०५४

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘एतत्ते’ इति अष्टर्चं षष्ठं सूक्तं काण्वस्य मातरिश्वानस्यार्षमैन्द्रम् (मातरिश्वन आर्षमैन्द्रम् )। अनुक्रम्यते च- ‘एतत्ते मातरिश्वा नो विश्व इति वैश्वदेवः प्रगाथः’ इति । तृतीयाचतुर्थ्यौ विश्वेदेवदेवताके । अन्यासां षण्णामिन्द्रो देवता । अयुजां बृहती छन्दः युजां सतोबृहती छन्दः । विनियोगः सूत्रादवगन्तव्यः ॥

Jamison Brereton

54 (1023)
Indra (1–2, 5–8), All Gods (3–4)
Mātariśvan Kāṇva
8 verses: br̥hatī alternating with satobr̥hatī, arranged in pragāthas
Despite being technically twinned with VIII.53, this hymn has little in common with its predecessor. However, verse 6 not only shares the concern for winning that characterized the previous hymn, but also shares some of its phraseology: it begins with a compound of ā́ji “contest” and two compounds with -pati “lord,” closely paralleling VIII.53.6a, and much of the second half of the verse matches the second half of VIII.53.7.
The three pragāthas dedicated to Indra (vss. 1–2, 5–6, 7–8) are interrupted by one to the All Gods, an elementary listing of various groups of gods (vs. 3) and individual gods and natural forces (vs. 4). The verses to Indra beg him to display his generosity.

Jamison Brereton Notes

Indra

01 एतत्त इन्द्र - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

एत᳓त् त इन्द्र वीरि᳓यं
गीर्भि᳓र् गृण᳓न्ति कार᳓वः
ते᳓ स्तो᳓भन्त ऊ᳓र्जम् आवन् घृतश्चु᳓तम्
पौरा᳓सो नक्षन् धीति᳓भिः

02 नक्षन्त इन्द्रमवसे - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

न᳓क्षन्त इ᳓न्द्रम् अ᳓वसे सुकृत्य᳓या
ये᳓षां सुते᳓षु म᳓न्दसे
य᳓था संवर्ते᳓ अ᳓मदो य᳓था कृश᳓
एवा᳓स्मे᳓ इन्द्र मत्सुव

03 आ नो - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ नो वि᳓श्वे सजो᳓षसो
दे᳓वासो ग᳓न्तनो᳓प नः
व᳓सवो रुद्रा᳓ अ᳓वसे न आ᳓ गमञ्
छृण्व᳓न्तु मरु᳓तो ह᳓वम्

04 पूषा विष्णुर्हवनम् - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

पूषा᳓ वि᳓ष्णुर् ह᳓वनम् मे स᳓रस्वती
अ᳓वन्तु सप्त᳓ सि᳓न्धवः
आ᳓पो वा᳓तः प᳓र्वतासो व᳓नस्प᳓तिः
शृणो᳓तु पृथिवी᳓ ह᳓वम्

05 यदिन्द्र राधो - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓द् इन्द्र रा᳓धो अ᳓स्ति ते
मा᳓घोनम् मघवत्तम
ते᳓न नो बोधि सधमा᳓दियो वृधे᳓
भ᳓गो दाना᳓य वृत्रहन्

06 आजिपते नृपते - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓जिपते नृपते तुव᳓म् इ᳓द् धि᳓ नो
वा᳓ज आ᳓ वक्षि सुक्रतो
वीती᳓ हो᳓त्राभिर् उत᳓ देव᳓वीतिभिः
ससवां᳓सो वि᳓ शृण्विरे

07 सन्ति ह्यट्र्य - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓न्ति हि᳓ अर्य᳓ आशि᳓ष
इ᳓न्द्र आ᳓युर् ज᳓नाना᳐म्
अस्मा᳓न् नक्षस्व मघवन्न् उ᳓पा᳓वसे
धुक्ष᳓स्व पिप्यु᳓षीम् इ᳓षम्

08 वयं त - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

वयं᳓ त इन्द्र स्तो᳓मेभिर् विधेम
त्व᳓म् अस्मा᳓कं शतक्रतो
म᳓हि स्थूरं᳓ शशयं᳓ रा᳓धो अ᳓ह्रयम्
प्र᳓स्कण्वाय नि᳓ तोशय