०८५

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘आ मे हवम्’ इति नवर्चं पञ्चमं सूक्तम् । कृष्णो नामाङ्गिरस ऋषिः । गायत्री छन्दः । एतदादीनि त्रीणि सूक्तान्यश्विदेवत्यानि । तथा चानुक्रान्तम्- ’ आ मे कृष्ण आश्विनं हि ’ इति । प्रातरनुवाक आश्विने क्रतौ गायत्रे छन्दस्याश्विनशस्त्रे चेदं सूक्तम् । सूत्रितं च–’ उदीराथामा में हवम्’ ( आश्व. श्रौ. ४. १५) इति ॥

Jamison Brereton

85 (694)
Aśvins
Krṣ̥ ṇa Āṅgirasa
9 verses: gāyatrī, arranged in trcas ̥
Renou (EVP XVI: 68) deems this hymn “elementary,” and indeed the hymn reduces the divine–human interaction to its simplest dimensions—the refrain promising the gods ritual offerings and the rest of the verse sketching the poet’s invitation, the gods’ journey, and the returns desired. The poet identifies himself twice (vss. 3–4).

Jamison Brereton Notes

Aśvins

01 आ मे - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

आ मे॒ हवं॑ नास॒त्याश्वि॑ना॒ गच्छ॑तं यु॒वम् ।
मध्वः॒ सोम॑स्य पी॒तये॑ ॥

02 इमं मे - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

इ॒मं मे॒ स्तोम॑मश्विने॒मं मे॑ शृणुतं॒ हव॑म् ।
मध्वः॒ सोम॑स्य पी॒तये॑ ॥

03 अयं वाम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒यं वां॒ कृष्णो॑ अश्विना॒ हव॑ते वाजिनीवसू ।
मध्वः॒ सोम॑स्य पी॒तये॑ ॥

04 शृणुतं जरितुर्हवम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

शृ॒णु॒तं ज॑रि॒तुर्हवं॒ कृष्ण॑स्य स्तुव॒तो न॑रा ।
मध्वः॒ सोम॑स्य पी॒तये॑ ॥

05 छर्दिर्यन्तमदाभ्यं विप्राय - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

छ॒र्दिर्य॑न्त॒मदा॑भ्यं॒ विप्रा॑य स्तुव॒ते न॑रा ।
मध्वः॒ सोम॑स्य पी॒तये॑ ॥

06 गच्छतं दाशुषो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

गच्छ॑तं दा॒शुषो॑ गृ॒हमि॒त्था स्तु॑व॒तो अ॑श्विना ।
मध्वः॒ सोम॑स्य पी॒तये॑ ॥

07 युञ्जाथां रासभम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

यु॒ञ्जाथां॒ रास॑भं॒ रथे॑ वी॒ड्व॑ङ्गे वृषण्वसू ।
मध्वः॒ सोम॑स्य पी॒तये॑ ॥

08 त्रिवन्धुरेण त्रिवृता - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

त्रि॒व॒न्धु॒रेण॑ त्रि॒वृता॒ रथे॒ना या॑तमश्विना ।
मध्वः॒ सोम॑स्य पी॒तये॑ ॥

09 नू मे - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

नू मे॒ गिरो॑ नास॒त्याश्वि॑ना॒ प्राव॑तं यु॒वम् ।
मध्वः॒ सोम॑स्य पी॒तये॑ ॥