०६७

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

’ त्यान्नु ’ इत्येकविंशत्यृचमष्टमं सूक्तम् । अत्रानुक्रमणिका – त्यान्नु सैका मत्स्यः सांमदो मैत्रावरुणिर्मान्यो वा बहवो वा मत्स्या जालनद्धा आदित्यानस्तुवन् ’ । संमदाख्यस्य महामीनस्य पुत्रो मत्स्यो यद्वा मित्रावरुणयोः पुत्रो मान्योऽथवा बहवो वा मत्स्या जालनद्धाः सन्तो बन्धनमोक्षायादित्यानस्तुवन् । अतस्त एवर्षयः । ‘ परं गायत्रं प्राग्वत्सप्रेः’ इति परिभाषया गायत्री छन्दः । आदित्या देवता । सूक्तविनियोगो लैङ्गिकः ॥

Jamison Brereton

67 (676)
Ādityas
Matsya Sāmmada or Mānya Maitrāvaruṇi or many fish caught in a net [bahavo matsyā jālanaddhāḥ]
21 verses: gāyatrī, arranged in trcas ̥
According to the Anukramaṇī, a fish (Matsya) or “many fish caught in a net” are two of the three possible composers of this hymn. Unfortunately, there is not a scrap of evidence in the hymn itself for these intriguing ascriptions. The poet begs the Ādityas and their mother Aditi, who is more prominent in the hymn than in most Āditya hymns (vss. 10–12, 14, 18), for shelter and protection from a range of dangers and enemies and for continued life for ourselves and our progeny.

Jamison Brereton Notes

Ādityas

01 त्यान्नु क्षत्रियाँ - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

तिया᳓न् नु᳓ क्षत्रि᳓याँ अ᳓व
आदित्या᳓न् याचिषामहे
सुमॄळीकाँ᳓+ अभि᳓ष्टये

02 मित्रो नो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

मित्रो᳓ नो अ᳓ति अंहतिं᳓
व᳓रुणः पर्षद् अर्यमा᳓
आदित्या᳓सो य᳓था विदुः᳓

03 तेषां हि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

ते᳓षां हि᳓ चित्र᳓म् उक्थि᳓यं
व᳓रूथम् अ᳓स्ति दाशु᳓षे
आदित्या᳓नाम् अरंकृ᳓ते

04 महि वो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

म᳓हि वो महता᳓म् अ᳓वो
व᳓रुण मि᳓त्र अ᳓र्यमन्
अ᳓वांसि आ᳓ वृणीमहे

05 जीवान्नो अभि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

जीवा᳓न् नो अभि᳓ धेतन
आ᳓दित्यासः पुरा᳓ ह᳓थात्
क᳓द् ध स्थ हवनश्रुतः

06 यद्वः श्रान्ताय - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓द् वः श्रान्ता᳓य सुन्वते᳓
व᳓रूथम् अ᳓स्ति य᳓च् छर्दिः᳓
ते᳓ना नो अ᳓धि वोचत

07 अस्ति देवा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓स्ति देवा अंहो᳓र् उरु᳓
अ᳓स्ति र᳓त्नम् अ᳓नागसः
आ᳓दित्या अ᳓द्भुतैनसः

08 मा नः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

मा᳓ नः से᳓तुः सिषेद् अय᳓म्
महे᳓ वृणक्तु नस् प᳓रि
इ᳓न्द्र इ᳓द् धि᳓ श्रुतो᳓ वशी᳓

09 मा नो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

मा᳓ नो मृचा᳓ रिपूणां᳐᳓
वृजिना᳓नाम् अविष्यवः
दे᳓वा अभि᳓ प्र᳓ मृक्षत

10 उत त्वामदिते - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

उत᳓ त्वा᳓म् अदिते महि
अहं᳓ देवि उ᳓प ब्रुवे
सुमॄळीका᳓म्+ अभि᳓ष्टये

11 पर्षि दीने - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

प᳓र्षि दीने᳓ गभीर᳓ आँ᳓
उ᳓ग्रपुत्रे जि᳓घांसतः
मा᳓किस् तोक᳓स्य नो रिषत्

12 अनेहो न - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अनेहो᳓ न उरुव्रज
उ᳓रूचि वि᳓ प्र᳓सर्तवे
कृधि᳓ तोका᳓य जीव᳓से

13 ये मूर्धानः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

ये᳓ मूर्धा᳓नः क्षितीना᳐᳓म्
अ᳓दब्धासः स्व᳓यशसः
व्रता᳓ र᳓क्षन्ते अद्रु᳓हः

14 ते न - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

ते᳓ न आस्नो᳓ वृ᳓काणा᳐म्
आ᳓दित्यासो मुमो᳓चत
स्तेन᳓म् बद्ध᳓म् इवादिते

15 अपो षु - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓पो षु᳓ ण इयं᳓ श᳓रुर्
आ᳓दित्या अ᳓प दुर्मतिः᳓
अस्म᳓द् एतु अ᳓जघ्नुषी

16 शश्वद्धि वः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

श᳓श्वद् धि᳓ वः सुदानव
आ᳓दित्या ऊति᳓भिर् वय᳓म्
पुरा᳓ नून᳓म् बुभुज्म᳓हे

17 शश्वन्तं हि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

श᳓श्वन्तं हि᳓ प्रचेतसः
प्रतिय᳓न्तं चिद् ए᳓नसः
दे᳓वाः कृणुथ᳓ जीव᳓से

18 तत्सु नो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

त᳓त् सु᳓ नो न᳓व्यं स᳓न्यस
आ᳓दित्या य᳓न् मु᳓मोचति
बन्धा᳓द् बद्ध᳓म् इवादिते

19 नास्माकमस्ति तत्तर - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

ना᳓स्मा᳓कम् अस्ति त᳓त् त᳓र
आ᳓दित्यासो अतिष्क᳓दे
यूय᳓म् अस्म᳓भ्य° मॄळत+

20 मा नो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

मा᳓ नो हेति᳓र् विव᳓स्वत
आ᳓दित्याः कृत्रि᳓मा श᳓रुः
पुरा᳓ नु᳓ जर᳓सो वधीत्

21 वि षु - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

वि᳓ षु᳓ द्वे᳓षो वि᳓ अंहति᳓म्
आ᳓दित्यासो वि᳓ सं᳓हितम्
वि᳓ष्वग् वि᳓ वृहता र᳓पः