०८४

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘प्रेष्ठं वः’ इति नवर्चं चतुर्थं सूक्तं कवेः पुत्रस्योशनस आर्षं गायत्रमाग्नेयम् । तथानुक्रम्यते’ प्रेष्ठमुशना काव्य आग्नेयम्’ इति । प्रातरनुवाक आग्नेये क्रतौ गायत्रे छन्दस्याश्विनशस्त्रे चेदं सूक्तम् । सूत्रितं च— युवा हि प्रेष्ठं वः’ ( आश्व. श्रौ. ४. १३ ) इति । आभिप्लविकेषूक्थ्येषु मैत्रावरुणे ‘ प्रेष्ठं वः’ इति तृचो वैकल्पिकः स्तोत्रियः । सूत्रितं च–’ प्रेष्ठं वो अतिथिं श्रेष्ठं यविष्ठ भारत’ (आश्व. श्रौ. ७. ८) इति ॥

Jamison Brereton

84 (693)
Agni
Uśanā Kāvya
9 verses: gāyatrī, arranged in trcas ̥
This short and simple hymn to Agni makes no reference to his fiery qualities, and only glancing ones to his ritual role: as guest in our houses (vs. 1) set here by the gods (vs. 2). The most salient aspect of the hymn is the series of ques tions it contains: in the second tr̥ca (vss. 4–6) the poet asks what services we should perform for Agni and how we should perform them (vss. 4–5); the final tr̥ca (vss. 7–10) again begins with a question (vs. 7), this time about which poet is the recipient of Agni’s poetic stimulation. The poet is clearly concerned with producing the proper praise for the god; he mentions hymns or praises in verses 3–7.
The Anukramaṇī names as the poet the legendary and mythic figure Uśanā Kāvya, to whom the three hymns IX.87–89 are also attributed. It is not clear why, save for the mention of the kaví “sage poet” in verse 2.

Jamison Brereton Notes

Agni

01 प्रेष्टं वो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓यिष्ठं+ वो अ᳓तिथिं
स्तुषे᳓ मित्र᳓म् इव प्रिय᳓म्
अग्निं᳓ र᳓थं न᳓ वे᳓दियम्

02 कविमिव प्रचेतसम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

कवि᳓म् इव प्र᳓चेतसं
यं᳓ देवा᳓सो अ᳓ध द्विता᳓
नि᳓ म᳓र्तियेषु आदधुः᳓

03 त्वं यविष्ट - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

तुवं᳓ यविष्ठ दाशु᳓षो
नॄँ᳓ः पाहि शृणुधी᳓ गि᳓रः
र᳓क्षा तोक᳓म् उत᳓ त्म᳓ना

04 कया ते - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

क᳓या ते अग्ने अङ्गिर
ऊ᳓र्जो नपाद् उ᳓पस्तुतिम्
व᳓राय देव मन्य᳓वे

05 दाशेम कस्य - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

दा᳓शेम क᳓स्य म᳓नसा
यज्ञ᳓स्य सहसो यहो
क᳓द् उ वोच इदं᳓ न᳓मः

06 अधा त्वम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓धा तुवं᳓ हि᳓ नस् क᳓रो
वि᳓श्वा अस्म᳓भ्यं सुक्षितीः᳓
वा᳓जद्रविणसो गि᳓रः

07 कस्य नूनम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

क᳓स्य नून᳓म् प᳓रीणसो
धि᳓यो जिन्वसि दम्पते
गो᳓षाता य᳓स्य ते गि᳓रः

08 तं मर्जयन्त - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

त᳓म् मर्जयन्त सुक्र᳓तुम्
पुरोया᳓वानम् आजि᳓षु
स्वे᳓षु क्ष᳓येषु वाजि᳓नम्

09 क्षेति क्षेमेभिः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

क्षे᳓ति क्षे᳓मेभिः साधु᳓भिर्
न᳓किर् यं᳓ घ्न᳓न्ति ह᳓न्ति यः᳓
अ᳓ग्ने सुवी᳓र एधते