०४३

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

षष्ठेऽनुवाके षट् सूक्तानि । तत्र ‘इमे विप्रस्य’ इति त्रयस्त्रिशदृचं प्रथमं सूक्तमाङ्गिरसस्य विरूपस्यार्षं गायत्रमग्निदेवताकम् । तथा चानुक्रान्तम्-‘इमे त्रयस्त्रिंशद्विरूप आङ्गिरस आग्नेयं तु ’ इति । प्रातरनुवाक आग्नेये क्रतौ गायत्रे छन्दस्याश्विनशस्त्रे चैतदादिके द्वे सूक्ते । सूत्रितं च - ’इमे विप्रस्येति सूक्ते’ ( आश्व. श्रौ. ४. १३) इति । कारीर्यवभृथेष्ट्योः प्रथमाज्यभागस्य ‘अप्स्वग्ने’ इत्यनुवाक्या। तथा च सूत्रितम्- अप्सुमन्तावाज्यभागावप्स्वग्ने सधिष्टव’ (आश्व. श्रौ. २. १३) इति । आग्नीध्रस्य प्रातःसवने प्रस्थितयाज्या । श्रूयते च - ’उक्षान्नाय वशान्नायेत्याग्नीध्रो यजति ’ ( ऐ. ब्रा. ६. १०) इति । अग्निवतीष्टौ ‘त्वं ह्यग्ने ’ इत्येषा याज्या । सूत्रितं च - ’त्वं ह्यग्ने अग्निनाग्ने त्वमस्मद्युयोध्यमीवाः’ ( आश्व. श्रौ. ३. १३) इति । अग्निमन्थनेऽप्येषा । सूत्रितं च - ’त्वं ह्यग्ने अग्निना तं मर्जयन्त सुक्रतुम्’ (आश्व. श्रौ. २. १६) इति । अग्नये कामायाष्टाकपालेष्टौ ‘तुभ्यं ता अङ्गिरस्तम’ इत्येषानुवाक्या । सूत्रितं च— तुभ्यं ता अङ्गिरस्तमाश्याम तं काममग्ने तवोतीति कामाय’ ( आश्व. श्रौ. २. १०) इति । अन्वाहिताग्नेः प्रयाणे समारोपणपक्षेऽनयैकाहुतिः कर्तव्या । तथा च सूत्रितं - ’तुभ्यं ता अङ्गिरस्तमेति वाज्याहुतिं हुत्वा समारोपयेत्’ (आश्व. श्रौ. ३. १०) इति । वैद्युताग्निनाम्नीनां संसर्गेऽग्नयेऽप्सुमतीष्टिः । तत्र ‘ यदग्ने दिविजाः’ इति याज्या । ‘यदग्ने दिविजा अस्यग्निर्होता न्यसीदद्यजीयान्’ (आश्व. श्रौ. ३. १३) इति ॥

Jamison Brereton

43 (663)
Agni
Virūpa Āṅgirasa
33 verses: gāyatrī, most likely arranged in trcas ̥
Though it is likely that this hymn is constructed of tr̥cas, there is little overt unity within the tr̥cas. On the surface the hymn is a pleasant but generally unremarkable praise of Agni. His ritual functions are showcased throughout, and toward the end the “we” of the poet and his fellow sacrificers invoke him more and more insistently1114 VIII.43
in this role. But earlier in the hymn there is some nice naturalistic description of fire and fires (vss. 3–10). In verses 14 and 16 the poet emphasizes the kinship between himself and Agni as poet.
Another thematic strain evident in the hymn and asserting itself more and more toward the end is the role of Agni as a unifying focus of various clans and settle ments in the larger Ārya community. In several early verses multiple fires are kin dled at once (vss. 4–5). In light of later parts of the hymn, these can be interpreted as the separate family or clan fires, which are later joined conceptually in the single fire to which all the separate groups give allegiance (see esp. vs. 18, also 27, 29). This single fire, found in multiple places but shared by all the clans, is invoked for help in combat in verse 21. Agni’s competitive (vss. 20, 25), martial (vss. 21, 23, 26, 32), and ruling (vs. 24) aspects become more prominent in the second half of the hymn; the sacrificers clearly wish to harness these powers for the good of the whole com munity. Though not insistent, this theme is pervasive and provides a subtle unity to this superficially rambling thirty-three-verse composition.

