०६८

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

॥ श्रीगणेशाय नमः ॥

यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।

निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥

षष्ठे चतुर्थमध्यायं श्रीमायणसुतः सुधीः ।।

व्याख्याय सायणाचार्यः पञ्चमं व्याकरोत्यथ ।।

तत्र ‘आ त्वा रथम्’ इत्येकोनविंशत्यृचं नवमं सूक्तम् । अत्रेयमनुक्रमणिका-’ आ त्वैकोना प्रियमेध आदावनुष्टुम्मुखास्तृचाश्चत्वारोऽन्त्याः षळृक्षाश्वमेधयोर्दानस्तुतिः’ इति । आङ्गिरसः प्रियमेध ऋषिः। प्रथमाचतुर्थीसप्तमीदशम्योऽनुष्टुभः शिष्टाः परं गायत्रम्’ इति परिभाषया गायत्र्यः । अन्ततः षट्स्वृक्षु ऋक्षाश्वमेधयोर्दानं स्तूयते । अतस्तास्तद्देवताकाः । शिष्टा अनुक्तपरिभाषयैन्द्र्यः । सूक्तविनियोगो लैङ्गिकः। अद्यस्तृचो मरुत्वतीयस्य प्रतिपत्। तथा च सूत्रितम्— ‘ आ त्वा रथं यथोतय इदं वसो सुतमन्ध इति मरुत्वतीयस्य प्रतिपदनुचरौ’ (आश्व. श्रौ. ५. १४) इति । महाव्रतादिष्वपि यत्र तृचान्तरं न विधीयते तत्र सर्वत्रायमेव प्रतिपद्भवति ।।

Jamison Brereton

68 (677)
Indra (1–13), Dānastuti of R̥ksa and A ̣ ̄svamedha ́ (14–19)
Priyamedha Āṅgirasa
19 verses: gāyatrī, except anuṣṭubh 1, 4, 7, 10. Verses 1–12 arranged in trcas ̥
This hymn falls into two parts. It begins with four tr̥cas (vss. 1–12) dedicated to Indra, each beginning with an anuṣṭubh verse and continuing in gāyatrī; there fol lows a single appended verse (13) continuing the thought of the previous verse. The final six verses are a dānastuti to a set of patrons whose names and identities are not entirely easy to sort out.
The Indra portion is conventional, with an emphasis on his extreme power and might. The dānastuti is likewise comparatively straightforward compared to others of this genre, with a catalogue of the gifts received and a promise to the patrons, expressed in surprisingly negative terms, that even a man who wishes to insult them will not be able to do so (vs. 19).

Jamison Brereton Notes

Indra

01 आ त्वा - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ त्वा र᳓थं य᳓थोत᳓ये
सुम्ना᳓य वर्तयामसि
तुविकूर्मि᳓म् ऋतीष᳓हम्
इ᳓न्द्र श᳓विष्ठ स᳓त्पते

02 तुविशुष्म तुविक्रतो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

तु᳓विशुष्म तु᳓विक्रतो
श᳓चीवो वि᳓श्वया मते
आ᳓ पप्राथ महित्वना᳓

03 यस्य ते - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓स्य ते महिना᳓ महः᳓
प᳓रि ज्माय᳓न्तम् ईय᳓तुः
ह᳓स्ता व᳓ज्रं हिरण्य᳓यम्

04 विश्वानरस्य वस्पतिमनानतस्य - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

विश्वा᳓नरस्य वस् प᳓तिम्
अ᳓नानतस्य श᳓वसः
ए᳓वैश् च चर्षणीना᳐᳓म्
ऊती᳓ हुवे र᳓थाना᳐म्

05 अभिष्थये सदावृधम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अभि᳓ष्टये सदा᳓वृधं
सु᳓वर्मीळ्हेषु यं᳓ न᳓रः
ना᳓ना ह᳓वन्त ऊत᳓ये

06 परोमात्रमृचीषममिन्द्रमुग्रं सुराधसम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

परो᳓मात्रम् ऋ᳓चीषमम्
इ᳓न्द्रम् उग्रं᳓ सुरा᳓धसम्
ई᳓शानं चिद् व᳓सूना᳐म्

07 तन्तमिद्राधसे मह - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तं᳓-तम् इ᳓द् रा᳓धसे मह᳓
इ᳓न्द्रं चोदामि पीत᳓ये
यः᳓ पूर्विया᳓म् अ᳓नुष्टुतिम्
ई᳓शे कृष्टीनां᳐᳓ नृतुः᳓

08 न यस्य - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

न᳓ य᳓स्य ते शवसान
सख्य᳓म् आनं᳓श म᳓र्तियः
न᳓किः श᳓वांसि ते नशत्

09 त्वोतासस्त्वा युजाप्सु - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

तुवो᳓तासस् तुवा᳓ युजा᳓
अप्सु᳓ सू᳓र्ये मह᳓द् ध᳓नम्
ज᳓येम पृत्सु᳓ वज्रिवः

10 तं त्वा - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तं᳓ त्वा यज्ञे᳓भिर् ईमहे
तं᳓ गीर्भि᳓र् गिर्वणस्तम
इ᳓न्द्र य᳓था चिद् आ᳓विथ
वा᳓जेषु पुरुमा᳓यियम्

11 यस्य ते - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓स्य ते स्वादु᳓ सखियं᳓
स्वाद्वी᳓ प्र᳓णीतिर् अद्रिवः
यज्ञो᳓ वितन्तसा᳓यियः

12 उरु णस्तन्वेथ् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

उरु᳓ णस् तनु᳓वे त᳓न
उरु᳓ क्ष᳓याय नस् कृधि
उरु᳓ णो यन्धि जीव᳓से

13 उरुं नृभ्य - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

उरुं᳓ नृ᳓भ्य उरुं᳓ ग᳓व
उरुं᳓ र᳓थाय प᳓न्था᳐म्
देव᳓वीतिम् मनामहे

14 उप मा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

उ᳓प मा ष᳓ड् दुवा᳓-दुवा
न᳓रः सो᳓मस्य ह᳓र्षिया
ति᳓ष्ठन्ति स्वादुरात᳓यः

15 ऋज्राविन्द्रोत आ - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

ऋज्रा᳓व् इन्द्रोत᳓ आ᳓ ददे
ह᳓री ऋ᳓क्षस्य सून᳓वि
आश्वमेध᳓स्य रो᳓हिता

16 सुरथाँ आतिथिग्वे - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

सुर᳓थाँ आतिथिग्वे᳓
सुअभीशूँ᳓र् आ᳐र्क्षे᳓
आश्वमेधे᳓ सुपे᳓शसः

17 षळश्वाँ आतिथिग्व - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

ष᳓ळ् अ᳓श्वाँ आतिथिग्व᳓
इन्द्रऊते᳓ वधू᳓मतः
स᳓चा पूत᳓क्रतौ सनम्

18 ऐषु चेतद्वृषण्वत्यन्तऋड़्ज्रेष्वरुषी - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अइ᳓षु चेतद् वृ᳓षण्वती
अन्त᳓र् ऋज्रे᳓षु अ᳓रुषी
सुअभीशुः᳓ क᳓शावती

19 न युष्मे - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

न᳓ युष्मे᳓ वाजबन्धवो
निनित्सु᳓श् चन᳓ म᳓र्तियः
अवद्य᳓म् अ᳓धि दीधरत्