०९१

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ कन्या वाः’ इति सप्तर्चमेकादशं सूक्तम् । अत्रेः पुत्र्यपालाख्या त्वग्दोषपरिहारायानेन सूक्तेनेन्द्रं स्तुतवती । अतः सैवर्षिः । प्रथमाद्वितीये पङ्क्ती शिष्टाः पञ्चानुष्टुभः । इन्द्रो देवता । तथा चानुक्रान्तं- कन्या वाः सप्तात्रेय्यपालेतिहास ऐन्द्र आनुष्टुभं द्विपङ्क्त्यादि ’ इति । विनियोगो लैङ्गिकः । अत्रेतिहासमाचक्षते । पुरा किलात्रिसुतापाला ब्रह्मवादिनी केनचित्कारणेन त्वग्दोषदुष्टा सत्यत एव दुर्भगेति भर्त्रा परित्यक्ता पितुराश्रमे त्वग्दोषपरिहाराय चिरकालमिन्द्रमधिकृत्य तपस्तेपे । सा कदाचिदिन्द्रस्य सोमः प्रियकरो भवति तमिन्द्राय दास्यामीति बुद्ध्या नदीतीरं प्रत्यागमत् । सा तत्र स्नात्वा पथि सोममप्यलभत । तमादाय गृहं प्रत्यागच्छन्ती मार्ग एव तं चखाद । तद्भक्षणकाले दन्तघर्षणजातं शब्दं ग्राव्णां सोमाभिषवध्वनिमिति मत्वा तदानीमेवेन्द्रः समागमत् । आगत्य तमुवाच । किमत्र ग्रावाणोऽभिषुण्वन्तीति । सा प्रत्यूचे । अत्र कन्या स्नानार्थमागत्य सोमं दृष्ट्वा तं भक्षयति तद्भक्षणजो ध्वनिरेव न तु ग्राव्णां सोमाभिषवध्वनिरिति । तथा प्रत्युक्त इन्द्रः पराङावर्तत । गच्छन्तमिन्द्रं सा पुनरब्रवीत् । किमर्थं निवर्तसे त्वं तु सोमपानाय गृहं गृहं प्रति गच्छसि । इदानीमत्रापि मम दंष्ट्राभ्यामभिषुतं सोमं पिब धानादींश्च भक्षयेति । सैवेन्द्रमनाद्रियमाणा सती पुनरप्याह । अत्रागतं त्वामिन्द्र इति न जानामि त्वयि गृहमागते बहुमानं करिष्यामीतीन्द्रमुक्त्वात्र समागत इन्द्र एव नान्य इति निश्चित्य स्वास्ये निहितं सोममाह । हे सोम त्वमागतायेन्द्राय पूर्वं शनैस्ततः शनकैः क्षिप्रं परिस्रवेति । तत इन्द्रस्तां कामयित्वा तस्या आस्य एव दंष्ट्राभिषुतं सोममपात् । तत इन्द्रेण सोमे पीते सति त्वग्दोषादहं भर्त्रा परित्यक्ता सतीदानीमिन्द्रेण संगतेत्यपालायामुक्तायामिन्द्रस्तां व्याजहार । किं कामयसे तदहं करिष्यामीत्युक्ते सा वरमचीकमत । मम पितुः शिरो रोमवर्जितं तस्योषरं क्षेत्रं फलादिरहितं मम गुह्यस्थानमप्यरोमशमेतानि रोमफलादियुक्तं कुर्वित्युक्तायां तत्पितृशिरःस्थितं खलतिमपहाय क्षेत्रं च फलादियुक्तं कृत्वैतस्यास्त्वग्दोषपरिहाराय स्वकीयरथच्छिद्रे शकटस्य युगस्य च छिद्र एतां त्रिवारं निश्चकर्ष । तस्याः पूर्वापहता या त्वक् शल्यको द्वितीया गोधा तृतीया कृकलासोऽभूत् । तत इन्द्रस्तामप्यपालां सूर्यसदृशत्वचमकरोदित्यैतिहासिकी कथा । एतच्च शाट्यायनब्राह्मणे स्पष्टमुक्तम् । तद्ब्राह्मणं तत्तदृग्व्याख्यानसमये दर्शयिष्यते । एषोऽर्थः ‘कन्या वाः’ इत्यादिष्वृक्षु प्रतिपाद्यते ॥

