०९३

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ उद्घ’ इति चतुस्त्रिंशदृचं त्रयोदशं सूक्तं सुकक्षस्यार्षं गायत्रमैन्द्रम् । अन्त्या त्विन्द्रर्भुदेवताका । तथा चानुक्रान्तम्- उद्ध चतुस्त्रिंशत्सुकक्षोऽन्त्यैन्द्रार्भवी’ इति । द्वितीये पर्याये होतुः शस्त्र उत्तमावर्जमेतत्सूक्तम् । सूत्रितं च - उद्घेदभीत्युत्तमामुद्धरेत्’ ( आश्व. श्रौ. ६. ४ ) इति । महाव्रतेऽप्यस्य विनियोगः पूर्वसूक्तेन सहोक्तः । ज्योतिष्टोमे ब्राह्मणाच्छंसिशस्त्र आद्यस्तृचः । सूत्रितं च - ‘ उद्घेदभीति तिस्र इन्द्र क्रतुविदं सुतमिति याज्या’ (आश्व. श्रौ. ५. १० ) इति । तथाप्तोर्यामे मैत्रावरुणातिरिक्तोक्थेऽयं तृचोऽनुरूपः । सूत्रितं च – यदद्य कच्च वृत्रहन्नुद्घेदभि श्रुतामघमा नो विश्वाभिः’ ( आश्व. श्रौ. ९. ११ ) इति ॥

Jamison Brereton

93 (702)
Indra (except Indra and R̥bhus 34)
Sukakṣa Āṅgirasa
34 verses: gāyatrī, arranged in trcas ̥
This long hymn begins with an address to the rising sun (vs. 1), which is echoed in the first verse of the second tr̥ca (vs. 4 ), and near its end are two verses directed to Agni (vss. 25–26). These paired addresses to other deities within an Indra hymn suggest the ritual context of a dawn soma sacrifice (though Dawn herself is not alluded to). Indeed, the soma offered to Indra is the dominant theme of the hymn, which becomes more insistent as the hymn progresses. Not surprisingly, mention of the aid and material wealth he will give in return for the soma is also not scanted.
Throughout the hymn Indra is especially celebrated as (best) Vr̥tra-smiter: the simple epithet and its superlative form occur an astonishing nine times, even though the myth itself is treated only sparingly (vss. 2, 7, 14–15).
As often, the tr̥cas become more tightly organized toward the end of the hymn, with a partial refrain in verses 25–27, and full-pāda refrains in 28–30 and 31–33, the latter being introduced (31a) by the same pāda that provides the refrain (31–33c). There are also intra- and inter-tr̥ca verbal echoes in these later verses. The separate final verse (34) mentioning the R̥bhus seems to have little or no connection to the rest of the hymn.

Jamison Brereton Notes

Indra

01 उद्घेदभि श्रुतामघम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

(सु᳓क᳓क्षः᳓, इ᳓न्द्रः᳓, गा᳓य᳓त्री᳓।)

उ᳓द्घ᳓+++(=हि)+++ +इ᳓द् अभि᳓ श्रुता᳓मघं᳓+++(=श्रुतधनम्)++ वृषभं+++(=वर्षितारं याचमानेभ्यो)+++ न᳓र्यापसम् +++(=नरहितकर्माणम्)+++ ।
अ᳓स्तारम्+++(=दानशौण्डम्)++एषि सूर्य+++(=सारक / सूर्यात्मक [इन्द्र]!)+++ ॥

02 नव यो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

न᳓व यो᳓ नवति᳓म् पु᳓रो
बिभे᳓द बाहु᳓ओजसा
अ᳓हिं च वृत्रहा᳓वधीत्

03 स न - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓ न इ᳓न्द्रः शिवः᳓ स᳓खा
अ᳓श्वावद् गो᳓मद् य᳓वमत्
उरु᳓धारेव दोहते

04 यदद्य कच्च - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓दद्य᳓ क᳓च्च+++(=किञ्चित्)+++ वृत्र+++(=जलावरक-मेघ)+++हन्नुद᳓गा अभि᳓ सूर्य ।
स᳓र्वं त᳓दिन्द्र ते व᳓शे ॥

05 यद्वा प्रवृद्ध - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓द् वा प्रवृद्ध सत्पते
न᳓ मरा इ᳓ति म᳓न्यसे
उतो᳓ त᳓त् सत्य᳓म् इ᳓त् त᳓व

06 ये सोमासः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

ये᳓ सो᳓मासः पराव᳓ति
ये᳓ अर्वाव᳓ति सुन्विरे᳓
स᳓र्वांस् ताँ᳓ इन्द्र गछसि

07 तमिन्द्रं वाजयामसि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

त᳓म् इ᳓न्द्रं वाजयामसि
महे᳓ वृत्रा᳓य ह᳓न्तवे
स᳓ वृ᳓षा वृषभो᳓ भुवत्

08 इन्द्रः स - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

इ᳓न्द्रः स᳓ दा᳓मने कृत᳓
ओ᳓जिष्ठः स᳓ म᳓दे हितः᳓
द्युम्नी᳓ श्लोकी᳓ स᳓ सोमियः᳓

09 गिरा वज्रो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

गिरा᳓ व᳓ज्रो न᳓ स᳓म्भृतः
स᳓-बलो अ᳓नपच्युतः
ववक्ष᳓ ऋष्वो᳓ अ᳓स्तृतः ॥

10 दुर्गे चिन्नः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

दुर्गे᳓ चिन् नः सुगं᳓ कृधि
गृणान᳓ इन्द्र गिर्वणः
तुवं᳓ च मघवन् व᳓शः

11 यस्य ते - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓स्य ते नू᳓ चिद् आदि᳓शं
न᳓ मिन᳓न्ति स्वरा᳓जियम्
न᳓ देवो᳓ ना᳓ध्रिगुर् ज᳓नः

