०६२

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘प्रो अस्मै’ इति द्वादशर्चं तृतीयं सूक्तं काण्वस्य प्रगाथस्यार्षम् । पञ्चपदा पङ्क्तिः । सप्तम्याद्यास्तिस्रो बृहत्यः । इन्द्रो देवता । अत्रानुक्रमणिका- प्रो अस्मै द्वादश प्रगाथः पाङ्क्तं सप्तम्याद्याश्च तिस्रो बृहत्यः’ इति । विनियोगो लैङ्गिकः ।।

Jamison Brereton

62 (671)
Indra
Pragātha Kāṇva
12 verses: paṅkti, except br̥hatī 7–9, arranged in trcas ̥
A pleasantly limpid praise of Indra, which emphasizes Indra’s pleasure in praise and sacrifice (e.g., vss. 1, 4, 6) and the usual reciprocal benefits exchanged between the god and his worshipers. The relationship between Indra and the sacrificers seems to become stronger as the hymn progresses, its growth tracked through the word “yoke.” In the early verses of the hymn Indra is isolated in his accomplishments: in verse 2 he is said to be “without yokemate” and to accomplish his deeds alone; in verse 3 he is about to win even with an unsatisfactory horse. But after he comes to the sacrifice, the exchange relationship between worshiper and god comes to the fore (vs. 5) and already in verse 6 the poet announces that Indra makes the soma offerer his partner and “yokemate.” By the penultimate verse (11) the poet himself, in the first person, proposes that the god and the mortal “yoke ourselves together,” to achieve the winnings Indra was on the point of winning alone in verse 3. The poet somewhat hubristically claims that any enemy will yield to “us two,” implicitly claiming a kind of equality between the man and the most powerful of gods.

The final verse, as often, is a summary, and it seems to establish the truth value of the whole preceding hymn, as well as the précis given in the last half-verse. The refrain found in every verse establishes the cheerful tone from the start.

Jamison Brereton Notes

Indra

01 प्रो अस्मा - पङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓ ऊ अस्मा उ᳓पस्तुतिम्
भ᳓रता य᳓ज् जु᳓जोषति
उक्थइ᳓र् इ᳓न्द्रस्य मा᳓हिनं
व᳓यो वर्धन्ति सोमि᳓नो
भद्रा᳓ इ᳓न्द्रस्य रात᳓यः

02 अयुजो असमो - पङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

अयुजो᳓ अ᳓समो नृ᳓भिर्
ए᳓कः कृष्टी᳓र् अया᳓सियः
पूर्वी᳓र् अ᳓ति प्र᳓ वावृधे
वि᳓श्वा जाता᳓नि ओ᳓जसा
भद्रा᳓ इ᳓न्द्रस्य रात᳓यः

03 अहितेन चिदर्वता - पङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓हितेन चिद् अ᳓र्वता
जीर᳓दानुः सिषासति
प्रवा᳓च्यम् इन्द्र त᳓त् त᳓व
वीरि᳓याणि करिष्यतो᳓
भद्रा᳓ इ᳓न्द्रस्य रात᳓यः

04 आ याहि - पङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ याहि कृण᳓वाम त
इ᳓न्द्र ब्र᳓ह्माणि व᳓र्धना
ये᳓भिः शविष्ठ चाक᳓नो
भद्र᳓म् इह᳓ श्रवस्यते᳓
भद्रा᳓ इ᳓न्द्रस्य रात᳓यः

05 धृषतश्चिद्धृषन्मनः कृणोषीन्द्र - पङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

धृषत᳓श् चिद् धृष᳓न् म᳓नः
कृणो᳓षि इन्द्र य᳓त् तुव᳓म्
तीव्रइः᳓ सो᳓मैः सपर्यतो᳓
न᳓मोभिः प्रतिभू᳓षतो
भद्रा᳓ इ᳓न्द्रस्य रात᳓यः

06 अव चष्थ - पङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓व चष्ट ऋ᳓चीषमो
अवताँ᳓ इव मा᳓नुषः
जुष्ट्वी᳓ द᳓क्षस्य सोमि᳓नः
स᳓खायं कृणुते यु᳓जम्
भद्रा᳓ इ᳓न्द्रस्य रात᳓यः

07 विश्वे त - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

वि᳓श्वे त इन्द्र वीरि᳓यं
देवा᳓ अ᳓नु क्र᳓तुं ददुः
भु᳓वो वि᳓श्वस्य गो᳓पतिः पुरुष्टुत
भद्रा᳓ इ᳓न्द्रस्य रात᳓यः

08 गृणे तदिन्द्र - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

गृणे᳓ त᳓द् इन्द्र ते श᳓व
उपमं᳓ देव᳓तातये
य᳓द् धं᳓सि वृत्र᳓म् ओ᳓जसा शचीपते
भद्रा᳓ इ᳓न्द्रस्य रात᳓यः

09 समनेव वपुष्यतः - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓मनेव वपुष्यतः᳓
कृण᳓वन् मा᳓नुषा युगा᳓
विदे᳓ त᳓द् इ᳓न्द्रश् चे᳓तनम् अ᳓ध श्रुतो᳓
भद्रा᳓ इ᳓न्द्रस्य रात᳓यः

10 उज्जातमिन्द्र ते - पङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

उ᳓ज् जात᳓म् इन्द्र ते श᳓व
उ᳓त् तुवा᳓म् उ᳓त् त᳓व क्र᳓तुम्
भू᳓रिगो भू᳓रि वावृधुर्
म᳓घवन् त᳓व श᳓र्मणि
भद्रा᳓ इ᳓न्द्रस्य रात᳓यः

11 अहं च - पङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

अहं᳓ च त्वं᳓ च वृत्रहन्
सं᳓ युज्याव सनि᳓भ्य आ᳓
अरातीवा᳓ चिद् अद्रिवो
अ᳓नु नौ शूर मंसते
भद्रा᳓ इ᳓न्द्रस्य रात᳓यः

12 सत्यमिद्वा उ - पङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

सत्य᳓म् इ᳓द् वा᳓ उ तं᳓ वय᳓म्
इ᳓न्द्रं स्तवाम ना᳓नृतम्
महाँ᳓ अ᳓सुन्वतो वधो᳓
भू᳓रि ज्यो᳓तींषि सुन्वतो᳓
भद्रा᳓ इ᳓न्द्रस्य रात᳓यः