०९७

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

या इन्द्र इति पञ्चदशर्चं चतुर्थं सूक्तं काश्यपस्य रेभस्यार्षमैन्द्रम् । दशम्यतिजगती द्वापञ्चाशदक्षरा। एकादशीद्वादश्यावुपरिष्टाद्बृहत्यौ त्र्यष्टकान्तद्वादशकवत्यौ। त्रयोदश्यतिजगती । चतुर्दशी त्रिष्टुप् । पञ्चदशी जगती । शिष्टा बृहत्यः । तथा चानुक्रम्यते- या इन्द्र पञ्चोना रेभः काश्यपो बार्हतमतिजगत्युपरिष्टाद्बृहत्यावतिजगती त्रिष्टुब्जगतीत्यन्ततः’ इति । सूक्तविनियोगो लैङ्गिकः । महाव्रते निष्केवल्ये बार्हततृचाशीतौ ’ या इन्द्र’ इत्यादिका नवर्चः । तथैव पञ्चमारण्यके सूत्र्यते ’ या इन्द्र भुज आभर इति नव सूददोहाः’ (ऐ. आ. ५. २. ४) इति । चातुर्विंशिकेऽहनि माध्यंदिनसवने ब्राह्मणाच्छंसिनो वैकल्पिकानुरूपतृचस्य ’ या इन्द्र’ इत्यादिके द्वे द्वितीयातृतीये । सूत्र्यते च— तमिन्द्रं जोहवीमि या इन्द्र भुज आभर इत्येका द्वे च’ (आश्व. श्रौ. ७. ४) इति ॥

Jamison Brereton

97 (706)
Indra
Rebha Kāśyapa
15 verses: br̥hatī 1–9, atijagatī 10, upariṣṭādbr̥hatī 11–12, atijagatī 13, triṣṭubh 14, jagatī 15, arranged in trcas ̥
Though metrically complex and metrically disturbed, this hymn follows a famil iar thematic pattern, with its contents structured by the tr̥ca division. In the first tr̥ca (vss. 1–3) the poet asks Indra to take possession of wealth belonging to other human lords, who do not follow proper ritual behavior, and to redistribute it to the ritualists of the poet’s own group. The next tr̥ca (vss. 4–6), as often, calls on Indra to come to the sacrifice from wherever he happens to be. The hope for Indra’s exclusive company and the fear that he might not come at all are balanced in the third tr̥ca (vss. 7–9). This tr̥ca has an unusual structure, with the first and last pādas of each verse identical, a type of very tight ring-composition.
Only in the following tr̥ca (vss. 10–12) does the poet turn to formal praise of the god (though vs. 9 serves as a transition), but these verses function almost as much as a praise of the praisers themselves. In verse 11 the mockingly designated “raspers” (rebhá), that is, the singers, especially the poet himself, whom the Anukramaṇī iden
tifies as Rebha, make Indra strong through their praise. More strikingly, in verse 12 the poets “bend the felly” of his chariot just by looking at it, and make Indra himself bow by their words; the point is surely that they thereby make Indra change the course of his journey and come to the sacrifice. In verse 10 an unidentified group both fashions and begets Indra; given the agents of the following verses, it is very tempting to assume that Rebha intends us to understand that it is the poets who fashioned and begot Indra (although the gods themselves, mentioned at the end of the previous verse, could also be the subject). In the last tr̥ca the poet com
bines praise of Indra’s immense power with pleas for him to use it for our benefit.

01 या इन्द्र - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

या᳓ इन्द्र भु᳓ज आ᳓भरः
सु᳓वर्वाँ अ᳓सुरेभियः
स्तोता᳓रम् इ᳓न् मघवन्न् अस्य वर्धय
ये᳓ च त्वे᳓ वृक्त᳓बर्हिषः

02 यमिन्द्र दधिषे - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓म् इन्द्र दधिषे᳓ तुव᳓म्
अ᳓श्वं गा᳓म् भाग᳓म् अ᳓व्ययम्
य᳓जमाने सुन्वति᳓ द᳓क्षिणावति
त᳓स्मिन् तं᳓ धेहि मा᳓ पणउ᳓

03 य इन्द्र - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓ इन्द्र स᳓स्ति अव्रतो᳓
अनुष्वा᳓पम् अ᳓देवयुः
स्वइः᳓ ष᳓ ए᳓वैर् मुमुरत् पो᳓षियं रयिं᳓
सनुत᳓र् धेहि तं᳓ त᳓तः

