०९२

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘पान्तमा वः’ इति त्रयस्त्रिंशद्दचं द्वादशं सूक्तमाङ्गिरसस्य श्रुतकक्षस्य सुकक्षस्य वार्षमैन्द्रम् ।। आद्यानुष्टुप् शिष्टा गायत्र्यः । तथानुक्रम्यते- ‘ पान्तं त्रयस्त्रिशच्छ्रुतकक्षः सुकक्षो वाद्यानुष्टुप् ’ इति । महाव्रते गायत्रतृचाशीतौ प्रथमावर्जमिदं सूक्तमुत्तरं च । पञ्चमारण्यके सूत्रितं च - पुरुहूतं पुरुष्टुतमिति शेषः’ (ऐ. आ. ५. २. ३) इति । प्रथमे रात्रिपर्याये होतुः शस्त्र आद्यौ तृचौ स्तोत्रियानुरूपौ । सूत्रितं च - पान्तमा वो अन्धसोऽपादु शिप्र्यन्धसः’ (आश्व. श्रौ. ६. ४) इति ।।

Jamison Brereton

92 (701)
Indra
Śrutakakṣa Āṅgirasa or Sukakṣa Āṅgirasa
33 verses: gāyatrī, except anuṣṭubh 1, arranged in trcas ̥
This long, loosely structured hymn is essentially a constantly repeated invitation to Indra to come to the soma sacrifice. Although the poet does ask for aid from time to time, the focus is on the sacrifice, the verbal accompaniments, and the soma itself. The poet names himself (or nicknames himself: the name is Śrutakakṣa “having a famous armpit” [or a famous crotch]) in verse 25. This nickname appears in the midst of a striking sequence using the adverb áram “fitting(ly)” (vss. 24–27) in a clever shift implicitly equating Indra’s body parts (e.g., “fit for your cheek” vs. 24a) with the gifts the poet hopes to receive (e.g., “fit for a horse” vs. 25a), at least once punningly: verse 35c, where the word dhā́mane can refer both to a body part, the “fundament,” that is, the buttocks, and to Indra’s conferring of gifts.

Jamison Brereton Notes

Indra

01 पान्तमा वो - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

पान्त॒मा वो॒ अन्ध॑स॒ इन्द्र॑म॒भि प्र गा॑यत ।
वि॒श्वा॒साहं॑ श॒तक्र॑तुं॒ मंहि॑ष्ठं चर्षणी॒नाम् ॥

02 पुरुहूतं पुरुष्थुतम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

पु॒रु॒हू॒तं पु॑रुष्टु॒तं गा॑था॒न्यं१॒॑ सन॑श्रुतम् ।
इन्द्र॒ इति॑ ब्रवीतन ॥

03 इन्द्र इन्नो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्र॒ इन्नो॑ म॒हानां॑ दा॒ता वाजा॑नां नृ॒तुः ।
म॒हाँ अ॑भि॒ज्ञ्वा य॑मत् ॥

04 अपादु शिप्र्यन्धसः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अपा॑दु शि॒प्र्यन्ध॑सः सु॒दक्ष॑स्य प्रहो॒षिणः॑ ।
इन्दो॒रिन्द्रो॒ यवा॑शिरः ॥

05 तम्वभि प्रार्चतेन्द्रम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

तम्व॒भि प्रार्च॒तेन्द्रं॒ सोम॑स्य पी॒तये॑ ।
तदिद्ध्य॑स्य॒ वर्ध॑नम् ॥

06 अस्य पीत्वा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒स्य पी॒त्वा मदा॑नां दे॒वो दे॒वस्यौज॑सा ।
विश्वा॒भि भुव॑ना भुवत् ॥

07 त्यमु वः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

त्यमु॑ वः सत्रा॒साहं॒ विश्वा॑सु गी॒र्ष्वाय॑तम् ।
आ च्या॑वयस्यू॒तये॑ ॥

08 युध्मं सन्तमनर्वाणम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

यु॒ध्मं सन्त॑मन॒र्वाणं॑ सोम॒पामन॑पच्युतम् ।
नर॑मवा॒र्यक्र॑तुम् ॥

09 शिक्षा ण - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

शिक्षा॑ ण इन्द्र रा॒य आ पु॒रु वि॒द्वाँ ऋ॑चीषम ।
अवा॑ नः॒ पार्ये॒ धने॑ ॥

10 अतश्चिदिन्द्र ण - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अत॑श्चिदिन्द्र ण॒ उपा या॑हि श॒तवा॑जया ।
इ॒षा स॒हस्र॑वाजया ॥

11 अयाम धीवतो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अया॑म॒ धीव॑तो॒ धियोऽर्व॑द्भिः शक्र गोदरे ।
जये॑म पृ॒त्सु व॑ज्रिवः ॥

