०८१

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

नवमेऽनुवाके त्रयोदश सूक्तानि । तत्र ‘आ तू न इन्द्र’ इति नवर्चं प्रथमं सूक्तं कण्वपुत्रस्य कुसीदिन आर्षं गायत्रमैन्द्रम् । तथा चानुक्रम्यते— आ तू नो नव कुसीदी काण्वः’ इति । महाव्रते निष्केवल्ये गायत्रतृचाशीतावेतदादिके द्वे सूक्ते । तथैव पञ्चमारण्यके सूत्रितं च शौनकेन - ‘आ तू न इन्द्र क्षुमन्तमिति सूक्ते सूददोहाः’ (ऐ. आ. ५. २. ३) इति । द्वितीये पर्याये मैत्रावणशस्त्र आद्यस्तृचः स्तोत्रियः । सूत्रितं च— आ तू न इन्द्र क्षुमन्तमा प्र द्रव परावतः ’ ( आश्व. श्रौ. ६. ४ ) इति ।

Jamison Brereton

81 (690)
Indra
Kusīdin Kāṇva
9 verses: gāyatrī, arranged in trcas ̥
Though assigned to a different poet, this hymn, like the last one (VIII.81), addresses Indra with a certain irreverence and informality, with multiple demands that Indra seize goods and bring them to us, in addition to the usual praise of his power and generosity. One verse is somewhat puzzling: the middle verse (5), in which Indra seems to participate in the ritual in priestly roles as well as being the object of wor
ship, but this theme is not pursued.

Jamison Brereton Notes

Indra

01 आ तू - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ तू᳓ न इन्द्र क्षुम᳓न्तं
चित्रं᳓ ग्राभं᳓ सं᳓ गृभाय
महाहस्ती᳓ द᳓क्षिणेन

02 विद्मा हि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

विद्मा᳓ हि᳓ त्वा तुविकूर्मिं᳓
तुवि᳓देष्णं तुवी᳓मघम्
तुविमात्र᳓म् अ᳓वोभिः

03 नहि त्वा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

नहि᳓ त्वा शूर देवा᳓
न᳓ म᳓र्तासो दि᳓त्सन्तम्
भीमं᳓ न᳓ गां᳓ वार᳓यन्ते

04 एतो न्विन्द्रम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

ए᳓तो नु इ᳓न्द्रं स्त᳓वाम
इ᳓शानं व᳓स्वः स्वरा᳓जम्
न᳓ रा᳓धसा मर्धिषन् नः

05 प्र स्तोषदुप - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓ स्तोषद् उ᳓प गासिषच्
छ्र᳓वत् सा᳓म गीय᳓मानम्
अभि᳓ रा᳓धसा जुगुरत्

06 आ नो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ नो भर द᳓क्षिणेन
अभि᳓ सव्ये᳓न प्र᳓ मृश
इ᳓न्द्र मा᳓ नो व᳓सोर् नि᳓र् भाक्

07 उप क्रमस्वा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

उ᳓प क्रमस्व आ᳓ भर
धृषता᳓ धृष्णो ज᳓नानाम्
अ᳓दाशूष्टरस्य वे᳓दः

08 इन्द्र य - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

इ᳓न्द्र य᳓ उ नु᳓ ते अ᳓स्ति
वा᳓जो वि᳓प्रेभिः स᳓नित्वः
अस्मा᳓भिः सु᳓ तं᳓ सनुहि

09 सद्योजुवस्ते वाजा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

सद्योजु᳓वस् ते वा᳓जा
अस्म᳓भ्यं विश्व᳓श्चन्द्राः
व᳓शैश् च मक्षू᳓ जरन्ते