०४७

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ महि वः’ इत्यष्टादशर्चं पञ्चमं सूक्तमाप्त्यस्य त्रितस्यार्षम् । षडष्टका महापङ्क्तिश्छन्दः । आद्यास्त्रयोदशर्चं आदित्यदेवताकाः । यच्च गोषु’ इत्याद्याः पञ्चर्चं उषोदेवताका आदित्यदेवताकाश्च । तथा चानुक्रमणिका-’ महि वो यूना त्रित आप्त्य आदित्येभ्योऽन्त्याः पञ्चोषसेऽपि महापाङ्क्तम्’ इति । सूक्तविनियोगो लैङ्गिकः ॥

Jamison Brereton

47 (667)
Ādityas
Trita Āptya
18 verses: mahāpaṅkti
The first two-thirds of this hymn (through vs. 12) beg the Ādityas for general help and protection from generic evils—the nonspecific nature of what is requested underlined by the rather redundantly phrased refrain. The refrain continues through the last third of the hymn (vss. 13–18), but in the non-refrain portions the focus nar
rows—to the elimination of the “bad dream,” which is sent far away to the shadowy figure called Trita Āptya. Nothing else in the scraps of mythology we know about Trita Āptya explains why he should be the scapegoated recipient of our nightmares, much less why he would make them into body ornaments (vs. 15) or use them as food and work (vs. 16). The agent who removes the bad dream to Trita is Dawn (vss. 14–16, 18), whose participation is easier to understand—as anyone knows who has experienced the relief of waking in the morning to discover that the nightmares just experienced were not real.

Jamison Brereton Notes

Ādityas

01 महि वो - महापङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

महि॑ वो मह॒तामवो॒ वरु॑ण॒ मित्र॑ दा॒शुषे॑ ।
यमा॑दित्या अ॒भि द्रु॒हो रक्ष॑था॒ नेम॒घं न॑शदने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥

02 विदा देवा - महापङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

वि॒दा दे॑वा अ॒घाना॒मादि॑त्यासो अ॒पाकृ॑तिम् ।
प॒क्षा वयो॒ यथो॒परि॒ व्य१॒॑स्मे शर्म॑ यच्छताने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥

03 व्यट्स्मे अधि - महापङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

व्य१॒॑स्मे अधि॒ शर्म॒ तत्प॒क्षा वयो॒ न य॑न्तन ।
विश्वा॑नि विश्ववेदसो वरू॒थ्या॑ मनामहेऽने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥

04 यस्मा अरासत - महापङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

यस्मा॒ अरा॑सत॒ क्षयं॑ जी॒वातुं॑ च॒ प्रचे॑तसः ।
मनो॒र्विश्व॑स्य॒ घेदि॒म आ॑दि॒त्या रा॒य ई॑शतेऽने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥

05 परि णो - महापङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

परि॑ णो वृणजन्न॒घा दु॒र्गाणि॑ र॒थ्यो॑ यथा ।
स्यामेदिन्द्र॑स्य॒ शर्म॑ण्यादि॒त्याना॑मु॒ताव॑स्यने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥

06 परिह्वृतेदना जनो - महापङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

प॒रि॒ह्वृ॒तेद॒ना जनो॑ यु॒ष्माद॑त्तस्य वायति ।
देवा॒ अद॑भ्रमाश वो॒ यमा॑दित्या॒ अहे॑तनाने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥

07 न तम् - महापङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

न तं ति॒ग्मं च॒न त्यजो॒ न द्रा॑सद॒भि तं गु॒रु ।
यस्मा॑ उ॒ शर्म॑ स॒प्रथ॒ आदि॑त्यासो॒ अरा॑ध्वमने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥

08 युष्मे देवा - महापङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

यु॒ष्मे दे॑वा॒ अपि॑ ष्मसि॒ युध्य॑न्त इव॒ वर्म॑सु ।
यू॒यं म॒हो न॒ एन॑सो यू॒यमर्भा॑दुरुष्यताने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥

09 अदितिर्न उरुष्यत्वदितिः - महापङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

अदि॑तिर्न उरुष्य॒त्वदि॑तिः॒ शर्म॑ यच्छतु ।
मा॒ता मि॒त्रस्य॑ रे॒वतो॑ऽर्य॒म्णो वरु॑णस्य चाने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥

10 यद्देवाः शर्म - महापङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

यद्दे॑वाः॒ शर्म॑ शर॒णं यद्भ॒द्रं यद॑नातु॒रम् ।
त्रि॒धातु॒ यद्व॑रू॒थ्यं१॒॑ तद॒स्मासु॒ वि य॑न्तनाने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥

11 आदित्या अव - महापङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

आदि॑त्या॒ अव॒ हि ख्यताधि॒ कूला॑दिव॒ स्पशः॑ ।
सु॒ती॒र्थमर्व॑तो य॒थानु॑ नो नेषथा सु॒गम॑ने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥

12 नेह भद्रम् - महापङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

नेह भ॒द्रं र॑क्ष॒स्विने॒ नाव॒यै नोप॒या उ॒त ।
गवे॑ च भ॒द्रं धे॒नवे॑ वी॒राय॑ च श्रवस्य॒ते॑ऽने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥

13 यदाविर्यदपीच्यण्ट् देवासो - महापङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

यदा॒विर्यद॑पी॒च्यं१॒॑ देवा॑सो॒ अस्ति॑ दुष्कृ॒तम् ।
त्रि॒ते तद्विश्व॑मा॒प्त्य आ॒रे अ॒स्मद्द॑धातनाने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥

14 यच्च गोषु - महापङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

यच्च॒ गोषु॑ दु॒ष्ष्वप्न्यं॒ यच्चा॒स्मे दु॑हितर्दिवः ।
त्रि॒ताय॒ तद्वि॑भावर्या॒प्त्याय॒ परा॑ वहाने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥

15 निष्कं वा - महापङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

नि॒ष्कं वा॑ घा कृ॒णव॑ते॒ स्रजं॑ वा दुहितर्दिवः ।
त्रि॒ते दु॒ष्ष्वप्न्यं॒ सर्व॑मा॒प्त्ये परि॑ दद्मस्यने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥

16 तदन्नाय तदपसे - महापङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

तद॑न्नाय॒ तद॑पसे॒ तं भा॒गमु॑पसे॒दुषे॑ ।
त्रि॒ताय॑ च द्वि॒ताय॒ चोषो॑ दु॒ष्ष्वप्न्यं॑ वहाने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥

17 यथा कलाम् - महापङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

यथा॑ क॒लां यथा॑ श॒फं यथ॑ ऋ॒णं सं॒नया॑मसि ।
ए॒वा दु॒ष्ष्वप्न्यं॒ सर्व॑मा॒प्त्ये सं न॑यामस्यने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥

18 अजैष्माद्यासनाम चाभूमानागसो - महापङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

अजै॑ष्मा॒द्यास॑नाम॒ चाभू॒माना॑गसो व॒यम् ।
उषो॒ यस्मा॑द्दु॒ष्ष्वप्न्या॒दभै॒ष्माप॒ तदु॑च्छत्वने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