०८८

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ तं वो दस्मम्’ इति षडृचमष्टमं सूक्तं गौतमस्य नोधस आर्षम् । तथा चानुक्रम्यते- तं वो दस्मं नोधाः’ इति । प्रागाथं ह’ इत्युक्तत्वादेतदादिसूक्तत्रयं प्रागाथम् । इन्द्रो देवता । महाव्रते निष्केवल्ये बार्हततृचाशीतावेतत्सूक्तम् । तथा च पञ्चमारण्यके सूत्रितं– तं वो दस्ममृतीषहमा नो विश्वासु हव्यः’ (ऐ. आ. ५. २. ४) इति । अग्निष्टोमे माध्यंदिनसवनेऽच्छावाकशस्त्रे ‘तं वो दस्मम्’ इति प्रगाथः स्तोत्रियः । सूत्रितं च – तं वो दस्ममृतीषहं तत्त्वा यामि सुवीर्यमिति प्रगाथौ स्तोत्रियानुरूपौ’ (आश्व. श्रौ. ५. १६ ) इति । चातुर्विंशिकेऽहनि माध्यंदिनसवने ब्राह्मणाच्छंसिनो वैकल्पिकः स्तोत्रियोऽयमेव प्रगाथः (आश्व. श्रौ. ७. ४ )। विषुवत्यपि माध्यंदिनसवने ब्राह्मणाच्छंसिशस्त्रे ‘तं वो दस्ममृतीषहम्’ इति नौधसस्य योनिः शंसनीया । ’ तं वो दस्ममृतीषहमभि प्र वः सुराधसम्’ (आश्व. श्रौ. ८. ६) इति ॥

Jamison Brereton

88 (697)
Indra
Nodhas Gautama
6 verses: br̥hatī alternating with satobr̥hatī, arranged in pragāthas
This hymn is attributed by the Anukramaṇī to Nodhas Gautama, the skillful poet of I.58–64, whose descendant Ekadyū Naudhasa is the purported author of nearby VIII.80, which utilized the Nodhas Gautama refrain. This refrain is not found in this hymn, though the most striking word in the refrain, makṣū́ “soon, right away,” does appear in verse 2. And in verse 4 the Gotamas are identified as creators of the chant being presented to Indra in phraseology very close to that used in the Nodhas Gautama hymns in Maṇḍala I (esp. I.61.16, but also I.60.5, I.63.9, I.62.13).
The hymn contains the usual mixture of praise for Indra’s overwhelming might and pleas for his largesse. The poet uses Indra’s unconstrained powers as an argu ment for his exercising generosity (see esp. vss. 3, 6). It is a well-crafted and pleasing piece; however, whether it is a part of the oeuvre of the Nodhas of Maṇḍala I is difficult to determine on stylistic grounds.

Jamison Brereton Notes

Indra

01 तं वो - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

तं᳓ वो दस्म᳓म्+++(=दर्शनीयम्)+++ ऋती+++(=बाधक)+++-ष᳓हं
व᳓सोर्+++(=निवसतः)+++ मन्दान᳓म्+++(=मोदमानम्)+++ अ᳓न्धसः+++(=अन्नस्य)+++ ।
अभि᳓ वत्सं᳓ न᳓ स्व᳓सरेषु+++(=अहस्सु)+++ धेन᳓व
इ᳓न्द्रं गीर्भि᳓र् नवामहे+++(=स्तुमः)+++ ॥

02 द्युक्षं सुदानुम् - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

द्युक्षं᳓ सुदा᳓नुं त᳓विषीभिर् आ᳓वृतं
गिरिं᳓ न᳓ पुरुभो᳓जसम्
क्षुम᳓न्तं वा᳓जं शति᳓नं सहस्रि᳓णम्
मक्षू᳓ गो᳓मन्तम् ईमहे

03 न त्वा - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

न᳓ त्वा बृह᳓न्तो अ᳓द्रयो
व᳓रन्त इन्द्र वीळ᳓वः
य᳓द् दि᳓त्ससि स्तुवते᳓ मा᳓वते व᳓सु
न᳓किष् ट᳓द् आ᳓ मिनाति ते

04 योद्धासि क्रत्वा - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

यो᳓द्धासि क्र᳓त्वा श᳓वसोत᳓ दंस᳓ना
वि᳓श्वा जाता᳓भि᳓ मज्म᳓ना
आ᳓ त्वाय᳓म् अर्क᳓ ऊत᳓ये ववर्तति
यं᳓ गो᳓तमा अ᳓जीजनन्

05 प्र हि - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓ हि᳓ रिरिक्ष᳓ ओ᳓जसा
दिवो᳓ अ᳓न्तेभियस् प᳓रि
न᳓ त्वा विव्याच र᳓ज इन्द्र पा᳓र्थिवम्
अ᳓नु स्वधां᳓ ववक्षिथ

06 नकिः परिष्थिर्मघवन्मघस्य - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

न᳓किः प᳓रिष्टिर् मघवन् मघ᳓स्य ते
य᳓द् दाशु᳓षे दशस्य᳓सि
अस्मा᳓कम् बोधि उच᳓थस्य चोदिता᳓
मं᳓हिष्ठो वा᳓जसातये