०४६

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

॥ श्रीगणेशाय नमः ॥

यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।

निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥

षष्ठे तृतीयमध्यायं व्याख्याय श्रीमतीसुतः ।

श्रीसायणार्यः संगृह्य चतुर्थं व्याकरोत्यथ ।

तत्र ‘त्वावतः’ इति त्रयस्त्रिंशदृचं चतुर्थं सूक्तमश्वपुत्रस्य वशाख्यस्यार्षम् । प्राग्वत्सप्रपरिभाषयाद्याश्चतस्रो गायत्र्यः । तत्राद्या पादनिचृत् ‘त्रयः सप्तकाः पादनिचृत्’ (अनु. ४. ४ ) इत्युक्तलक्षणोपेतत्वात् । ‘दधानो गोमदश्ववत्’ इत्येषा पञ्चमी ककुप् अष्टकद्वादशाष्टकैः पादैरुपेतत्वात् ।’ मध्यमश्चेत् ककुप्’ (अनु. ५. ३) इति हि तल्लक्षणम् । ‘तमिन्द्रम्’ इति षष्ठी गायत्री । तस्मिन् हि सन्ति’ इति सप्तमी बृहती। ’ यस्ते मदः’ इत्यष्टम्यनुष्टुप् । यो दुष्टरः’ इति नवमी सतोबृहती। ‘ अयुजौ जागतौ सतोबृहती ’ ( अनु. ८. ४) इति ह्युक्तम् । ‘गव्यो षु णः’ इति दशमी गायत्री । नहि ते शूर’ इत्येकादशी बृहती। ‘य ऋष्वः’ इति द्वादशी विपरीता सतोबृहती प्रथमतृतीययोरष्टाक्षरा द्वितीयचतुर्थयोर्द्वादशाक्षरा च । ‘युजौ चेद्विपरीता’ (अनु. ८.५) इत्युक्तत्वात् । स नो वाजेषु’ इति त्रयोदशी चतुर्विंशत्यक्षरा द्विपदा । “ अभि वो वीरम्’ इति चतुर्दशी पिपीलिकमध्या बृहती । त्रयोदशिनोर्मध्येऽष्टकः पिपलिकमध्या’ (अनु. ७. ७ ) इत्युक्तत्वात् । ‘ददी रेक्णः’ इति पञ्चदशी ककुम्न्यङ्कुशिरा • त्रैष्टुभजागतचतुष्काः ककुम्न्यङ्कुशिरा’ (अनु. ५. ४ ) इत्युक्तत्वात् । विश्वेषाम्’ इति षोडशी विराट् । “महः सु वः’ इति सप्तदशी जगती । ये पातयन्ते’ इत्यष्टादश्युपरिष्टाद्बृहती चतुर्थपादस्य द्वादशाक्षरत्वात् । ‘प्रभङ्गम्’ इत्येकोनविंशी बृहती। ‘सनितः सुसनितः’ इति विंशी विषमपदा बृहती नवकाष्ट्येकादश्यष्टिनो विषमपदा’ (अनु. ७. ८) इत्युक्तत्वात् । ‘आ स एतु’ ‘षष्टिं सहस्रा’ इत्येकविंशीद्वाविंश्यौ पङ्क्ती । “दश श्यावाः’ इति त्रयोविंशी गायत्री । “दानासः’ इति चतुर्विशी पङ्क्तिः । पञ्चविंशीसप्तविंश्यौ बृहत्यौ। षड्विंश्यष्टाविंश्यौ सतोबृहत्यौ। एकोनत्रिंशी गायत्री । “गावो न यूथम् ’ इति त्रिंशी विंशत्यक्षरा द्विपदा विराट्। एकत्रिंश्युष्णिक् । द्वात्रिंशी पङ्क्तिः । त्रयस्त्रिंशी गायत्री। ’ आ स एतु’ इत्यादिभिश्चतसृभिः कनीतपुत्रस्य पृथुश्रवसो दानं स्तूयते । अतस्तदेवताकाः। ‘आ नो वायो’ इत्यादीनां चतसृणां द्वात्रिंश्याश्च वायुर्देवता । शिष्टा अनादेशपरिभाषयेन्द्रदेवताकाः । एतत्सर्वमनुक्रमण्यामुक्तं– ‘त्वावतस्त्रयस्त्रिंशद्वशोऽश्व्य आ स आदि कानीतस्य पृथुश्रवसो दानस्तुतिराद्या पादनिचृत् पञ्चम्यादि ककुब्गायत्री बृहत्यनुष्टुप् सतो बृहती गायत्री विपरीतोत्तरः प्रगाथो द्विपदा चतुर्विंशिका बृहती पिपीलिकमध्या ककुम्न्यङ्कुशिरा विराड्जगत्युपरिष्टाद्बृहतीबृहत्यौ विषमपदोत्तरे पङ्क्ती गायत्री पङ्क्तिः प्रगाथौ च वायव्यौ गायत्री द्विपदोष्णिक् पङ्क्तिर्वायव्या गायत्री’ इति । महाव्रते निष्केवल्ये ‘सनितः सुसनितः’ इत्यन्तमेव सूक्तम् । तथा च पञ्चमारण्यके शौनकेन सूत्रितं - ’त्वावतः पुरूवसविति वशः सनितः सुसनितरित्येतदन्तः’ (ऐ. आ. ५. २. ५) इति ॥

