०६१

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ उभयं शृणवत्’ इत्यष्टादशर्चं द्वितीयं सूक्तं प्रागाथस्य भर्गस्यार्षम् । अत्रानुक्रमणिका – ‘ उभयं द्व्यूना’ इति । पूर्वसूक्ते ‘प्रागाथं तु ’ इत्युक्तत्वादिदमपि प्रागाथम् । अत्रायुजो बृहत्यो युजः सतोबृहत्यः । अनुक्तत्वादिन्द्रो देवता । महाव्रते निष्केवल्ये बार्हततृचाशीतावेतत्सूक्तं सप्तम्यष्टमीवर्जम् । तथैव पञ्चमारण्यके सूत्रितं शौनकेन - उभयं शृणवच्च न इति सप्तमीं चाष्टमीं चोद्धरति । ( ऐ. आ. ५. २. ४ ) इति । चातुर्विंशिकेऽहनि निष्केवल्ये ‘उभयम्’ इति बृहत्सामप्रगाथः । सूत्रितं च -‘उभयं शृणवच्च नः’ ( आश्व. श्रौ. ७. ३ ) इति । चातुर्विंशिकेऽहनि माध्यंदिनसवनेऽच्छावाकस्यायमेव स्तोत्रियः प्रगाथः। तथा च सूत्रितम् -’ उभयं शृणवच्च न आ वृषस्व पुरूवसो’ ( आश्व. श्रौ. ७. ४ ) इति । एवमन्यत्रापि यस्मिन्नहनि पृष्ठस्तोत्रे बृहत्साम क्रियते तस्मिन्नहनि निष्केवल्येऽयं प्रगाथः ॥

Jamison Brereton

61 (670)
Indra
Bharga Pragātha
18 verses: br̥hatī alternating with satobr̥hatī, arranged in pragāthas
This hymn begins with the invitation to soma (vss. 1–3), but the poet soon turns his attention to the gifts Indra will bestow, a theme that dominates the rest of the first half of the hymn (through vs. 8). The sacrificial context returns at this point, and in verses 11–12 the sacrificers seek to harness Indra as their comrade, whose powers they wish to marshal for their protection against hostile forces (see esp. vss. 13, 15–18).
The syntax is fairly straightforward, but there are a number of rare words and hapaxes (e.g., the last two words of vs. 9) and pleasing verbal plays. The poet espe cially likes variable repetition (of the type “unassailable assailant” vs. 3).

Jamison Brereton Notes

Indra

01 उभयं शृणवच्च - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

उ॒भयं॑ शृ॒णव॑च्च न॒ इन्द्रो॑ अ॒र्वागि॒दं वचः॑ ।
स॒त्राच्या॑ म॒घवा॒ सोम॑पीतये धि॒या शवि॑ष्ठ॒ आ ग॑मत् ॥

02 तं हि - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

तं हि स्व॒राजं॑ वृष॒भं तमोज॑से धि॒षणे॑ निष्टत॒क्षतुः॑ ।
उ॒तोप॒मानां॑ प्रथ॒मो नि षी॑दसि॒ सोम॑कामं॒ हि ते॒ मनः॑ ॥

03 आ वृषस्व - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

आ वृ॑षस्व पुरूवसो सु॒तस्ये॒न्द्रान्ध॑सः ।
वि॒द्मा हि त्वा॑ हरिवः पृ॒त्सु सा॑स॒हिमधृ॑ष्टं चिद्दधृ॒ष्वणि॑म् ॥

04 अप्रामिसत्य मघवन्तथेदसदिन्द्र - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

अप्रा॑मिसत्य मघव॒न्तथेद॑स॒दिन्द्र॒ क्रत्वा॒ यथा॒ वशः॑ ।
स॒नेम॒ वाजं॒ तव॑ शिप्रि॒न्नव॑सा म॒क्षू चि॒द्यन्तो॑ अद्रिवः ॥

05 शग्ध्यूथ् षु - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

श॒ग्ध्यू॒३॒॑ षु श॑चीपत॒ इन्द्र॒ विश्वा॑भिरू॒तिभिः॑ ।
भगं॒ न हि त्वा॑ य॒शसं॑ वसु॒विद॒मनु॑ शूर॒ चरा॑मसि ॥

06 पौरो अश्वस्य - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

पौ॒रो अश्व॑स्य पुरु॒कृद्गवा॑म॒स्युत्सो॑ देव हिर॒ण्ययः॑ ।
नकि॒र्हि दानं॑ परि॒मर्धि॑ष॒त्त्वे यद्य॒द्यामि॒ तदा भ॑र ॥

