०६०

सर्वाष् टीकाः ...{Loading}...

Jamison Brereton

60 (669)
Agni
Bharga Pragātha
20 verses: br̥hatī alternating with satobr̥hatī, arranged in pragāthas
The focus throughout most of this hymn is Agni in his sacrificial role, a theme strongly established in the first five verses, and in his close relationship to the household and clan. As a consequence of this latter relationship he also appears as the protector of those entities against external threats: see verses 6–10, 12–14, and especially the two final verses 19–20. The usual prayers for wealth and aid are not absent, however.

01 अग्न आ - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓ग्न आ᳓ याहि अग्नि᳓भिर्
हो᳓तारं त्वा वृणीमहे
आ᳓ त्वा᳓म् अनक्तु प्र᳓यता हवि᳓ष्मती
य᳓जिष्ठम् बर्हि᳓र् आस᳓दे

02 अच्छा हि - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓छा हि᳓ त्वा सहसः सूनो अङ्गिरः
स्रु᳓चश् च᳓रन्ति अध्वरे᳓
ऊर्जो᳓ न᳓पातं घृत᳓केशम् ईमहे
अग्निं᳓ यज्ञे᳓षु पूर्विय᳓म्

03 अग्ने कविर्वेधा - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓ग्ने कवि᳓र् वेधा᳓ असि
हो᳓ता पवाक+ य᳓क्षियः
मन्द्रो᳓ य᳓जिष्ठो अध्वरे᳓षु ई᳓डियो
वि᳓प्रेभिः शुक्र म᳓न्मभिः

04 अद्रोघमा वहोशतो - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓द्रोघम् आ᳓ वहोशतो᳓ यविष्ठिय
देवाँ᳓ अजस्र वीत᳓ये
अभि᳓ प्र᳓यांसि सु᳓धिता᳓ वसो गहि
म᳓न्दस्व धीति᳓भिर् हितः᳓

05 त्वमित्सप्रथा अस्यग्ने - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

तुव᳓म् इ᳓त् सप्र᳓था असि
अ᳓ग्ने त्रातर् ऋत᳓स् कविः᳓
तुवां᳓ वि᳓प्रासः समिधान दीदिव
आ᳓ विवासन्ति वेध᳓सः

06 शोचा शोचिष्ट - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

शो᳓चा शोचिष्ठ दीदिहि᳓ विशे᳓ म᳓यो
रा᳓स्व स्तोत्रे᳓ महाँ᳓ असि
देवा᳓नां श᳓र्मन् म᳓म सन्तु सूर᳓यः
शत्रूषा᳓हः सुअग्न᳓यः

07 यथा चिद्वृद्धमतसमग्ने - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓था चिद् वृद्ध᳓म् अतस᳓म्
अ᳓ग्ने संजू᳓र्वसि क्ष᳓मि
एवा᳓ दह मित्रमहो यो᳓ अस्मध्रु᳓ग्
दुर्म᳓न्मा क᳓श् च वे᳓नति

08 मा नो - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

मा᳓ नो म᳓र्ताय रिप᳓वे रक्षस्वि᳓ने
मा᳓घ᳓शंसाय रीरधः
अ᳓स्रेधद्भिस् तर᳓णिभिर् यविष्ठिय
शिवे᳓भिः पाहि पायु᳓भिः

09 पाहि नो - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

पाहि᳓ नो अग्न ए᳓कया
पाह्यु᳓१᳓त᳓ द्विती᳓यया ।
पाहि᳓ गीर्भि᳓स् तिसृ᳓भिर् ऊर्जां-पते
पाहि᳓ चतसृ᳓भिर् वसो ॥

10 पाहि विश्वस्माद्रक्षसो - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

पाहि᳓ वि᳓श्वस्माद् रक्ष᳓सो अ᳓रावणः
प्र᳓ स्म वा᳓जेषु नो अव
तुवा᳓म् इ᳓द् धि᳓ ने᳓दिष्ठं देव᳓तातय
आपिं᳓ न᳓क्षामहे वृधे᳓

11 आ नो - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ नो अग्ने वयोवृ᳓धं
रयि᳓म् पवाक+ शं᳓सियम्
रा᳓स्वा च न उपमाते पुरुस्पृ᳓हं
सु᳓नीती स्व᳓यशस्तरम्

12 येन वंसाम - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

ये᳓न वं᳓साम पृ᳓तनासु श᳓र्धतस्
त᳓रन्तो अर्य᳓ आदि᳓शः
स᳓ त्वं᳓ नो वर्ध प्र᳓यसा शचीवसो
जि᳓न्वा धि᳓यो वसुवि᳓दः

13 शिशानो वृषभो - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

शि᳓शानो वृषभो᳓ यथा
अग्निः᳓ शृ᳓ङ्गे द᳓विधुवत्
तिग्मा᳓ अस्य ह᳓नवो न᳓ प्रतिधृ᳓षे
सुज᳓म्भः स᳓हसो यहुः᳓

14 नहि ते - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

नहि᳓ ते अग्ने वृषभ प्रतिधृ᳓षे
ज᳓म्भासो य᳓द् विति᳓ष्ठसे
स᳓ त्वं᳓ नो होतः सु᳓हुतं हवि᳓ष् कृधि
वं᳓स्वा नो वा᳓रिया पुरु᳓

15 शेषे वनेषु - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

शे᳓षे व᳓नेषु मातरोः᳓
सं᳓ त्वा म᳓र्तास इन्धते
अ᳓तन्द्रो हव्या᳓ वहसि हविष्कृ᳓त
आ᳓द् इ᳓द् देवे᳓षु राजसि

16 सप्त होतारस्तमिदीळते - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

सप्त᳓ हो᳓तारस् त᳓म् इ᳓द् ईळते तुवा
अ᳓ग्ने सुत्य᳓जम् अ᳓ह्रयम्
भिन᳓त्सि अ᳓द्रिं त᳓पसा वि᳓ शोचि᳓षा
प्रा᳓ग्ने तिष्ठ ज᳓नाँ अ᳓ति

17 अग्निमग्निं वो - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

अग्नि᳓म्-अग्निं वो अ᳓ध्रिगुं
हुवे᳓म वृक्त᳓बर्हिषः
अग्निं᳓ हित᳓प्रयसः शश्वती᳓षु आ᳓
हो᳓तारं चर्षणीना᳐᳓म्

18 केतेन शर्मन्त्सचते - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

के᳓तेन श᳓र्मन् सचते सुषाम᳓णि
अ᳓ग्ने तु᳓भ्यं चिकित्व᳓ना
इषण्य᳓या नः पुरुरू᳓पम् आ᳓ भर
वा᳓जं ने᳓दिष्ठम् ऊत᳓ये

19 अग्ने जरितर्विश्पतिस्तेपानो - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓ग्ने ज᳓रितर् विश्प᳓तिस्
तेपानो᳓ देव रक्ष᳓सः
अ᳓प्रोषिवान् गृह᳓पतिर् महाँ᳓ असि
दिव᳓स् पायु᳓र् दुरोणयुः᳓

20 मा नो - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

मा᳓ नो र᳓क्ष आ᳓ वेशीद् आघृणीवसो
मा᳓ यातु᳓र् यातुमा᳓वताम्
परोगव्यूति᳓ अ᳓निराम् अ᳓प क्षु᳓धम्
अ᳓ग्ने से᳓ध रक्षस्वि᳓नः