Jamison Brereton

46 (666)
Indra (1–20), Dānastuti (21–24), Vāyu (25–28), Dānastuti (29–33)
Vaśa Aśvya
33 verses: a variety of lyric meters combining 8- and 12- and 4-syllable pādas
This hymn has been called the most metrically varied hymn in the R̥gveda: it con tains verses of nearly twenty different meters, although all the verses that allow analysis appear to be made up of the standard building blocks of eight-, twelve-, and four-syllable pādas in various combinations. (Some irresolvable irregularities remain.) For the most part, the verses are grouped into two-verse pairs (anomalous pragāthas), but the hymn begins with a tr̥ca (vss. 1–3), and the metrically messy verses 14–16 also appear to form a tr̥ca. The two dānastuti sections (vss. 21–24 and 29–33), broken by two pragāthas to Vāyu, show no internal metrical struc ture. The meter is discussed by Oldenberg with his characteristic acuity both in the Prolegomena (1888: 109–10) and in the Noten. The hymn is miscellaneous in content as well. It begins and continues for some time as a fairly standard Indra hymn, insistently focused on begging Indra for gifts of all sorts. The Indra section continues through verse 20, but becomes more and more problematic, with metrical and syntactic difficulties reinforcing each other. Verses 14–16 are metrically almost unanalyzable, and they consist in great part of syntactic fragments the relationships among which are difficult to construct. Verse 17 (paired in a pragātha with 18) equally resists metrical and exegetical certainty, but introduces the Maruts as a counterweight to Indra; in verse 18 we return to more rational metrical structure and, to some degree, analyzable syntax. The last two verses of the Indra section (19–20) are fairly straightforward and bring the praise of Indra to a conclusion with an explosion of adjectives (the first hemistich of 20 is also made entirely of vocatives).
The remaining thirteen verses of the hymn consist of three almost equal parts: two dānastutis (vss. 21–24, 29–33), interrupted by a dānastuti-tinged section addressed to the wind god Vāyu, who participates in the Morning Pressing, when the priestly gifts are distributed. Both dānastutis mention extravagant numbers of livestock. In the first the poet Vaśa Aśvya mentions himself (vs. 21) and his patron Pr̥thuśravas Kānita (vss. 21, 24); the final verse (24) of this first dānastuti has a distinctly sum
mary tone and clearly spells out the cause-and-effect relation between gifts and fame. The second dānastuti mentions a more various set of patrons, and the poet names himself in the final verse (33), as a “great maiden,” clearly his favorite gift, is brought toward him. The diction and style of both dānastutis is straightforward; they lack the sly puns and clever insult-as-praise and praise-as-insult that characterize many dānastutis and seem intent only on counting up the spoils. The four intervening verses (25–28) describes Vāyu’s dawn journey to the sacrifice, but it is made clear that his purpose there is to give, or (vs. 27) to motivate the patron to give, to the poet.

Jamison Brereton Notes

Indra

01 त्वावतः पुरूवसो - पादनिचृत्

विश्वास-प्रस्तुतिः ...{Loading}...

त्वा᳓वतः+++(=त्वादृशस्य)+++ पुरूवसो वय᳓मिन्द्र प्रणेतः ।
स्म᳓सि+++(=स्मः)+++ स्थातर्हरीणाम् +++(=अश्वानां हिरण्यकेशानाम् वा!)+++ ॥

02 त्वां हि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

तुवां᳓ हि᳓ सत्य᳓म् अद्रिवो
विद्म᳓ दाता᳓रम् इषा᳐᳓म्
विद्म᳓ दाता᳓रं रयीणा᳓म्

03 आ यस्य - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ य᳓स्य ते महिमा᳓नं
श᳓तमूते श᳓तक्रतो
गीर्भि᳓र् गृण᳓न्ति कार᳓वः

04 सुनीथो घा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

सुनीथो᳓ घा स᳓ म᳓र्तियो
य᳓म् मरु᳓तो य᳓म् अर्यमा᳓
मित्रः᳓ पा᳐᳓न्ति अद्रु᳓हः

05 दधानो गोमदश्ववत्सुवीर्यमादित्यजूत - ककुप्

विश्वास-प्रस्तुतिः ...{Loading}...