Jamison Brereton Notes

Agni

01 इमे विप्रस्य - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

इ॒मे विप्र॑स्य वे॒धसो॒ऽग्नेरस्तृ॑तयज्वनः ।
गिरः॒ स्तोमा॑स ईरते ॥

02 अस्मै ते - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अस्मै॑ ते प्रति॒हर्य॑ते॒ जात॑वेदो॒ विच॑र्षणे ।
अग्ने॒ जना॑मि सुष्टु॒तिम् ॥

03 आरोका इव - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

आ॒रो॒का इ॑व॒ घेदह॑ ति॒ग्मा अ॑ग्ने॒ तव॒ त्विषः॑ ।
द॒द्भिर्वना॑नि बप्सति ॥

04 हरयो धूमकेतवो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

हर॑यो धू॒मके॑तवो॒ वात॑जूता॒ उप॒ द्यवि॑ ।
यत॑न्ते॒ वृथ॑ग॒ग्नयः॑ ॥

05 एते त्ये - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

ए॒ते त्ये वृथ॑ग॒ग्नय॑ इ॒द्धासः॒ सम॑दृक्षत ।
उ॒षसा॑मिव के॒तवः॑ ॥

06 कृष्णा रजांसि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

कृ॒ष्णा रजां॑सि पत्सु॒तः प्र॒याणे॑ जा॒तवे॑दसः ।
अ॒ग्निर्यद्रोध॑ति॒ क्षमि॑ ॥

07 धासिं कृण्वानओषधीर्बप्सदग्निर्न - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

धा॒सिं कृ॑ण्वा॒न ओष॑धी॒र्बप्स॑द॒ग्निर्न वा॑यति ।
पुन॒र्यन्तरु॑णी॒रपि॑ ॥

08 जिह्वाभिरह नन्नमदर्चिषा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

जि॒ह्वाभि॒रह॒ नन्न॑मद॒र्चिषा॑ जञ्जणा॒भव॑न् ।
अ॒ग्निर्वने॑षु रोचते ॥

09 अप्स्वग्ने सधिष्थव - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒प्स्व॑ग्ने॒ सधि॒ष्टव॒ सौष॑धी॒रनु॑ रुध्यसे ।
गर्भे॒ सञ्जा॑यसे॒ पुनः॑ ॥

10 उदग्ने तव - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

उद॑ग्ने॒ तव॒ तद्घृ॒ताद॒र्ची रो॑चत॒ आहु॑तम् ।
निंसा॑नं जु॒ह्वो॒३॒॑ मुखे॑ ॥

11 उक्षान्नाय वशान्नाय - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

उ॒क्षान्ना॑य व॒शान्ना॑य॒(=गवन्नाय)
सोम॑-पृष्ठाय वे॒धसे॑ ।
स्तोमै॑र् विधेमा॒ग्नये॑ ॥

12 उत त्वा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

उ॒त त्वा॒ नम॑सा व॒यं होत॒र्वरे॑ण्यक्रतो ।
अग्ने॑ स॒मिद्भि॑रीमहे ॥

13 उत त्वा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

उ॒त त्वा॑ भृगु॒वच्छु॑चे मनु॒ष्वद॑ग्न आहुत ।
अ॒ङ्गि॒र॒स्वद्ध॑वामहे ॥

14 त्वं ह्यग्ने - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

त्वं ह्य् अ॑ग्ने अ॒ग्निना॒
विप्रो॒ विप्रे॑ण॒, सन्त् स॒ता ।
सखा॒ सख्या॑ समि॒ध्यसे॑

15 स त्वम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

स त्वं विप्रा॑य दा॒शुषे॑ र॒यिं दे॑हि सह॒स्रिण॑म् ।
अग्ने॑ वी॒रव॑ती॒मिष॑म् ॥

16 अग्ने भ्रातः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अग्ने॒ भ्रातः॒ सह॑स्कृत॒ रोहि॑दश्व॒ शुचि॑व्रत ।
इ॒मं स्तोमं॑ जुषस्व मे ॥

