०८३

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘देवानाम्’ इति नवर्चं तृतीयं सूक्तं काण्वस्य कुसीदिन आर्षं गायत्रं वैश्वदेवम् । तथा चानुक्रम्यते - ’ देवानां वैश्वदेवम् ’ इति । दशरात्रेऽष्टमेऽहनि वैश्वदेवशस्त्र इदं सूक्तं वैश्वदेवनिविद्धानम् । सूत्रितं च – देवानामिदव इति वैश्वदेवम् ’ ( आश्व. श्रौ. ८. १०) इति ।

Jamison Brereton

83 (692)
All Gods
Kusīdin Kāṇva
9 verses: gāyatrī, arranged in trcas ̥
The first two tr̥cas (vss. 1–6) of this hymn to the All Gods mention only the Ādityas and are quite straightforward. The poet praises the help of these gods in the first tr̥ca (vss. 1–3) and asks for valuables in the second (vss. 4–6). The final tr̥ca turns to other gods (see esp. vs. 7) and to a more interesting topic: the ultimate kinship of gods and men (vss. 7–8). The gods are reminded of this relationship presumably to stimulate them to give help and goods.

Jamison Brereton Notes

All Gods

01 देवानामिदवो महत्तदा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

देवा᳓नाम् इ᳓द् अ᳓वो मह᳓त्
त᳓द् आ᳓ वृणीमहे वय᳓म्
वृ᳓ष्णाम् अस्म᳓भ्यम् ऊत᳓ये

02 ते नः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

ते᳓ नः सन्तु यु᳓जः स᳓दा
व᳓रुणो मित्रो᳓ अर्यमा᳓
वृधा᳓सश् च प्र᳓चेतसः

03 अति नो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓ति नो विष्पिता᳓ पुरु᳓
नौभि᳓र् अपो᳓ न᳓ पर्षथ
यूय᳓म् ऋत᳓स्य रथियः

04 वामं नो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

वामं᳓ नो अस्तु अर्यमन्
वामं᳓ वरुण शं᳓सियम्
वामं᳓ हि᳓ आवृणीम᳓हे

05 वामस्य हि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

वाम᳓स्य हि᳓ प्रचेतस
ई᳓शानाशो रिशादसः
ने᳓म् आदित्या अघ᳓स्य य᳓त्

06 वयमिद्वः सुदानवः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

वय᳓म् इ᳓द् वः सुदानवः
क्षिय᳓न्तो या᳓न्तो अ᳓ध्वन् आ᳓
दे᳓वा वृधा᳓य हूमहे

07 अधि न - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓धि न इन्द्र एषां᳐
वि᳓ष्णो सजाति᳓याना᳐म्
इता᳓ म᳓रुतो अ᳓श्विना

08 प्र भ्रातृत्वम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓ भ्रातृत्वं᳓ सुदानवो
अ᳓ध द्विता᳓ समानिया᳓
मातु᳓र् ग᳓र्भे भरामहे

09 यूयं हि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

यूयं᳓ हि᳓ ष्ठा᳓ सुदानव
इ᳓न्द्रज्येष्ठा अभि᳓द्यवः
अ᳓धा चिद् व उत᳓ ब्रुवे