०८२

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

॥ श्रीगणेशाय नमः ॥

यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।

निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥

‘आ प्र द्रव’ इति नवर्चं द्वितीयं सूक्तम् । तथा चानुक्रम्यते- ‘ आ प्र द्रव ’ इति । ‘ऋषिश्चान्यस्मात् ’ इति परिभाषया काण्वः कुसीद्यृषिः । प्राग्वत्सप्रीयपरिभाषया गायत्री छन्दः । अनादेशपरिभाषयेन्द्रो देवता । महाव्रते निष्केवल्ये सूक्तविनियोग उक्तः । द्वितीये रात्रिपर्याये मैत्रावरुणशस्त्रे ‘आ प्र द्रव ’ इति तृचोऽनुरूपः । सूत्रितं च- ‘ आ प्र द्रव परावतो नह्यन्यं बळाकरमित्यष्टौ ’ ( आश्व. श्रौ. ६. ४ ) इति ।

Jamison Brereton

82 (691)
Indra
Kusīdin Kāṇva
9 verses: gāyatrī, arranged in trcas ̥
This hymn is an insistent invitation to the soma sacrifice, punctuated by impera tives: “run,” “come here,” “drink,” and so forth, and larded with descriptions of the soma in various stages of preparation. It is simple in diction and entirely focused on the ritual situation and the hope for Indra’s arrival, save for the last verse (9), which alludes briefly to the myth of the stealing of soma from heaven. The last tr̥ca is marked by a refrain.

Jamison Brereton Notes

Indra

01 आ प्र - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

आ प्र द्र॑व परा॒वतो॑ऽर्वा॒वत॑श्च वृत्रहन् ।
मध्वः॒ प्रति॒ प्रभ॑र्मणि ॥

02 तीव्राः सोमास - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

ती॒व्राः सोमा॑स॒ आ ग॑हि सु॒तासो॑ मादयि॒ष्णवः॑ ।
पिबा॑ द॒धृग्यथो॑चि॒षे ॥

03 इषा मन्दस्वादु - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

इ॒षा म॑न्द॒स्वादु॒ तेऽरं॒ वरा॑य म॒न्यवे॑ ।
भुव॑त्त इन्द्र॒ शं हृ॒दे ॥

04 आ त्वशत्रवा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

आ त्व॑शत्र॒वा ग॑हि॒ न्यु१॒॑क्थानि॑ च हूयसे ।
उ॒प॒मे रो॑च॒ने दि॒वः ॥

05 तुभ्यायमद्रिभिः सुतो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

तुभ्या॒यमद्रि॑भिः सु॒तो गोभिः॑ श्री॒तो मदा॑य॒ कम् ।
प्र सोम॑ इन्द्र हूयते ॥

06 इन्द्र श्रुधि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्र॑ श्रु॒धि सु मे॒ हव॑म॒स्मे सु॒तस्य॒ गोम॑तः ।
वि पी॒तिं तृ॒प्तिम॑श्नुहि ॥

07 य इन्द्र - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

य इ॑न्द्र चम॒सेष्वा सोम॑श्च॒मूषु॑ ते सु॒तः ।
पिबेद॑स्य॒ त्वमी॑शिषे ॥

08 यो अप्सु - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

यो अ॒प्सु च॒न्द्रमा॑ इव॒ सोम॑श्च॒मूषु॒ ददृ॑शे ।
पिबेद॑स्य॒ त्वमी॑शिषे ॥

09 यं ते - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

यं ते॑ श्ये॒नः प॒दाभ॑रत्ति॒रो रजां॒स्यस्पृ॑तम् ।
पिबेद॑स्य॒ त्वमी॑शिषे ॥