). In general there is little internal unity in the tr̥cas, and indeed the third tr̥ca (vss. 7–9) is particularly disjointed, making a false start with two unconnected sentence fragments (vs. 7), followed by a purpose clause with no main clause (vs. 8). However, the second tr̥ca (vss. 4–6) has a refrain, and a curi
ous one at that: “Agni, whose garment is the sea.” This description probably references several different Agni themes: his identification and ultimate merging with Apām Napāt “Child of the Waters” (see esp. II.35); the myth about Agni’s flight from his ritual duties, in which he hides in the waters; and the sprinkling of the fire with consecrated water in the Agnihotra, a ritual action also referred to in verse 14, where the associated act of laying ritual grass around the fire is also mentioned. Verse 14 may also recall Agni’s flight and his concealment in the waters.
The conventional hymn appears to end with the sixth tr̥ca (vss. 16–18), solemnly treating the generation and installation of Agni as the conveyor of both the gods and the oblations. The next tr̥ca (vss. 19–21) has a light and self-deprecating tone. The poet claims to have neither of the barebones requisites for even a simple offer
ing to Agni, a cow for the oblation and wood to feed his flames (vs. 19). All he has is “something like this”—namely the hymn he has just produced. This is clearly false modesty, and indeed the poet treats the standard wood and ghee rather slight ingly in the next two verses (20–21). In the final appended verse (22, not part of a tr̥ca), he proudly pronounces that a man should kindle Agni with his mind and his vision (not, the implication is, with mere wood and ghee), and indeed that he has just done so.1214 VIII.102

Jamison Brereton Notes

Agni

01 त्वमग्ने बृहद्वयो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

तुव᳓म् अग्ने बृह᳓द् व᳓यो
द᳓धासि देव दाशु᳓षे
कवि᳓र् गृह᳓पतिर् यु᳓वा

02 स न - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓ न ई᳓ळानया सह᳓
देवाँ᳓ अग्ने दुवस्यु᳓वा
चिकि᳓द् विभानव् आ᳓ वह

03 त्वया ह - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

त्व᳓या ह स्विद् युजा᳓ वयं᳓
चो᳓दिष्ठेन यविष्ठिय
अभि᳓ ष्मो वा᳓जसातये

04 और्वभृगुवच्छुचिमप्नवानवदा हुवे - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

और्वभृगुव᳓च् छु᳓चिम्
अप्नवानव᳓द् आ᳓ हुवे
अग्निं᳓ समुद्र᳓वाससम्

05 हुवे वातस्वनम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

हुवे᳓ वा᳓तस्वनं कवि᳓म्
पर्ज᳓न्यक्रन्दियं स᳓हः
अग्निं᳓ समुद्र᳓वाससम्

06 आ सवम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ सवं᳓ सवितु᳓र् यथा
भ᳓गस्येव भुजिं᳓ हुवे
अग्निं᳓ समुद्र᳓वाससम्

07 अग्निं वो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अग्निं᳓ वो वृध᳓न्तम्
अध्वरा᳓णाम् पुरूत᳓मम्
अ᳓छा न᳓प्त्रे स᳓हस्वते

08 अयं यथा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अयं᳓ य᳓था न आभु᳓वत्
त्व᳓ष्टा रूपे᳓व त᳓क्षिया
अस्य᳓ क्र᳓त्वा य᳓शस्वतः

09 अयं विश्वा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अयं᳓ वि᳓श्वा अभि᳓ श्रि᳓यो
अग्नि᳓र् देवे᳓षु पत्यते
आ᳓ वा᳓जैर् उ᳓प नो गमत्

10 विश्वेषामिह स्तुहि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

वि᳓श्वेषा᳐म् इह᳓ स्तुहि
हो᳓तॄणां᳐ यश᳓स्तमम्
अग्निं᳓ यज्ञे᳓षु पूर्विय᳓म्

11 शीरं पावकशोचिषम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

शीर᳓म् पवाक᳓शोचिषं+
ज्य᳓यिष्ठो+ यो᳓ द᳓मेषु आ᳓
दीदा᳓य दीर्घश्रु᳓त्तमः

12 तमर्वन्तं न - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

त᳓म् अ᳓र्वन्तं न᳓ सानसिं᳓
गृणीहि᳓ विप्र शुष्मि᳓णम्
मित्रं᳓ न᳓ यातय᳓ज्जनम्

13 उप त्वा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

उ᳓प त्वा जाम᳓यो गि᳓रो
दे᳓दिशतीर् हविष्कृ᳓तः
वायो᳓र् अ᳓नीके अस्थिरन्

14 यस्य त्रिधात्ववृतम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓स्य त्रिधा᳓तु अ᳓वृतम्
बर्हि᳓स् तस्था᳓व् अ᳓संदिनम्
आ᳓पश् चिन् नि᳓ दधा पद᳓म्

15 पदं देवस्य - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

पदं᳓ देव᳓स्य मीळ्हु᳓षो
अ᳓नाधृष्टाभिर् ऊति᳓भिः
भद्रा᳓ सू᳓र्य इवोपदृ᳓क्

16 अग्ने घृतस्य - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓ग्ने घृत᳓स्य धीति᳓भिस्
तेपानो᳓ देव शोचि᳓षा
आ᳓ देवा᳓न् वक्षि य᳓क्षि च

17 तं त्वाजनन्त - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

तं᳓ त्वाजनन्त मात᳓रः
कविं᳓ देवा᳓सो अङ्गिरः
हव्यवा᳓हम् अ᳓मर्तियम्

18 प्रचेतसं त्वा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓चेतसं तुवा कवे
अ᳓ग्ने दूतं᳓ व᳓रेणियम्
हव्यवा᳓हं नि᳓ षेदिरे

19 नहि मे - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

नहि᳓ मे अ᳓स्ति अ᳓घ्निया
न᳓ स्व᳓धितिर् व᳓नन्वति
अ᳓थैतादृ᳓ग् भरामि ते

20 यदग्ने कानि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓द् अग्ने का᳓नि का᳓नि चिद्
आ᳓ ते दा᳓रूणि दध्म᳓सि
ता᳓ जुषस्व यविष्ठिय

21 यदत्त्युपजिह्विका यद्वम्रो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓द् अ᳓त्ति उपजि᳓ह्विका
य᳓द् वम्रो᳓ अतिस᳓र्पति
स᳓र्वं त᳓द् अस्तु ते घृत᳓म्

22 अग्निमिन्धानो मनसा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अग्नि᳓म् इ᳓न्धानो म᳓नसा
धि᳓यं सचेत म᳓र्तियः
अग्नि᳓म् ईधे विव᳓स्वभिः