12 अधा ते - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓धा ते अ᳓प्रतिष्कुतं
देवी᳓ शु᳓ष्मं सपर्यतः
उभे᳓ सुशिप्र रो᳓दसी

13 त्वमेतदधारयः कृष्णासु - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

तुव᳓म् एत᳓द् अधारयः
कृष्णा᳓सु रो᳓हिणीषु च
प᳓रुष्णीषु रु᳓शत् प᳓यः

14 वि यदहेरध - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

वि᳓ य᳓द् अ᳓हेर् अ᳓ध त्विषो᳓
वि᳓श्वे देवा᳓सो अ᳓क्रमुः
विद᳓न् मृग᳓स्य ताँ᳓ अ᳓मः

15 आदु मे - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓द् उ मे निवरो᳓ भुवद्
वृत्रहा᳓दिष्ट पउं᳓सियम्
अ᳓जातशत्रुर् अ᳓स्तृतः

16 श्रुतं वो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

श्रुतं᳓ वो वृत्रह᳓न्तमम्
प्र᳓ श᳓र्धं चर्षणीना᳐᳓म्
आ᳓ शुषे रा᳓धसे महे᳓

17 अया धिया - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अया᳓ धिया᳓ च गव्यया᳓
पु᳓रुणामन् पु᳓रुष्टुत
य᳓त् सो᳓मे-सोम आ᳓भवः

18 बोधिन्मना इदस्तु - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

बोधि᳓न्मना इ᳓द् अस्तु नो
वृत्रहा᳓ भू᳓रिआसुतिः
शृणो᳓तु शक्र᳓ आशि᳓षम्

19 कया त्वम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

क᳓या तुवं᳓ न ऊतिया᳓
अभि᳓ प्र᳓ मन्दसे वृषन्
क᳓या स्तोतृ᳓भ्य आ᳓ भर

20 कस्य वृषा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

क᳓स्य वृ᳓षा सुते᳓ स᳓चा
नियु᳓त्वान् वृषभो᳓ रणत्
वृत्रहा᳓ सो᳓मपीतये

21 अभी षु - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अभी᳓ षु᳓ णस् तुवं᳓ रयि᳓म्
मन्दसानः᳓ सहस्रि᳓णम्
प्रयन्ता᳓ बोधि दाशु᳓षे

22 पत्नीवन्तः सुता - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

प᳓त्नीवन्तः सुता᳓ इम᳓
उश᳓न्तो यन्ति वीत᳓ये
अपां᳓ ज᳓ग्मिर् निचुम्पुणः᳓

23 इष्था होत्रा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

इष्टा᳓ हो᳓त्रा असृक्षत
इ᳓न्द्रं वृधा᳓सो अध्वरे᳓
अ᳓छावभृथ᳓म् ओ᳓जसा

24 इह त्या - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

इह᳓ त्या᳓ सधमा᳓दिया
ह᳓री हि᳓रण्यकेशिया
वोळ्हा᳓म् अभि᳓ प्र᳓यो हित᳓म्

25 तुभ्यं सोमाः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

तु᳓भ्यं सो᳓माः सुता᳓ इमे᳓
स्तीर्ण᳓म् बर्हि᳓र् विभावसो
स्तोतृ᳓भ्य इ᳓न्द्रम् आ᳓ वह

26 आ ते - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ ते द᳓क्षं वि᳓ रोचना᳓
द᳓धद् र᳓त्ना वि᳓ दाशु᳓षे
स्तोतृ᳓भ्य इ᳓न्द्रम् अर्चत

27 आ ते - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ ते दधामि इन्द्रिय᳓म्
उक्था᳓ वि᳓श्वा शतक्रतो
स्तोतृ᳓भ्य इन्द्र मॄळय+

28 भद्रम्भद्रं न - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

भद्र᳓म्-भद्रं न आ᳓ भर
इ᳓षम् ऊ᳓र्जं शतक्रतो
य᳓द् इन्द्र मॄळ᳓यासि+ नः

29 स नो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓ नो वि᳓श्वानि आ᳓ भर
सुविता᳓नि शतक्रतो
य᳓द् इन्द्र मॄळ᳓यासि+ नः

30 त्वामिद्वृत्रहन्तम सुतावन्तो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

तुवा᳓म् इ᳓द् वृत्रहन्तम
सुता᳓वन्तो हवामहे
य᳓द् इन्द्र मॄळ᳓यासि+ नः

31 उप नो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

उ᳓प नो ह᳓रिभिः सुतं᳓
याहि᳓ मदाना᳐म् पते
उ᳓प नो ह᳓रिभिः सुत᳓म्

32 द्विता यो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

द्विता᳓ यो᳓ वृत्रह᳓न्तमो
विद᳓ इ᳓न्द्रः शत᳓क्रतुः
उ᳓प नो ह᳓रिभिः सुत᳓म्

33 त्वं हि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

त्वं᳓ हि᳓ वृत्रहन्न् एषा᳐म्
पाता᳓ सो᳓माना᳐म् अ᳓सि
उ᳓प नो ह᳓रिभिः सुत᳓म्

34 इन्द्र इषे - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

इ᳓न्द्र इषे᳓ ददातु न
ऋभुक्ष᳓णम् ऋभुं᳓ रयि᳓म्
वाजी᳓ ददातु वाजि᳓नम्