०९८

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

॥ श्रीगणेशाय नमः ॥

यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।

निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥

अथ षष्ठस्य सप्तमोऽध्याय आरभ्यते । तत्र ’ इन्द्राय ’ इति द्वादशर्चं पञ्चमं सूक्तमाङ्गिरसस्य नृमेधाख्यस्यार्षमैन्द्रम् । सप्तमी दशम्येकादश्यौ च तिस्रः ककुभो मध्यमपादस्य द्वादशाक्षरत्वात् । ‘ मध्यमश्चेत्ककुप् ’ ( अनु. ५. ३ ) इति हि तल्लक्षणम् । नवमीद्वादश्यौ पुरउष्णिहौ। प्रथमपादस्य द्वादशाक्षरत्वात्। ’ आद्यश्चेत् पुरउष्णिक् ’ ( अनु० ५. २ ) इति हि तल्लक्षणम् । शिष्टा उष्णिहः । तथा चानुक्रम्यते - ‘इन्द्राय द्वादश नृमेध औष्णिहं सप्तम्युपान्त्ये च ककुभोऽन्त्यानवम्यौ पुरउष्णिहौ ’ इति । महाव्रते औष्णिहतृचाशीताविदं सूक्तम् । तथैव पञ्चमारण्यके सूत्रितम् - ‘इन्द्राय साम गायत सखाय आ शिषामहि’ (ऐ. आ. ५. २.५ ) इति । आभिप्लविकेषूक्थ्येषु तृतीयसवने ब्राह्मणाच्छंसिनः ‘ इन्द्राय साम गायत’ इति वैकल्पिकः स्तोत्रियस्तृचः । सूत्रितं च- ‘ इन्द्राय सोम गायत सखाय आ शिषामहि’ (आश्व. श्रौ. ७. ८) इति । पूर्वोक्तस्यैव ब्राह्मणाच्छंसिन आभिप्लविकेषूक्थ्येषु ‘एन्द्र नो गधि’ इति वैकल्पिकः स्तोत्रियः । सूत्रितं च - ‘ एन्द्र नो गध्येदु मध्वो मदिंतरम्’ (आश्व. श्रौ. ७. ८) इति । उक्थ्ये तृतीयसवनेऽच्छावाकस्य अधा हीन्द्र’ इति स्तोत्रियस्तृचः । सूत्रितं च – ‘अधा हीन्द्र गिर्वण इयं त इन्द्र गिर्वणः ’ ( आश्व. श्रौ. ६. १ ) इति । पूर्वोक्त एव शस्त्रे ‘ त्वं न इन्द्रा भर ’ इति तृचो वैकल्पिकः स्तोत्रियः । सूत्रितं च - ‘ त्वं न इन्द्रा भर वयमु त्वामपूर्व्य यो न इदमिदं पुरा’ (आश्व. श्रौ. ७. ८) इति ।

Jamison Brereton

98 (707)
Indra
Nr̥medha Āngirasa ̇
12 verses: uṣṇih, except kakubh 7, 10–11, puraüṣṇih 9, 12, arranged in trcas. ̥
Although the hymn is composed in three different meters, each of the three meters consists of two pādas of eight syllables and one of twelve, just differently arranged, so that the hymn is more formally unified than the bare metrical synopsis suggests. It is arranged in tr̥cas, but not all the tr̥cas show unity of form or content. The second tr̥ca (vss. 4–6) has a four-syllable refrain, and each verse of the last (vss. 10–12) begins with a form of “you” and contains the vocative “you of a hundred resolves,” though not always in the same position. Otherwise there are no clear formal marks.
The hymn begins (vs. 1) with an exhortation to the ritualists to sing to Indra, and the second tr̥ca begins (vs. 4) with a complementary request to Indra to come to the sacrifice, but most of the rest of the first six verses is devoted to generalized praise of Indra. In the third tr̥ca (vss. 7–9) the ritualists mobilize their verbal resources to strengthen Indra and bring him to the sacrifice, and in the last tr̥ca (vss. 10–12), as usual, the poet then states our requests, here for battle strength and fighting heroes rather than wealth.

Jamison Brereton Notes

Indra

01 इन्द्राय साम - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्रा॑य॒ साम॑ गायत॒ विप्रा॑य बृह॒ते बृ॒हत् ।
ध॒र्म॒कृते॑ विप॒श्चिते॑ पन॒स्यवे॑ ॥

02 त्वमिन्द्राभिभूरसि त्वम् - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

त्वमि॑न्द्राभि॒भूर॑सि॒ त्वं सूर्य॑मरोचयः ।
वि॒श्वक॑र्मा वि॒श्वदे॑वो म॒हाँ अ॑सि ॥

03 विभ्राजञ्ज्योतिषा स्वट्रगच्छो - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

वि॒भ्राज॒ञ्ज्योति॑षा॒ स्व१॒॑रग॑च्छो रोच॒नं दि॒वः ।
दे॒वास्त॑ इन्द्र स॒ख्याय॑ येमिरे ॥

04 एन्द्र नो - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

एन्द्र॑ नो गधि प्रि॒यः स॑त्रा॒जिदगो॑ह्यः ।
गि॒रिर्न वि॒श्वत॑स्पृ॒थुः पति॑र्दि॒वः ॥

05 अभि हि - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒भि हि स॑त्य सोमपा उ॒भे ब॒भूथ॒ रोद॑सी ।
इन्द्रासि॑ सुन्व॒तो वृ॒धः पति॑र्दि॒वः ॥

06 त्वं हि - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

त्वं हि शश्व॑तीना॒मिन्द्र॑ द॒र्ता पु॒रामसि॑ ।
ह॒न्ता दस्यो॒र्मनो॑र्वृ॒धः पति॑र्दि॒वः ॥

07 अधा हीन्द्र - ककुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अधा॒ ही॑न्द्र गिर्वण॒ उप॑ त्वा॒ कामा॑न्म॒हः स॑सृ॒ज्महे॑ ।
उ॒देव॒ यन्त॑ उ॒दभिः॑ ॥

08 वार्ण त्वा - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

वार्ण त्वा॑ य॒व्याभि॒र्वर्ध॑न्ति शूर॒ ब्रह्मा॑णि ।
वा॒वृ॒ध्वांसं॑ चिदद्रिवो दि॒वेदि॑वे ॥

09 युञ्जन्ति हरी - पुरउष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

यु॒ञ्जन्ति॒ हरी॑ इषि॒रस्य॒ गाथ॑यो॒रौ रथ॑ उ॒रुयु॑गे ।
इ॒न्द्र॒वाहा॑ वचो॒युजा॑ ॥

10 त्वं न - ककुप्

विश्वास-प्रस्तुतिः ...{Loading}...

त्वं न॑ इ॒न्द्रा भ॑रँ॒ ओजो॑ नृ॒म्णं श॑तक्रतो विचर्षणे ।
आ वी॒रं पृ॑तना॒षह॑म् ॥

11 त्वं हि - ककुप्

विश्वास-प्रस्तुतिः ...{Loading}...

त्वं हि नः॑ पि॒ता व॑सो॒ त्वं मा॒ता श॑तक्रतो ब॒भूवि॑थ ।
अधा॑ ते सु॒म्नमी॑महे ॥

12 त्वां शुष्मिन्पुरुहूत - पुरउष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

त्वां शु॑ष्मिन्पुरुहूत वाज॒यन्त॒मुप॑ ब्रुवे शतक्रतो ।
स नो॑ रास्व सु॒वीर्य॑म् ॥