द᳓धानो गो᳓मद् अ᳓श्ववत्
सुवी᳓रियम् आदित्य᳓जूत एधते
स᳓दा राया᳓ पुरुस्पृ᳓हा

06 तमिन्द्रं दानमीमहे - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

त᳓म् इ᳓न्द्रं दा᳓नम् ईमहे
शवसान᳓म् अ᳓भीरुवम्
ई᳓शानं राय᳓ ईमहे

07 तस्मिन्हि सन्त्यूतयो - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

त᳓स्मिन् हि᳓ स᳓न्ति ऊत᳓यो
वि᳓श्वा अ᳓भीरवः स᳓चा
त᳓म् आ᳓ वहन्तु स᳓प्तयः पुरूव᳓सुम्
म᳓दाय ह᳓रयः सुत᳓म्

08 यस्ते मदो - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓स् ते म᳓दो व᳓रेणियो
य᳓ इन्द्र वृत्रह᳓न्तमः
य᳓ आददिः᳓ सु᳓वर् नृ᳓भिर्
यः᳓ पृ᳓तनासु दुष्ट᳓रः

09 यो दुष्थरो - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

यो᳓ दुष्ट᳓रो विश्ववार श्रवा᳓यियो
वा᳓जेषु अ᳓स्ति तरुता᳓
स᳓ नः शविष्ठ स᳓वना᳓ वसो गहि
गमे᳓म गो᳓मति व्रजे᳓

10 गव्यो षु - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

गव्यो᳓ षु᳓ णो य᳓था पुरा᳓
अश्वया᳓ उत᳓ रथया᳓
वरिवस्य᳓ महामह

11 नहि ते - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

नहि᳓ ते शूर रा᳓धसो
अ᳓न्तं विन्दा᳓मि सत्रा᳓
दशस्या᳓ नो मघवन् नू᳓ चिद् अद्रिवो
धि᳓यो वा᳓जेभिर् आविथ

12 य ऋष्वः - विपरीता

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓ ऋष्वः᳓ श्रावय᳓त्सखा
वि᳓श्वे᳓त् स᳓ वेद ज᳓निमा पुरुष्टुतः᳓
तं᳓ वि᳓श्वे मा᳓नुषा युगा᳓
इ᳓न्द्रं हवन्ते तविषं᳓ यत᳓स्रुचः

13 स नो - द्विपदा जगती

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓ नो वा᳓जेषु अविता᳓ पुरूव᳓सुः
पुरस्थाता᳓ मघ᳓वा वृत्रहा᳓ भुवत्

14 अभि वो - पिपीलिकमध्या बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

अभि᳓ वो वीर᳓म् अ᳓न्धसो म᳓देषु गाय
गिरा᳓ महा᳓ वि᳓चेतसम्
इ᳓न्द्रं ना᳓म श्रु᳓तियं शाकि᳓नं व᳓चो य᳓था

15 ददी रेक्णस्तन्वे - ककुम्न्यङ्कुशिरा

विश्वास-प्रस्तुतिः ...{Loading}...

ददी᳓ रे᳓कणस् तनु᳓वे ददि᳓र् व᳓सु
ददि᳓र् वा᳓जेषु पुरुहूत वाजि᳓नम्
नून᳓म् अ᳓थ

16 विश्वेषामिरज्यन्तं वसूनाम् - विराट्

विश्वास-प्रस्तुतिः ...{Loading}...

वि᳓श्वेषा᳐म् इरज्य᳓न्तं व᳓सूनां
सासह्वां᳓सं चिद् अस्य᳓ व᳓र्पसः
कृपयतो᳓ नून᳓म् अ᳓ति अ᳓थ

17 महः सु - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

महः᳓ सु᳓ वो अ᳓रम् इषे
स्त᳓वामहे
मीळ्हु᳓षे अरंगमा᳓य ज᳓ग्मये
यज्ञे᳓भिर् गीर्भि᳓र्
विश्व᳓मनुषाम् मरु᳓ताम् इयक्षसि
गा᳓ये त्वा न᳓मसा गिरा᳓

18 ये पातयन्ते - उपरिष्टाद्बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

ये᳓ पात᳓यन्ते अ᳓ज्मभिर्
गिरीणां᳓ स्नु᳓भिर् एषा᳐म्
यज्ञ᳓म् महिष्व᳓णीनां᳐
सुम्नं᳓ तुविष्व᳓णीना᳐म्
प्र᳓ अध्वरे᳓

19 प्रभङ्गं दुर्मतीनामिन्द्र - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