Jamison Brereton

91 (700)
Indra
Apālā Ātreyī
7 verses; paṅkti 1–2, anuṣṭubh 3–7
This deceptively simple, and much discussed, hymn consists of a monologue embedded in a charm for healing and fertility. Unusually the speaker is an unmar ried girl, who undertakes a clandestine soma ritual for Indra, with erotic over tones, in ultimate preparation for her marriage. It begins with a contextualizing introduction (vs. 1a–c): a maiden going to fetch water finds soma on her way. She brings it home and addresses first the soma and then Indra. She announces to soma her intention to press it (1de): as it turns out she presses it with her own mouth (2c) and offers it to Indra along with all the accoutrements of a real soma sacrifice (vs. 2). Indra arrives for the soma, and she seeks to understand his intentions, even as she assures him that she will keep his presence a secret (3ab). The lexeme translated “recite” (ádhi √i) is an item of pedagogical vocabulary, appro priate to her age and stage of life, and refers to students’ oral recitation of their lessons; in this context it seems to mean “reveal your presence verbally.” She then urges the soma to flow softly, in contrast to the excessive noise usually associated with soma’s preparation (3cd). In verse 4 she tremulously speculates to herself about whether Indra will be able to achieve what she wants from her private soma-pressing, and worries, as an adolescent girl apprehensive about sexual ity and marriage, about sexual intercourse with Indra, a rather formidable first sexual partner, one might think. In the next two verses (5–6) she expresses her wishes—three different types of hair growth: on the fields, that is, plants; on her father’s bald head; and on her “belly,” the last wish indicating a desire for pubic hair as a sign of sexual maturity. Apālā’s words end here; the final verse says nothing directly about whether Indra fulfilled her expressed wishes (though we take it as implying that he did), but simply states that he purified her by pulling

her through increasingly smaller holes, rendering her “sun-skinned,” quite pos sibly a reference to the curing of teenage acne, a frequent accompaniment to the entry into sexual maturity.
This R̥gvedic hymn is extensively quoted and embedded in a prose narrative in the Jaiminīya Brāhmaṇa (I.220–21). For detailed discussion of this hymn and its middle Vedic version, see Jamison (1991: 149–51, 165–67). That account and this translation are deeply indebted to and dependent upon the ground-breaking discus
sion by Hanns-Peter Schmidt in chapter 1 “The Affliction of Apālā (R̥gveda 8.91)” in his 1987 Some Women’s Rites and Rights in the Veda (pp. 1–29).

Jamison Brereton Notes

Indra (/Apālā)

01 कन्याथ् वारवायती - पङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

कनि᳓या वा᳓र् अवायती᳓
सो᳓मम् अ᳓पि स्रुता᳓विदत्
अ᳓स्तम् भ᳓रन्ति अब्रवीद्
इ᳓न्द्राय सुनवै तुवा
शक्रा᳓य सुनवै तुवा

02 असौ य - पङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

असउ᳓ य᳓ ए᳓षि वीरको᳓
गृहं᳓-गृहं विचा᳓कशद्
इमं᳓ ज᳓म्भसुतम् पिब
धाना᳓वन्तं करम्भि᳓णम्
अपूप᳓वन्तम् उक्थि᳓नम्

03 आ चन - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ चन᳓ त्वा चिकित्सामो
अ᳓धि चन᳓ त्वा ने᳓मसि
श᳓नैर् ऽव° शनकइ᳓र् इव
इ᳓न्द्रायेन्दो प᳓रि स्रव

04 कुविच्छकत्कुवित्करत्कुविन्नो वस्यसस्करत् - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

कुवि᳓च् छ᳓कत् कुवि᳓त् क᳓रत्
कुवि᳓न् नो व᳓स्यसस् क᳓रत्
कुवि᳓त् पतिद्वि᳓षो यती᳓र्
इ᳓न्द्रेण संग᳓मामहै

05 इमानि त्रीणि - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इमा᳓नि त्री᳓णि विष्ट᳓पा
ता᳓नि इन्द्र वि᳓ रोहय
शि᳓रस् तत᳓स्य उर्व᳓राम्
आ᳓द् इद᳓म् म उ᳓पोद᳓रे

06 असौ च - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

असउ᳓ च या᳓ न उर्व᳓रा
आ᳓द् इमां᳓ तनु᳓वम् म᳓म
अ᳓थो तत᳓स्य य᳓च् छि᳓रः
स᳓र्वा ता᳓ रोमशा᳓ कृधि

07 खे रथस्य - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

खे᳓ र᳓थस्य खे᳓ अ᳓नसः
खे᳓ युग᳓स्य शतक्रतो
अपाला᳓म् इन्द्र त्रि᳓ष् पूत्वी᳓
अ᳓कृणोः सू᳓रियत्वचम्