०५७

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘युवं देवा’ इति चतूऋचं नवमं सूक्तं काण्वस्य मेध्यस्यार्षमाश्विनं त्रैष्टुभम् । अनुक्रम्यते– ‘युवं देवा चतुष्कं मेध्य आश्विनं त्रैष्टुभम्’ इति । विनियोगः सूत्रादवगन्तव्यः । ।

Jamison Brereton

57 (1026)
Aśvins
Medhya Kāṇva
4 verses: triṣṭubh
This sequence of verses inviting the Aśvins to the soma sacrifice is unremarkable save for a few features. The first verse explicitly establishes the context as the Third Pressing, which, as we have discussed elsewhere, was probably a recent addition to R̥gvedic rit ual. And especially in verse 2 there are insoluble textual problems. Since the verse itself is not terribly interesting in content, the difficulties can safely be left aside here.

Jamison Brereton Notes

Aśvins

01 युवं देवा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

युवं᳓ देवा क्र᳓तुना पूर्विये᳓ण
युक्ता᳓ र᳓थेन तविषं᳓ यजत्रा
आ᳓गछतं नासतिया श᳓चीभिर्
इदं᳓ तृती᳓यं स᳓वनम् पिबाथः

02 युवां देवास्त्रय - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

युवां᳓ देवा᳓स् त्र᳓य एकादशा᳓सः
सत्याः᳓ सत्य᳓स्य ददृशे पुर᳓स्तात्
अस्मा᳓कं यज्ञं᳓ स᳓वनं जुषाणा᳓
पातं᳓ सो᳓मम् अश्विना दी᳓दिअग्नी

03 पनाय्यं तदश्विना - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

पना᳓यियं त᳓द् अश्विना कृतं᳓ वां
वृषभो᳓ दिवो᳓ र᳓जसः पृथिव्याः᳓
सह᳓स्रं शं᳓सा उत᳓ ये᳓ ग᳓विष्टौ
स᳓र्वाँ इ᳓त् ताँ᳓ उ᳓प याता पि᳓बध्यै

04 अयं वाम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अयं᳓ वाम् भागो᳓ नि᳓हितो यजत्रा
इमा᳓ गि᳓रो नासतियो᳓प यातम्
पि᳓बतं सो᳓मम् म᳓धुमन्तम् अस्मे᳓
प्र᳓ दाशुवां᳓सम् अवतं श᳓चीभिः