०७३

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘उदीराथाम्’ इत्यष्टादशर्चं चतुर्थं सूक्तमात्रेयस्य गोपवनस्य सप्तवध्रेर्वार्ष गायत्रमाश्विनम्। तथा चानुक्रमणिका – उदीराथां गोपवन आत्रेयः सप्तवध्रिर्वाश्विनम्’ इति । प्रातरनुवाक आश्विने क्रतौ गायत्रे छन्दस्याश्विनशस्त्रे चेदं सूक्तम् ।

Jamison Brereton

73 (682)
Aśvins
Gopavana Ātreya or Saptavadhri Ātreya
18 verses: gāyatrī arranged in trcas ̥
Unified by its refrain, this hymn otherwise seems haphazardly structured, with standard straightforward appeals to the Aśvins to come to our sacrifice (e.g., vss. 1–2) alternating with undeveloped questions and statements (e.g., 11–12) and, more baffling, mythic allusions. The poorly understood story of the Aśvins’ res
cue of Atri is mentioned in verses 3 and 7–8, their relation to Saptavadhri in verse 9, and an unnamed figure, sometimes identified by commentators as Saptavadhri, is addressed in the final verses 17–18. The stories of Atri and Saptavadhri (who are sometimes considered to be the same person) have often been discussed, and radically incompatible plots have been reconstructed for them. See, for example, Jamison (1991: 212–46) and, more recently, Houben (2010), who discusses previous accounts. Houben emphatically rejects Jamison’s version, and his own has some points in its favor but remains unconvincing in its entirety, at least to us.

Jamison Brereton Notes

Aśvins

01 उदीराथामृतायते युञ्जाथामश्विना - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

उ᳓द् ईराथाम् ऋतायते᳓
युञ्जा᳓थाम् अश्विना र᳓थम्
अ᳓न्ति ष᳓द् भूतु वाम् अ᳓वः

02 निमिषश्चिज्जवीयसा रथेना - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

निमि᳓षश् चिज् ज᳓वीयसा
र᳓थेना᳓ यातम् अश्विना
अ᳓न्ति ष᳓द् भूतु वाम् अ᳓वः

03 उप स्तृणीतमत्रये - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

उ᳓प स्तृणीतम् अ᳓त्रये
हिमे᳓न घर्म᳓म् अश्विना
अ᳓न्ति षद् भूतु वाम् अ᳓वः

04 कुह स्थः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

कु᳓ह स्थः कु᳓ह जग्मथुः
कु᳓ह श्येने᳓व पेतथुः
अ᳓न्ति षद् भूतु वाम् अ᳓वः

05 यदद्य कर्हि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓द् अद्य᳓ क᳓र्हि क᳓र्हि चिच्
छुश्रूया᳓तम् इमं᳓ ह᳓वम्
अ᳓न्ति षद् भूतु वाम् अ᳓वः

06 अश्विना यामहूतमा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अश्वि᳓ना यामहू᳓तमा
ने᳓दिष्ठं यामि आ᳓पियम्
अ᳓न्ति षद् भूतु वाम् अ᳓वः

07 अवन्तमत्रये गृहम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓वन्तम् अ᳓त्रये गृहं᳓
कृणुतं᳓ युव᳓म् अश्विना
अ᳓न्ति षद् भूतु वाम् अ᳓वः

08 वरेथे अग्निमातपो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

व᳓रेथे अग्नि᳓म् आत᳓पो
व᳓दते वल्गु᳓ अ᳓त्रये
अ᳓न्ति षद् भूतु वाम् अ᳓वः

09 प्र सप्तवध्रिराशसा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓ सप्त᳓वध्रिर् आश᳓सा
धा᳓राम् अग्ने᳓र् अशायत
अ᳓न्ति षद् भूतु वाम् अ᳓वः

10 इहा गतम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

इहा᳓ गतं वृषण्वसू
शृणुत᳓म् म इमं᳓ ह᳓वम्
अ᳓न्ति षद् भूतु वाम् अ᳓वः

11 किमिदं वाम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

कि᳓म् इदं᳓ वाम् पुराणव᳓ज्
ज᳓रतोर् इव शस्यते
अ᳓न्ति षद् भूतु वाम् अ᳓वः

12 समानं वाम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

समानं᳓ वां सजाति᳓यं
समानो᳓ ब᳓न्धुर् अश्विना
अ᳓न्ति षद् भूतु वाम् अ᳓वः

13 यो वाम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

यो᳓ वां र᳓जांसि अश्विना
र᳓थो विया᳓ति रो᳓दसी
अ᳓न्ति षद् भूतु वाम् अ᳓वः

14 आ नो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ नो ग᳓व्येभिर् अ᳓श्वियैः
सह᳓स्रैर् उ᳓प गछतम्
अ᳓न्ति षद् भूतु वाम् अ᳓वः

15 मा नो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

मा᳓ नो ग᳓व्येभिर् अ᳓श्वियैः
सह᳓स्रेभिर् अ᳓ति ख्यतम्
अ᳓न्ति षद् भूतु वाम् अ᳓वः

16 अरुणप्सुरुषा अभूदकर्ज्योतिऋड़्तावरी - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अरुण᳓प्सुर् उषा᳓ अभूद्
अ᳓कर् ज्यो᳓तिर् ऋता᳓वरी
अ᳓न्ति षद् भूतु वाम् अ᳓वः

17 अश्विना सु - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अश्वि᳓ना सु᳓ विचा᳓कशद्
वृक्ष᳓म् परशुमाँ᳓ इव
अ᳓न्ति षद् भूतु वाम् अ᳓वः

18 पुरं न - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

पु᳓रं न᳓ धृष्णव् आ᳓ रुज
कृष्ण᳓या बाधितो᳓ विशा᳓
अ᳓न्ति षद् भूतु वाम् अ᳓वः