०७५

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘युक्ष्वा हि’ इति षोडशर्च षष्ठं सूक्तमाङ्गिरसस्य विरूपस्यार्षं गायत्रमाग्नेयम् । तथा चानुक्रमणिका-– ‘युक्ष्वा हि षोळश विरूपः’ इति । दशरात्रे तृतीयेऽहनीदं सूक्तमाज्यशस्त्रम् । सूत्रितं च -– तृतीये युक्ष्वा हीत्याज्यम्’ (आश्व. श्रौ. ७. १०) इति । प्रातरनुवाकेऽप्याग्नेये गायत्रे छन्दस्याश्विनशस्त्रे चेदं सूक्तम् । सूत्रितं च –युक्ष्वा हि प्रेष्ठं वः’ ( आश्व. श्रौ. ४, १३) इति ॥

Jamison Brereton

75 (684)
Agni
Virūpa Āṅgirasa
16 verses: gāyatrī arranged in trcas ̥
Agni’s role in the sacrifice and his relationship with the poet-sacrificers is the subject of the first two conventional tr̥cas (vss. 1–6), but a martial, indeed a belligerent, strain appears beginning with verse 7. The setting seems to be a contest for cattle or a cattle raid, and the poet calls on Agni to use his aggressive powers to defeat encroaching threats and assure victory and the winning of cattle and wealth (vss. 7–13). The hymn ends with general, and less combative, prayers for help for the sacrificer (vss. 14–16).

Jamison Brereton Notes

Agni

01 युक्ष्वा हि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

यु॒क्ष्वा हि दे॑व॒हूत॑माँ॒ अश्वाँ॑ अग्ने र॒थीरि॑व ।
नि होता॑ पू॒र्व्यः स॑दः ॥

02 उत नो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

उ॒त नो॑ देव दे॒वाँ अच्छा॑ वोचो वि॒दुष्ट॑रः ।
श्रद्विश्वा॒ वार्या॑ कृधि ॥

03 त्वं ह - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

त्वं ह॒ यद्य॑विष्ठ्य॒ सह॑सः सूनवाहुत ।
ऋ॒तावा॑ य॒ज्ञियो॒ भुवः॑ ॥

04 अयमग्निः सहस्रिणो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒यम॒ग्निः स॑ह॒स्रिणो॒ वाज॑स्य श॒तिन॒स्पतिः॑ ।
मू॒र्धा क॒वी र॑यी॒णाम् ॥

05 तं नेमिमृभवो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

तं ने॒मिमृ॒भवो॑ य॒था न॑मस्व॒ सहू॑तिभिः ।
नेदी॑यो य॒ज्ञम॑ङ्गिरः ॥

06 तस्मै नूनमभिद्यवे - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

तस्मै॑ नू॒नम॒भिद्य॑वे वा॒चा वि॑रूप॒ नित्य॑या ।
वृष्णे॑ चोदस्व सुष्टु॒तिम् ॥

07 कमु ष्विदस्य - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

कमु॑ ष्विदस्य॒ सेन॑या॒ग्नेरपा॑कचक्षसः ।
प॒णिं गोषु॑ स्तरामहे ॥

08 मा नो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

मा नो॑ दे॒वानां॒ विशः॑ प्रस्ना॒तीरि॑वो॒स्राः ।
कृ॒शं न हा॑सु॒रघ्न्याः॑ ॥

09 मा नः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

मा नः॑ समस्य दू॒ढ्य१॑ः॒ परि॑द्वेषसो अंह॒तिः ।
ऊ॒र्मिर्न नाव॒मा व॑धीत् ॥

10 नमस्ते अग्नओजसे - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

नम॑स्ते अग्न॒ ओज॑से गृ॒णन्ति॑ देव कृ॒ष्टयः॑ ।
अमै॑र॒मित्र॑मर्दय ॥

11 कुवित्सु नो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

कु॒वित्सु नो॒ गवि॑ष्ट॒येऽग्ने॑ सं॒वेषि॑षो र॒यिम् ।
उरु॑कृदु॒रु ण॑स्कृधि ॥

12 मा नो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

मा नो॑ अ॒स्मिन्म॑हाध॒ने परा॑ वर्ग्भार॒भृद्य॑था ।
सं॒वर्गं॒ सं र॒यिं ज॑य ॥

13 अन्यमस्मद्भिया इयमग्ने - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒न्यम॒स्मद्भि॒या इ॒यमग्ने॒ सिष॑क्तु दु॒च्छुना॑ ।
वर्धा॑ नो॒ अम॑व॒च्छवः॑ ॥

14 यस्याजुषन्नमस्विनः शमीमदुर्मखस्य - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

यस्याजु॑षन्नम॒स्विनः॒ शमी॒मदु॑र्मखस्य वा ।
तं घेद॒ग्निर्वृ॒धाव॑ति ॥

15 परस्या अधि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

पर॑स्या॒ अधि॑ सं॒वतोऽव॑राँ अ॒भ्या त॑र ।
यत्रा॒हमस्मि॒ ताँ अ॑व ॥

16 विद्मा हि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

वि॒द्मा हि ते॑ पु॒रा व॒यमग्ने॑ पि॒तुर्यथाव॑सः ।
अधा॑ ते सु॒म्नमी॑महे ॥