04 यच्छक्रासि परावति - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓च् छक्रा᳓सि पराव᳓ति
य᳓द् अर्वाव᳓ति वृत्रहन्
अ᳓तस् त्वा गीर्भि᳓र् द्युग᳓द् इन्द्र केशि᳓भिः
सुता᳓वाँ आ᳓ विवासति

05 यद्वासि रोचने - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓द् वा᳓सि रोचने᳓ दिवः᳓
समुद्र᳓स्या᳓धि विष्ट᳓पि
य᳓त् पा᳓र्थिवे स᳓दने वृत्रहन्तम
य᳓द् अन्त᳓रिक्ष आ᳓ गहि

06 स नः - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓ नः सो᳓मेषु सोमपाः
सुते᳓षु शवसस् पते
माद᳓यस्व रा᳓धसा सूनृ᳓तावत
इ᳓न्द्र राया᳓ प᳓रीणसा

07 मा न - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

मा᳓ न इन्द्र प᳓रा वृणग्
भ᳓वा नः सधमा᳓दियः
तुवं᳓ न ऊती᳓ तुव᳓म् इ᳓न् न आ᳓पियम्
मा᳓ न इन्द्र प᳓रा वृणक्

08 अस्मे इन्द्र - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

अस्मे᳓ इन्द्र स᳓चा सुते᳓
नि᳓ षदा पीत᳓ये म᳓धु
कृधी᳓ जरित्रे᳓ मघवन्न् अ᳓वो मह᳓द्
अस्मे᳓ इन्द्र स᳓चा सुते᳓

09 न त्वा - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

न᳓ त्वा देवा᳓स आशत
न᳓ म᳓र्तियासो अद्रिवः
वि᳓श्वा जाता᳓नि श᳓वसाभिभू᳓र् असि
न᳓ त्वा देवा᳓स आशत

10 विश्वाः पृतना - अतिजगती

विश्वास-प्रस्तुतिः ...{Loading}...

वि᳓श्वाः पृ᳓तना अभिभू᳓तरं न᳓रं
सजू᳓स् ततक्षुर् इ᳓न्द्रं जजनु᳓श् च राज᳓से
क्र᳓त्वा व᳓रिष्ठं व᳓र आमु᳓रिम् उत᳓
उग्र᳓म् ओ᳓जिष्ठं तव᳓सं तरस्वि᳓नम्

11 समीं रेभासो - उपरिष्टाद्बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓म् ईं रेभा᳓सो अस्वरन्न्
इ᳓न्द्रं सो᳓मस्य पीत᳓ये
सु᳓वर्पतिं य᳓द् ईं वृधे᳓
धृत᳓व्रतो हि᳓ ओ᳓जसा स᳓म् ऊति᳓भिः

12 नेमिं नमन्ति - उपरिष्टाद्बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

नेमिं᳓ नमन्ति च᳓क्षसा
मेषं᳓ वि᳓प्रा अभिस्व᳓रा
सुदीत᳓यो वो अद्रु᳓हो अ᳓पि क᳓र्णे
तरस्वि᳓नः स᳓म् ऋ᳓क्वभिः

13 तमिन्द्रं जोहवीमि - अतिजगती

विश्वास-प्रस्तुतिः ...{Loading}...

त᳓म् इ᳓न्द्रं जोहवीमि मघ᳓वानम् उग्रं᳓
सत्रा᳓ द᳓धानम् अ᳓प्रतिष्कुतं श᳓वांसि
मं᳓हिष्ठो गीर्भि᳓र् आ᳓ च यज्ञि᳓यो वव᳓र्तद्
राये᳓ नो वि᳓श्वा सुप᳓था कृणोतु वज्री᳓

14 त्वं पुर - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तुव᳓म् पु᳓र इन्दर+ चिकि᳓द् एना
वि᳓ ओ᳓जसा शविष्ठ शक्र नाशय᳓ध्यै
तुव᳓द् वि᳓श्वानि भु᳓वनानि वज्रिन्
द्या᳓वा रेजेते पृथिवी᳓ च भीषा᳓

15 तन्म ऋतमिन्द्र - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

त᳓न् म ऋत᳓म् इन्द्र शूर चित्र पातु
अपो᳓ न᳓ वज्रिन् दुरिता᳓ति पर्षि भू᳓रि
कदा᳓ न इन्द्र राय᳓ आ᳓ दशस्येर्
विश्व᳓प्स्न्यस्य स्पृहया᳓यियस्य राजन्