०४४

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘समिधाग्निम् ’ इति त्रिंशदृचं द्वितीयं सूक्तमाङ्गिरसस्य विरूपस्यार्षं प्राग्वत्सप्रपरिभाषया गायत्रमाग्नेयम् । तथा चानुक्रम्यते - ’समिधाग्निं त्रिंशत्’ इति । प्रातरनुवाके गायत्रे छन्दस्याश्विनशस्त्रे चेदं विनियुक्तम् । महाव्रते ‘ समिधाग्निम्’ इत्याद्याश्चतस्रः सामिधेन्यः । तथा च पञ्चमारण्यके सूत्रितं - समिधाग्निमिति चतस्रो वैश्वकर्मण ऋषभः’ (ऐ. आ. ५. १. १) इति । आतिथ्यायां ‘ समिधाग्निम्’ इत्येषा प्रथमाज्यभागस्यानुवाक्या । सूत्रितं च - समिधाग्निं दुवस्यता प्यायस्व समेतु ते ’ (आश्व. श्रौ. ४. ५) इति । अमावास्यायां प्रथमाज्यभागस्यानुवाक्या । सूत्रितं च – वृधन्वन्तावमावास्यायामग्निः प्रत्नेन मन्मना’ (आश्व. श्रौ. १. ५) इति । दर्शपूर्णमासयोराग्नेयस्यानुवाक्या ‘अग्निमूर्धा’ इत्येषा । सूत्रितं च – ‘अग्निर्मूर्धा भुवो यज्ञस्य’ (आश्व. श्रौ. १. ६ ) इति । मूर्धन्वद्गुणस्याग्नेरप्येषैवानुवाक्या । सूत्रितं च– नित्ये मूर्धन्व’ इति । पवमानेष्टिषु द्वितीयस्यामिष्टावग्नेः शुचेरनुवाक्या ‘अग्निः शुचिव्रततमः’ इत्येषा । सूत्रितं च–’ अग्निः शुचिव्रततम उदग्ने शुचयस्तव’ (आश्व. श्रौ. २. १) इति ॥

Jamison Brereton

44 (664)
Agni
Virūpa Āṅgirasa
30 verses: gāyatrī, arranged in trcas ̥
Like the last hymn, this one, though apparently divided into tr̥cas, shows little unity within the tr̥cas. Indeed, this hymn does appear to ramble, unlike the last one, in which several persistent themes provided structure. There are several sig nature words, especially forms of the root śuc “flame, blaze” and of the nominal vásu “good/goods.” Agni’s ritual function is the dominant topic, and his twin and contrasting roles as vípra “inspired poet” (vss. 10, 12, 21, 29) and kaví “sage poet” (vss. 7, 12, 21, 26, 30) are regularly mentioned. But there is no clear development in the hymn, and most of the verses contain standard descriptions and addresses to the god.

Jamison Brereton Notes

Agni

01 समिधाग्निं दुवस्यत - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

समि᳓धाग्निं᳓ दुवस्यत
घृतइ᳓र् बोधयता᳓तिथिम्
आ᳓स्मिन् हव्या᳓ जुहोतन

02 अग्ने स्तोमम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓ग्ने स्तो᳓मं जुषस्व मे
व᳓र्धस्वाने᳓न म᳓न्मना
प्र᳓ति सूक्ता᳓नि हर्य नः

03 अग्निं दूतम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अग्निं᳓ दूत᳓म् पुरो᳓ दधे
हव्यवा᳓हम् उ᳓प ब्रुवे
देवाँ᳓ आ᳓ सादयाद् इह᳓

04 उत्ते बृहन्तो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

उ᳓त् ते बृह᳓न्तो अर्च᳓यः
समिधान᳓स्य दीदिवः
अ᳓ग्ने शुक्रा᳓स ईरते

05 उप त्वा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

उ᳓प त्वा जुहु᳓वो म᳓म
घृता᳓चीर् यन्तु हर्यत
अ᳓ग्ने हव्या᳓ जुषस्व नः

06 मन्द्रं होतारमृत्विजम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

मन्द्रं᳓ हो᳓तारम् ऋत्वि᳓जं
चित्र᳓भानुं विभा᳓वसुम्
अग्नि᳓म् ईळे स᳓ उ श्रवत्

07 प्रत्नं होतारमीड्यम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

प्रत्नं᳓ हो᳓तारम् ई᳓डियं
जु᳓ष्टम् अग्निं᳓ कवि᳓क्रतुम्
अध्वरा᳓णाम् अभिश्रि᳓यम्

08 जुषाणो अङ्गिरस्तमेमा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

जुषाणो᳓ अङ्गिरस्तम
इमा᳓ हव्या᳓नि आनुष᳓क्
अ᳓ग्ने यज्ञं᳓ नय र्तुथा᳓

09 समिधान उ - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

समिधान᳓ उ सन्तिय
शु᳓क्रशोच इहा᳓ वह
चिकित्वा᳓न् दइ᳓वियं ज᳓नम्

10 विप्रं होतारमद्रुहम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

वि᳓प्रं हो᳓तारम् अद्रु᳓हं
धूम᳓केतुं विभा᳓वसुम्
यज्ञा᳓नां केतु᳓म् ईमहे

11 अग्ने नि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓ग्ने नि᳓ पाहि नस् तुव᳓म्
प्र᳓ति ष्म देव री᳓षतः
भिन्धि᳓ द्वे᳓षः सहस्कृत

