०७९

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ अयं कृत्नुः’ इति नवर्चं दशमं सूक्तम् । अत्रेयमनुक्रमणिका - अयं कृत्नुर्नव कृत्नुर्भार्गवः सौम्यमन्त्यानुष्टुप् ’ इति । भार्गवः कृत्नुर्ऋषिः । नवम्यनुष्टुप् । अष्टौ गायत्र्यः । सोमो देवता । विनियोगो लैङ्गिकः ॥

Jamison Brereton

79 (688)
Soma
Krtnu Bh ̥ ārgava
9 verses: gāyatrī, except anuṣṭubh 9, probably arranged in trcas ̥
One of the rare hymns to Soma outside of the IXth Maṇḍala. None of the physical or ceremonial properties of soma the substance, the ritual drink, is found in this hymn. There is only indirect reference to the preparation of soma, in verse 3, where the “body-makers,” presumably the priests who prepare the soma, are given shelter from hatred, and in verse 4 soma is called “possessor of the silvery (drink) [that is, soma itself],” an epithet otherwise almost exclusively used of Indra.
Instead of the ritual soma, we have here a portrait of an all-powerful and multi talented divine helper: a winner (vs. 1), a poet (vs. 1), a healer (vs. 2), a giver (vs. 5), a finder of lost objects (vs. 6), and especially a protector from hostility (vss. 3, 4, 9). Only in verse 8 is there any hint that Soma might ever be anything but benevolent to us, but this hint is not developed.

Jamison Brereton Notes

Soma

01 अयं कृत्नुरगृभीतो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अयं᳓ कृत्नु᳓र् अ᳓गृभीतो
विश्वजि᳓द् उद्भि᳓द् इ᳓त् सो᳓मः
ऋ᳓षिर् वि᳓प्रः का᳓वियेन

02 अभ्यूर्णोति यन्नग्नम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अभि᳓ ऊर्णोति य᳓न् नग्न᳓म्
भिष᳓क्ति वि᳓श्वं य᳓त् तुर᳓म्
प्रे᳓म् अन्धः᳓ ख्यन् निः᳓ श्रोणो᳓ भूत्

03 त्वं सोम - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

त्वं᳓ सोम तनू-कृ᳓द्भ्यो
द्वे᳓षोभ्यो+++(←द्वेषस्)+++ ऽन्य᳓-कृतेभ्यः ।
उरु᳓ यन्ता᳓सि व᳓रूथम् ॥

04 त्वं चित्ती - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

तुवं᳓ चित्ती᳓ त᳓व द᳓क्षैर्
दिव᳓ आ᳓ पृथिव्या᳓ र्जीषिन्
या᳓वीर् अघ᳓स्य चिद् द्वे᳓षः

05 अर्थिनो यन्ति - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अर्थि᳓नो य᳓न्ति चे᳓द् अ᳓र्थं
ग᳓छान् इ᳓द् ददु᳓षो राति᳓म्
ववृज्यु᳓स् तृ᳓ष्यतः का᳓मम्

06 विदद्यत्पूर्व्यं नष्थमुदीमृतायुमीरयत् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

विद᳓द् य᳓त् पूर्वियं᳓ नष्ट᳓म्
उ᳓द् ईम् ऋतायु᳓म् ईरयत्
प्रे᳓म् आ᳓युस् तारीद् अ᳓तीर्णम्

07 सुशेवो नो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

सुशे᳓वो नो मॄळया᳓कुर्+
अ᳓दृप्तक्रतुर् अवातः᳓
भ᳓वा नः सोम शं᳓ हृदे᳓

08 मा नः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

मा᳓ नः सोम सं᳓ वीविजो
मा᳓ वि᳓ बीभिषथा राजन्
मा᳓ नो हा᳓र्दि त्विषा᳓ वधीः

09 अव यत्स्वे - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓व य᳓त् सुवे᳓ सध᳓स्थे
देवा᳓नां दुर्मती᳓र् ई᳓क्षे
रा᳓जन्न् अ᳓प द्वि᳓षः सेध
मी᳓ढ्वो अ᳓प स्रि᳓धः सेध