०९९

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ त्वामिदा ह्यः’ इत्यष्टर्चं षष्ठं सूक्तं नृमेधस्यार्षमैन्द्रम् । अयुजो बृहत्यो युजः सतोवृहत्यः । तथा चानुक्रान्तं - त्वामिदाष्टौ प्रागाथम्’ इति । चातुर्विंशिकेऽहनि मध्यंदिनसवनेऽच्छावाकस्य ‘त्वामिदा ह्यः’ इति (आश्व. श्रौ. ७. ४ )। महाव्रतेऽपि निष्केवल्ये बार्हततृचाशीतावयं प्रगाथः । तथैव पञ्चमारण्यके सूत्रितं- त्वामिदा ह्यो नर इत्येतं प्रगाथं प्रत्यवदधाति’ (ऐ. आ. ५, २. ४ ) इति । चातुर्विंशिकेऽहनि माध्यंदिनसवने ब्राह्मणाच्छंसिनः ‘ श्रायन्तइव ’ इति वैकल्पिकः स्तोत्रियः प्रगाथः । सूत्रितं च - ‘ श्रायन्तइव सूर्यं बण्महाँ असि सूर्य’ (आश्व. श्रौ. ७, ४) इति । चातुर्विंशिकेऽहनि माध्यंदिने ‘त्वमिन्द्र प्रतूर्तिषु त्वमिन्द्र यशा असि ( आश्व. श्रौ. ७. ४) इति । तस्मिन्नेवाहनि निष्केवल्ये वैराजयोनिभूतोऽयं प्रगाथः शंसनीयः । [सूत्रितं च–’ तयोरक्रियमाणस्य योनिं शंसेद्वैरूपवैराजशाक्कररैवतानां च ’ (आश्व, श्रौ. ७. ३) इति ।।

Jamison Brereton

99 (708)
Indra
Nr̥medha Āṅgirasa
8 verses: br̥hatī alternating with satobr̥hatī, arranged in pragāthas
As often, an invitation to the soma sacrifice begins the hymn (vss. 1–2), but it then continues directly to the topic of Indra’s giving (vss. 3–4), which often ends hymns. The poet expresses his hope for goods somewhat indirectly, in a curious simile about

getting cooked in the sun (vs. 3) and in the complex negative constructions of verse 4. The references to the same time yesterday (vs. 1) and to the apparent rebirth, that is, the regular rising, of the sun (vs. 3) suggest that the setting is the dawn ritual, when priestly gifts are distributed.
The second half of the hymn (vss. 4–8) is the praise hymn proper, with emphasis on Indra’s irresistible might in battle. The changes rung on the root tr̥̄ “overcome” as well as the balanced oppositions (of the type “who X-es but is not X-ed”) and parallelisms (e.g., the recurrence of -tar- agent nouns) give this portion of the hymn a high rhetorical polish.

Jamison Brereton Notes

Indra

01 त्वामिदा ह्यो - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

त्वा᳓म् इदा᳓+++(=अद्य)+++ ह्यो᳓+++(च)+++ न᳓रो᳓+++(=कर्मणां नेतारोयजमाना)+++
+++(सोमम्)+++ ऽपीप्यन्+++(=अपाययन्)+++ वज्रिन्भू᳓र्णयः+++(=हविर्भिर् भरणशीलाः)+++ ।
स᳓ इन्द्र स्तो᳓म+++(=स्तोत्र)+++ वाहसाम्+++(=वाहकानां)+++ इह᳓ श्रुध्य्+++(=शृणु)+++ उ᳓प स्व᳓सरम्+++(=गृहं)+++आ᳓ गहि ॥

02 मत्स्वा सुशिप्र - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

म᳓त्स्वा सुशिप्र हरिवस् त᳓द् ईमहे
त्वे᳓ आ᳓ भूषन्ति वेध᳓सः
त᳓व श्र᳓वांसि उपमा᳓नि उक्थि᳓या
सुते᳓षु इन्द्र गिर्वणः

03 श्रायन्त इव - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

श्रा᳓यन्त᳓ +++(=श्रयन्तः)+++ +++(रश्मयः)+++ इ᳓व᳓ सू᳓र्यम् वि᳓श्वा᳓ इ᳓त् इ᳓न्द्रस्य भक्षत।
व᳓सूनि जाते᳓ ज᳓नमा᳓ने᳓ +++(=जनिष्यमाणे)+++ ओ᳓जसा प्रति +++(पित्र्यं)+++ भागं᳓ न᳓ दीधिम +++(=धारयेम)+++ ।।
+++(अन्तिमपादे सामवेदे व्यत्ययः।)+++

04 अनर्शरातिं वसुदामुप - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓नर्शरातिं +++(=अपापकदानम्)+++ वसुदा᳓म् +++(इन्द्रम्)+++ उ᳓प᳓ स्तु᳓हि᳓ भद्रा᳓ इ᳓न्द्रस्य रात᳓यः᳓ +++(=दानानि)+++ ।
सो᳓+++(यो)+++ अस्य का᳓मं विधतो᳓ +++(=परिचरतो)+++ न᳓ रोषति म᳓नो दाना᳓य चोद᳓यन् ।।

05 त्वमिन्द्र प्रतूर्तिष्वभि - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

तुव᳓म् इन्द्र प्र᳓तूर्तिषु
अभि᳓ वि᳓श्वा असि स्पृ᳓धः
अशस्तिहा᳓ जनिता᳓ विश्वतू᳓र् असि
तुवं᳓ तूर्य तरुष्यतः᳓

06 अनु ते - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓नु ते शु᳓ष्मं तुर᳓यन्तम् ईयतुः
क्षोणी᳓ शि᳓शुं न᳓ मात᳓रा
वि᳓श्वास् ते स्पृ᳓धः श्नथयन्त† मन्य᳓वे
वृत्रं᳓ य᳓द् इन्द्र तू᳓र्वसि

07 इत ऊती - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

इत᳓ ऊती᳓ वो अज᳓रम्
प्रहेता᳓रम् अ᳓प्रहितम्
आशुं᳓ जे᳓तारं हे᳓तारं रथी᳓तमम्
अ᳓तूर्तं तुग्रियावृ᳓धम्

08 इष्कर्तारमनिष्कृतं सहस्कृतम् - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

इष्कर्ता᳓रम् अ᳓निष्कृतं स᳓हस्कृतं
शत᳓मूतिं शत᳓क्रतुम्
समान᳓म् इ᳓न्द्रम् अ᳓वसे हवामहे
व᳓सवानं वसूजु᳓वम्