12 अग्निः प्रत्नेन - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अग्निः᳓ प्रत्ने᳓न म᳓न्मना
शु᳓म्भानस् तनु᳓वं सुवा᳓म्
कवि᳓र् वि᳓प्रेण वावृधे

13 ऊर्जो नपातमा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

ऊर्जो᳓ न᳓पातम् आ᳓ हुवे
अग्नि᳓म् पवाक᳓शोचिषम्+
अस्मि᳓न् यज्ञे᳓ सुअध्वरे᳓

14 स नो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓ नो मित्रमहस् तुव᳓म्
अ᳓ग्ने शुक्रे᳓ण शोचि᳓षा
देवइ᳓र् आ᳓ सत्सि बर्हि᳓षि

15 यो अग्निम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

यो᳓ अग्निं᳓ तनु᳓वो द᳓मे
देव᳓म् म᳓र्तः सपर्य᳓ति
त᳓स्मा इ᳓द् दीदयद् व᳓सु

16 अग्निर्मूर्धा दिवः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अग्नि᳓र् मूर्धा᳓ दिवः᳓ ककु᳓त्
प᳓तिः पृथिव्या᳓ अय᳓म् ।
अपां᳓ रे᳓तांसि जिन्वति+++(=प्रीणयति)+++ ॥

17 उदग्ने शुचयस्तव - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

उ᳓द् अग्ने शु᳓चयस् त᳓व
शुक्रा᳓ भ्रा᳓जन्त ईरते
त᳓व ज्यो᳓तींषि अर्च᳓यः

18 ईशिषे वार्यस्य - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

ई᳓शिषे वा᳓रियस्य हि᳓
दात्र᳓स्याग्ने सु᳓वर्पतिः
स्तोता᳓ स्यां त᳓व श᳓र्मणि

19 त्वामग्ने मनीषिणस्त्वाम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

तुवा᳓म् अग्ने मनीषि᳓णस्
तुवां᳓ हिन्वन्ति चि᳓त्तिभिः
तुवां᳓ वर्धन्तु नो गि᳓रः

20 अदब्धस्य स्वधावतो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓दब्धस्य स्वधा᳓वतो
दूत᳓स्य रे᳓भतः स᳓दा
अग्नेः᳓ सख्यं᳓ वृणीमहे

21 अग्निः शुचिव्रततमः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अग्निः᳓ शु᳓चि-व्रततमः,
शु᳓चिर् वि᳓प्रः, शु᳓चिः कविः᳓ ।
शु᳓ची रोचत आ᳓हुतः ॥

22 उत त्वा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

उत᳓ त्वा धीत᳓यो म᳓म
गि᳓रो वर्धन्तु विश्व᳓हा
अ᳓ग्ने सख्य᳓स्य बोधि नः

23 यदग्ने स्यामहम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓द् अग्ने स्या᳓म् अहं᳓ तुवं᳓
तुवं᳓ वा घा सिया᳓ अह᳓म्
स्यु᳓ष् टे सत्या᳓ इहा᳓शि᳓षः

24 वसुर्वसुपतिर्हि कमस्यग्ने - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

व᳓सुर् व᳓सुपतिर् हि᳓ कम्
अ᳓सि अग्ने विभा᳓वसुः
स्या᳓म ते सुमता᳓व् अ᳓पि

25 अग्ने धृतव्रताय - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓ग्ने धृत᳓व्रताय ते
समुद्रा᳓येव सि᳓न्धवः
गि᳓रो वाश्रा᳓स ईरते

26 युवानं विश्पतिम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

यु᳓वानं विश्प᳓तिं कविं᳓
विश्वा᳓दम् पुरुवे᳓पसम्
अग्निं᳓ शुम्भामि म᳓न्मभिः

27 यज्ञानां रथ्ये - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

यज्ञा᳓नां रथि᳓ये वयं᳓
तिग्म᳓जम्भाय वीळ᳓वे
स्तो᳓मैर् इषेम अग्न᳓ये

28 अयमग्ने त्वे - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अय᳓म् अग्ने तुवे᳓ अ᳓पि
जरिता᳓ भूतु सन्तिय
त᳓स्मै पवाक+ मॄळय+

29 धीरो ह्यस्यद्मसद्विप्रो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

धी᳓रो हि᳓ अ᳓सि अद्मस᳓द्
वि᳓प्रो न᳓ जा᳓गृविः स᳓दा
अ᳓ग्ने दीद᳓यसि द्य᳓वि

30 पुराग्ने दुरितेभ्यः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

पुरा᳓ग्ने दुरिते᳓भियः
पुरा᳓ मृध्रे᳓भियः कवे
प्र᳓ ण आ᳓युर् वसो तिर