07 त्वं ह्येहि - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

त्वं ह्येहि॒ चेर॑वे वि॒दा भगं॒ वसु॑त्तये ।
उद्वा॑वृषस्व मघव॒न्गवि॑ष्टय॒ उदि॒न्द्राश्व॑मिष्टये ॥

08 त्वं पुरू - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

त्वं पु॒रू स॒हस्रा॑णि श॒तानि॑ च यू॒था दा॒नाय॑ मंहसे ।
आ पु॑रन्द॒रं च॑कृम॒ विप्र॑वचस॒ इन्द्रं॒ गाय॒न्तोऽव॑से ॥

09 अविप्रो वा - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒वि॒प्रो वा॒ यदवि॑ध॒द्विप्रो॑ वेन्द्र ते॒ वचः॑ ।
स प्र म॑मन्दत्त्वा॒या श॑तक्रतो॒ प्राचा॑मन्यो॒ अहं॑सन ॥

10 उग्रबाहुर्म्रक्षकृत्वा पुरन्दरो - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

उ॒ग्रबा॑हुर्म्रक्ष॒कृत्वा॑ पुरन्द॒रो यदि॑ मे शृ॒णव॒द्धव॑म् ।
व॒सू॒यवो॒ वसु॑पतिं श॒तक्र॑तुं॒ स्तोमै॒रिन्द्रं॑ हवामहे ॥

11 न पापासो - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

न पा॒पासो॑ मनामहे॒ नारा॑यासो॒ न जळ्ह॑वः ।
यदिन्न्विन्द्रं॒ वृष॑णं॒ सचा॑ सु॒ते सखा॑यं कृ॒णवा॑महै ॥

12 उग्रं युयुज्म - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

उ॒ग्रं यु॑युज्म॒ पृत॑नासु सास॒हिमृ॒णका॑ति॒मदा॑भ्यम् ।
वेदा॑ भृ॒मं चि॒त्सनि॑ता र॒थीत॑मो वा॒जिनं॒ यमिदू॒ नश॑त् ॥

13 यत इन्द्र - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

यत॑ इन्द्र॒ भया॑महे॒
ततो॑ नो॒ अभ॑यं कृधि ।
मघ॑वञ् छ॒ग्धि (=शक्तो वर्तस्व) तव॒ तन् न॑(ः) ऊ॒तिभि॑र्(=रक्षाभिः, ऊ॒तये॒ इति तैत्तिरीयपाठः)
वि द्विषो॒ वि मृधो॑(=सङ्ग्रामान्) जहि ।।

14 त्वं हि - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

त्वं हि रा॑धस्पते॒ राध॑सो म॒हः क्षय॒स्यासि॑ विध॒तः ।
तं त्वा॑ व॒यं म॑घवन्निन्द्र गिर्वणः सु॒ताव॑न्तो हवामहे ॥

15 इन्द्र स्पळुत - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्रः॒ स्पळु॒त वृ॑त्र॒हा प॑र॒स्पा नो॒ वरे॑ण्यः ।
स नो॑ रक्षिषच्चर॒मं स म॑ध्य॒मं स प॒श्चात्पा॑तु नः पु॒रः ॥

16 त्वं नः - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

त्वं नः॑ प॒श्चाद॑ध॒रादु॑त्त॒रात्पु॒र इन्द्र॒ नि पा॑हि वि॒श्वतः॑ ।
आ॒रे अ॒स्मत्कृ॑णुहि॒ दैव्यं॑ भ॒यमा॒रे हे॒तीरदे॑वीः ॥

17 अद्याद्या श्वःश्व - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒द्याद्या॒ श्वःश्व॒ इन्द्र॒ त्रास्व॑ प॒रे च॑ नः ।
विश्वा॑ च नो जरि॒तॄन्त्स॑त्पते॒ अहा॒ दिवा॒ नक्तं॑ च रक्षिषः ॥

18 प्रभङ्गी शूरो - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

प्र॒भ॒ङ्गी शूरो॑ म॒घवा॑ तु॒वीम॑घः॒ सम्मि॑श्लो वि॒र्या॑य॒ कम् ।
उ॒भा ते॑ बा॒हू वृष॑णा शतक्रतो॒ नि या वज्रं॑ मिमि॒क्षतुः॑ ॥