०५३

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘उपमं त्वा’ इत्यष्टर्चं पञ्चमं सूक्तं काण्वस्य मेध्यस्यार्षम् । अनुक्रान्तं च– ‘उपमं त्वष्टौ मेध्यः’ इति । अयुजां बृहती छन्दः । युजां सतोबृहती छन्दः । विनियोगः सूत्रादवगन्तव्यः ।।

Jamison Brereton

53 (1022)
Indra
Medhya Kāṇva
8 verses: br̥hatī alternating with satobr̥hatī, arranged in pragāthas.
A fairly conventional Indra hymn, which begins with a string of superlatives applied to Indra and praise for his previous deeds (vss. 1–2) and then proceeds to the invitation to the soma sacrifice (vss. 3–4). The poet asks Indra for the usual ben efits: wealth and aid, but he is especially concerned with winning in prize-contests and battle raids. See especially verses 6–8.

Jamison Brereton Notes

Indra

01 उपमं त्वा - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

उपमं᳓ त्वा मघो᳓नां᳐
ज्ये᳓ष्ठं च वृषभा᳓णा᳐म्
पूर्भि᳓त्तमम् मघवन्न् इन्द्र गोवि᳓दम्
ई᳓शानं राय᳓ ईमहे

02 य आयुम् - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓ आयुं᳓ कु᳓त्सम् अतिथिग्व᳓म् अ᳓र्दयो
वावृधानो᳓ दिवे᳓-दिवे
तं᳓ त्वा वयं᳓ ह᳓रिअश्वं शत᳓क्रतुं
वाजय᳓न्तो हवामहे

03 आ नो - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ नो वि᳓श्वेषां᳐ र᳓सम्
म᳓ध्वः सिञ्चन्तु अ᳓द्रयः
ये᳓ पराव᳓ति सुन्विरे᳓ ज᳓नेषु आ᳓
ये᳓ अर्वाव᳓ति इ᳓न्दवः

04 विश्वा द्वेषांसि - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

वि᳓श्वा द्वे᳓षांसि जहि᳓ चा᳓व चा᳓ कृधि
वि᳓श्वे सन्वन्तु आ᳓ व᳓सु
शी᳓ष्टेषु चित् ते मदिरा᳓सो अंश᳓वो
य᳓त्रा सो᳓मस्य तृम्प᳓सि

05 इन्द्र नेदीय - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

इ᳓न्द्र ने᳓दीय ए᳓द् इहि
मित᳓मेधाभिर् ऊति᳓भिः
आ᳓ शंतम शं᳓तमाभिर् अभि᳓ष्टिभिर्
आ᳓ सुआपे सुआपि᳓भिः

06 आजितुरं सत्पतिम् - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

आजितु᳓रं स᳓त्पतिं विश्व᳓चर्षणिं
कृधि᳓ प्रजा᳓सु आ᳓भगम्
प्र᳓ सू᳓ तिरा श᳓चीभिर् ये᳓ त उक्थि᳓नः
क्र᳓तुम् पुनत᳓ आनुष᳓क्

07 यस्ते साधिष्टोऽवसे - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓स् ते सा᳓धिष्ठो अ᳓वसे
ते᳓ सियाम भ᳓रेषु ते
वयं᳓ हो᳓त्राभिर् उत᳓ देव᳓हूतिभिः
ससवां᳓सो मनामहे

08 अहं हि - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

अहं᳓ हि᳓ ते हरिवो ब्र᳓ह्म वाजयु᳓र्
आजिं᳓ या᳓मि स᳓दोति᳓भिः
तुवा᳓म् इ᳓द् एव᳓ त᳓म् अ᳓मे स᳓म् अश्वयु᳓र्
गव्यु᳓र् अ᳓ग्रे मथीना᳐᳓म्