०८७

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘द्युम्नी वाम् ’ इति षडृचं सप्तमं सूक्तम् । तथा चानुक्रम्यते- द्युम्नी षड्वासिष्ठो वा द्युम्नीकः प्रियमेधो वा प्रागाथं ह ’ इति । वसिष्ठपुत्रो द्युम्नीक ऋषिराङ्गिरसः प्रियमेधो वा । उभयत्र वाशब्दाद्यदोभावपि न स्यातां तदा प्रकृत आङ्गिरसः कृष्ण एव ऋषिः । अयुजो बृहत्यो युजः सतोबृहत्यः । अश्विनौ देवता । प्रतिरनुवाक आश्विने क्रतौ बार्हते छन्दस्याश्विनशस्त्रे चेदं सूक्तम् । सूत्रितं च – ’ द्युम्नी वां यत्स्थ इति बार्हतम् ’ ( आश्व. श्रौ. ४. १५) इति ॥

Jamison Brereton

87 (696)
Aśvins
Dyumnīka Vāsiṣṭha or Priyamedha Āṅgirasa or Krṣ̥ ṇa Āṅgirasa
6 verses: br̥hatī alternating with satobr̥hatī arranged in pragāthas
A typical and rather banal Aśvin hymn, with the simple message “come here, drink the soma, give us aid and goods,” although there are a few striking images, espe cially in verse 1.
As Oldenberg (1888: 217) points out, this six-verse hymn, following a five-verse hymn, violates the proper order, but, as he also points out, the first two pragāthas are parallel in structure and phraseology, and may well form one four-verse hymn, with the final pragātha (vss. 5–6) an originally separate hymn. Detaching the last verses would restore an acceptable order, with a five-verse hymn (86), followed by four- and two-verse hymns.

Jamison Brereton Notes

Aśvins

01 द्युम्नी वाम् - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

द्युम्नी᳓ वां स्तो᳓मो अश्विना
क्रि᳓विर् न᳓ से᳓क आ᳓ गतम्
म᳓ध्वः सुत᳓स्य स᳓ दिवि᳓ प्रियो᳓ नरा
पातं᳓ गौरा᳓व् इवे᳓रिणे

02 पिबतं घर्मम् - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

पि᳓बतं घर्म᳓म् म᳓धुमन्तम् अश्विना
आ᳓ बर्हिः᳓ सीदतं नरा
ता᳓ मन्दसाना᳓ म᳓नुषो दुरोण᳓ आ᳓
नि᳓ पातं वे᳓दसा व᳓यः

03 आ वाम् - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ वां वि᳓श्वाभिर् ऊति᳓भिः
प्रिय᳓मेधा अहूषत
ता᳓ वर्ति᳓र् यातम् उ᳓प वृक्त᳓बर्हिषो
जु᳓ष्टं यज्ञं᳓ दि᳓विष्टिषु

04 पिबतं सोमम् - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

पि᳓बतं सो᳓मम् म᳓धुमन्तम् अश्विना
आ᳓ बर्हिः᳓ सीदतं सुम᳓त्
ता᳓ वावृधाना᳓ उ᳓प सुष्टुतिं᳓ दिवो᳓
गन्तं᳓ गौरा᳓व् इवे᳓रिणम्

05 आ नूनम् - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ नूनं᳓ यातम् अश्विना
अ᳓श्वेभिः प्रुषित᳓प्सुभिः
द᳓स्रा हि᳓रण्यवर्तनी शुभस् पती
पातं᳓ सो᳓मम् ऋतावृधा

06 वयं हि - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

वयं᳓ हि᳓ वां ह᳓वामहे विपन्य᳓वो
वि᳓प्रासो वा᳓जसातये
ता᳓ वल्गू᳓ दस्रा᳓ पुरुदं᳓ससा धिया᳓
अ᳓श्विना श्रुष्टी᳓ आ᳓ गतम्