17 उत त्वाग्ने - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

उ॒त त्वा॑ग्ने॒ मम॒ स्तुतो॑ वा॒श्राय॑ प्रति॒हर्य॑ते ।
गो॒ष्ठं गाव॑ इवाशत ॥

18 तुभ्यं ता - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

तुभ्यं॒ ता अ॑ङ्गिरस्तम॒ विश्वाः॑ सुक्षि॒तयः॒ पृथ॑क् ।
अग्ने॒ कामा॑य येमिरे ॥

19 अग्निं धीभिर्मनीषिणो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒ग्निं धी॒भिर्म॑नी॒षिणो॒ मेधि॑रासो विप॒श्चितः॑ ।
अ॒द्म॒सद्या॑य हिन्विरे ॥

20 तं त्वामज्मेषु - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

तं त्वामज्मे॑षु वा॒जिनं॑ तन्वा॒ना अ॑ग्ने अध्व॒रम् ।
वह्निं॒ होता॑रमीळते ॥

21 पुरुत्रा हि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

पु॒रु॒त्रा हि स॒दृङ्ङसि॒ विशो॒ विश्वा॒ अनु॑ प्र॒भुः ।
स॒मत्सु॑ त्वा हवामहे ॥

22 तमीळिष्व य - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

तमी॑ळिष्व॒ य आहु॑तो॒ऽग्निर्वि॒भ्राज॑ते घृ॒तैः ।
इ॒मं नः॑ शृणव॒द्धव॑म् ॥

23 तं त्वा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

तं त्वा॑ व॒यं ह॑वामहे शृ॒ण्वन्तं॑ जा॒तवे॑दसम् ।
अग्ने॒ घ्नन्त॒मप॒ द्विषः॑ ॥

24 विशां राजानमद्भुतमध्यक्षम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

वि॒शां राजा॑न॒मद्भु॑त॒मध्य॑क्षं॒ धर्म॑णामि॒मम् ।
अ॒ग्निमी॑ळे॒ स उ॑ श्रवत् ॥

25 अग्निं विश्वायुवेपसम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒ग्निं वि॒श्वायु॑वेपसं॒ मर्यं॒ न वा॒जिनं॑ हि॒तम् ।
सप्तिं॒ न वा॑जयामसि ॥

26 घ्नन्मृध्राण्यप द्विषो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

घ्नन्मृ॒ध्राण्यप॒ द्विषो॒ दह॒न्रक्षां॑सि वि॒श्वहा॑ ।
अग्ने॑ ति॒ग्मेन॑ दीदिहि ॥

27 यं त्वा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

यं त्वा॒ जना॑स इन्ध॒ते म॑नु॒ष्वद॑ङ्गिरस्तम ।
अग्ने॒ स बो॑धि मे॒ वचः॑ ॥

28 यदग्ने दिविजा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

यद॑ग्ने दिवि॒जा अस्य॑प्सु॒जा वा॑ सहस्कृत ।
तं त्वा॑ गी॒र्भिर्ह॑वामहे ॥

29 तुभ्यं घेत्ते - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

तुभ्यं॒ घेत्ते जना॑ इ॒मे विश्वाः॑ सुक्षि॒तयः॒ पृथ॑क् ।
धा॒सिं हि॑न्व॒न्त्यत्त॑वे ॥

30 ते घेदग्ने - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

ते घेद॑ग्ने स्वा॒ध्योऽहा॒ विश्वा॑ नृ॒चक्ष॑सः ।
तर॑न्तः स्याम दु॒र्गहा॑ ॥

31 अग्निं मन्द्रम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒ग्निं म॒न्द्रं पु॑रुप्रि॒यं शी॒रं पा॑व॒कशो॑चिषम् ।
हृ॒द्भिर्म॒न्द्रेभि॑रीमहे ॥

32 स त्वमग्ने - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

स त्वम॑ग्ने वि॒भाव॑सुः सृ॒जन्त्सूर्यो॒ न र॒श्मिभिः॑ ।
शर्ध॒न्तमां॑सि जिघ्नसे ॥

33 तत्ते सहस्व - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

तत्ते॑ सहस्व ईमहे दा॒त्रं यन्नोप॒दस्य॑ति ।
त्वद॑ग्ने॒ वार्यं॒ वसु॑ ॥