प्रभङ्गं᳓ दुर्मतीना᳐᳓म्
इ᳓न्द्र शविष्ठ आ᳓ भर
रयि᳓म् अस्म᳓भ्यं यु᳓ज्यं चोदयन्मते
ज्य᳓यिष्ठं+ चोदयन्मते

20 सनितः सुसनितरुग्र - विषमपदा

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓नितः सु᳓सनितर् उ᳓ग्र
चि᳓त्र चे᳓तिष्ठ सू᳓नृत
प्रास᳓हा सम्राट् स᳓हुरिं स᳓हन्तम्
भुज्युं᳓ वा᳓जेषु पू᳓र्वियम्

21 आ स - पङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ स᳓ एतु य᳓ ई᳓वद् आँ᳓
अ᳓देवः पूर्त᳓म् आददे᳓
य᳓था चिद् व᳓शो अश्वियः᳓
पृथुश्र᳓वसि कानीते᳓
अस्या᳓ विउ᳓षि आददे᳓

22 षष्थिं सहस्राश्व्यस्यायुतासनमुष्थ्रानाम् - पङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

षष्टिं᳓ सह᳓स्रा अ᳓श्व्यस्यायु᳓तासनम्
उ᳓ष्ट्रानां विंशतिं᳓ शता᳓
द᳓श श्या᳓वीनां᳐ शता᳓
द᳓श त्रि᳓अरुषीणां᳐
द᳓श ग᳓वां᳐ सह᳓स्रा

23 दश श्यावा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

द᳓श श्यावा᳓ ऋध᳓द्रयो
वीत᳓वारास आश᳓वः
मथ्रा᳓ नेमिं᳓ नि᳓ वावृतुः

24 दानासः पृथुश्रवसः - पङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

दा᳓नासः पृथुश्र᳓वसः
कानीत᳓स्य सुरा᳓धसः
र᳓थं हिरण्य᳓यं द᳓दन्
मं᳓हिष्ठः सूरि᳓र् अभू᳐द्
व᳓र्षिष्ठम् अकृत श्र᳓वः

25 आ नो - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ नो वायो महे᳓ त᳓ने
याहि᳓ मखा᳓य पा᳓जसे
वयं᳓ हि᳓ ते चकृमा᳓ भू᳓रि दाव᳓ने
सद्य᳓श् चिन् म᳓हि दाव᳓ने

26 यो अश्वेभिर्वहते - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

यो᳓ अ᳓श्वेभिर् व᳓हते व᳓स्त उस्रा᳓स्
त्रिः᳓ सप्त᳓ सप्ततीना᳐᳓म्
एभिः᳓ सो᳓मेभिः सोमसु᳓द्भिः सोमपा
दाना᳓य शुक्रपूतपाः

27 यो म - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

यो᳓ म इमं᳓ चिद् उ त्म᳓ना
अ᳓मन्दच् चित्रं᳓ दाव᳓ने
अरट्वे᳓ अ᳓क्षे न᳓हुषे सुकृ᳓त्वनि
सुकृ᳓त्तराय सुक्र᳓तुः

28 उचथ्येथ् वपुषि - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

उचथि᳓ये व᳓पुषि यः᳓ सुवरा᳓ळ्
उत᳓ वायो घृतस्नाः᳐᳓
अ᳓श्वेषितं र᳓जेषितं शु᳓नेषितम्
प्र᳓ अ᳓ज्म त᳓द् इदं᳓ नु᳓ त᳓त्

29 अध प्रियमिषिराय - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓ध प्रिय᳓म् इषिरा᳓य
षष्टिं᳓ सह᳓स्रासनम्
अ᳓श्वानाम् इ᳓न् न᳓ वृ᳓ष्णा᳐म्

30 गावो न - द्विपदा विराट्

विश्वास-प्रस्तुतिः ...{Loading}...

गा᳓वो न᳓ यूथ᳓म् उ᳓प यन्ति व᳓ध्रय
उ᳓प मा᳓ यन्ति व᳓ध्रयः

31 अध यच्चारथे - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓ध य᳓च् चा᳓रथे गणे᳓
शत᳓म् उ᳓ष्ट्राँ अ᳓चिक्रदत्
अ᳓ध श्वि᳓त्नेषु विंशतिं᳓ शता᳓

32 शतं दासे - पङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

शतं᳓ दासे᳓ बल्बूथे᳓
वि᳓प्रस् त᳓रुक्ष आ᳓ ददे
ते᳓ ते वायव् इमे᳓ ज᳓ना
म᳓दन्ति इ᳓न्द्रगोपा
म᳓दन्ति देव᳓गोपाः

33 अध स्या - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓ध स्या᳓ यो᳓षणा मही᳓
प्रतीची᳓ व᳓शम् अश्विय᳓म्
अ᳓धिरुक्मा वि᳓ नीयते