12 वयमु त्वा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

व॒यमु॑ त्वा शतक्रतो॒ गावो॒ न यव॑से॒ष्वा ।
उ॒क्थेषु॑ रणयामसि ॥

13 विश्वा हि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

विश्वा॒ हि म॑र्त्यत्व॒नानु॑का॒मा श॑तक्रतो ।
अग॑न्म वज्रिन्ना॒शसः॑ ॥

14 त्वे सु - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

त्वे सु पु॑त्त्र शव॒सो
ऽवृ॑त्र॒न् (=अवर्तन्त) काम॑-कातयः (=कामकामनाः)
न त्वाम् इ॒न्द्राति॑ रिच्यते ।।

15 स नो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

स नो॑ वृष॒न्त्सनि॑ष्ठया॒ सं घो॒रया॑ द्रवि॒त्न्वा ।
धि॒यावि॑ड्ढि॒ पुरं॑ध्या ॥

16 यस्ते नूनम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

यस्ते॑ नू॒नं श॑तक्रत॒विन्द्र॑ द्यु॒म्नित॑मो॒ मदः॑ ।
तेन॑ नू॒नं मदे॑ मदेः ॥

17 यस्ते चित्रश्रवस्तमो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

यस्ते॑ चि॒त्रश्र॑वस्तमो॒ य इ॑न्द्र वृत्र॒हन्त॑मः ।
य ओ॑जो॒दात॑मो॒ मदः॑ ॥

18 विद्मा हि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

वि॒द्मा हि यस्ते॑ अद्रिव॒स्त्वाद॑त्तः सत्य सोमपाः ।
विश्वा॑सु दस्म कृ॒ष्टिषु॑ ॥

19 इन्द्राय मद्वने - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्रा॑य॒ मद्व॑ने सु॒तं परि॑ ष्टोभन्तु नो॒ गिरः॑ ।
अ॒र्कम॑र्चन्तु का॒रवः॑ ॥

20 यस्मिन्विश्वा अधि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

यस्मि॒न्विश्वा॒ अधि॒ श्रियो॒ रण॑न्ति स॒प्त सं॒सदः॑ ।
इन्द्रं॑ सु॒ते ह॑वामहे ॥

21 त्रिकद्रुकेषु चेतनम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

त्रिक॑द्रुकेषु॒ चेत॑नं दे॒वासो॑ य॒ज्ञम॑त्नत ।
तमिद्व॑र्धन्तु नो॒ गिरः॑ ॥

22 आ त्वा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

आ त्वा॑ विश॒न्त्विन्द॑वः समु॒द्रमि॑व॒ सिन्ध॑वः ।
न त्वामि॒न्द्राति॑ रिच्यते ॥

23 विव्यक्थ महिना - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

वि॒व्यक्थ॑ महि॒ना वृ॑षन्भ॒क्षं सोम॑स्य जागृवे ।
य इ॑न्द्र ज॒ठरे॑षु ते ॥

24 अरं त - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अरं॑ त इन्द्र कु॒क्षये॒ सोमो॑ भवतु वृत्रहन् ।
अरं॒ धाम॑भ्य॒ इन्द॑वः ॥

25 अरमश्वाय गायति - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अर॒मश्वा॑य गायति श्रु॒तक॑क्षो॒ अरं॒ गवे॑ ।
अर॒मिन्द्र॑स्य॒ धाम्ने॑ ॥

26 अरं हि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अरं॒ हि ष्म॑ सु॒तेषु॑ णः॒ सोमे॑ष्विन्द्र॒ भूष॑सि ।
अरं॑ ते शक्र दा॒वने॑ ॥

27 पराकात्ताच्चिदद्रिवस्त्वां नक्षन्त - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

प॒रा॒कात्ता॑च्चिदद्रिव॒स्त्वां न॑क्षन्त नो॒ गिरः॑ ।
अरं॑ गमाम ते व॒यम् ॥

28 एवा ह्यसि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

ए॒वा ह्यसि॑ वीर॒युरे॒वा शूर॑ उ॒त स्थि॒रः ।
ए॒वा ते॒ राध्यं॒ मनः॑ ॥

29 एवा रातिस्तुवीमघ - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

ए॒वा रा॒तिस्तु॑वीमघ॒ विश्वे॑भिर्धायि धा॒तृभिः॑ ।
अधा॑ चिदिन्द्र मे॒ सचा॑ ॥

30 मो षु - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

मो षु ब्र॒ह्मेव॑ तन्द्र॒युर्भुवो॑ वाजानां पते ।
मत्स्वा॑ सु॒तस्य॒ गोम॑तः ॥

31 मा न - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

मा न॑ इन्द्रा॒भ्या॒३॒॑दिशः॒ सूरो॑ अ॒क्तुष्वा य॑मन् ।
त्वा यु॒जा व॑नेम॒ तत् ॥

32 त्वयेदिन्द्र युजा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

त्वयेदि॑न्द्र यु॒जा व॒यं प्रति॑ ब्रुवीमहि॒ स्पृधः॑ ।
त्वम॒स्माकं॒ तव॑ स्मसि ॥

33 त्वामिद्धि त्वायवोऽनुनोनुवतश्चरान् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

त्वामिद्धि त्वा॒यवो॑ऽनु॒नोनु॑वत॒श्चरा॑न् ।
सखा॑य इन्द्र का॒रवः॑ ॥