०४२

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘अस्तभ्नात् ’ इति षडृचं द्वादशं सूक्तम् । अर्चनाना ऋषिः काण्वो नाभाको वा ऋषिः । उत्तरे त्वर्चनानाः । आद्यस्तृचस्त्रैष्टुभो वरुणदेवत्यो द्वितीयस्तृच आनुष्टुभोऽश्विदेवताकः । तथा चानुक्रान्तम्–’अस्तभ्नात् षळर्चनाना वा त्रैष्टुभमन्त्यं वा तृचमाश्विनमानुष्टुभमपश्यत्’ इति । सूक्तविनियोगो लैङ्गिकः । वारुणे पशौ हविषो याज्या अस्तभ्नात्’ इति । सूत्रितं च- अस्तभ्नाद्द्यामसुरो विश्ववेदा इत्यैकादशिनाः’ (आश्व. श्रौ. ३. ७) इति । अग्नीषोमप्रणयनेऽप्येषोत्तरा परिधानीया । तथा सूत्रितम्—’अस्तभ्नाद्द्यामसुरो विश्ववेदा इति परिदध्यादुत्तरया वा’ (आश्व. श्रौ. ४. १०) इति । एवा वन्दस्व’ इत्येषा वारुणे पशौ हविषोऽनुवाक्या । सूत्रितं च - ’एवा वन्दस्व वरुणं बृहन्तं तत्त्वा यामि ब्रह्मणा वन्दमान इति द्वे’ ( आश्व. श्रौ, ३. ७ )। सोमप्रवहणे ‘इमां धियम्’ इत्येषा परिधानीया । सूत्रितं च-’ इमां धियं शिक्षमाणस्य देवेति निहिते परिदध्यात्’ (आश्व. श्रौ. ४. ४) इति ॥

Jamison Brereton

42 (662)
Varuṇa (1–3), the Aśvins (4–6)
Arcanānas or Nābhāka Kāṇva
6 verses: triṣṭubh 1–3, anuṣṭubh 4–6
This last hymn of the Nābhāka series is actually two hymns, on the grounds both of meter and of subject matter, as Oldenberg clearly states (1888: 213 n. 2). The first three verses, in triṣṭubh, are dedicated to Varuṇa. They continue the solemn tone and the cosmic focus of the previous hymn to Varuṇa (VIII.41), but with none of the complexities. The Aśvins are the target of the second three verses (4–6), in a simple invitation to soma-drinking. The Nābhāka refrain is found only in this second hymnlet.

Jamison Brereton Notes

Varuṇa and Aśvins

01 अस्तभ्नाद्द्यामसुरो विश्ववेदा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓स्तभ्नाद् द्या᳓म् अ᳓सुरो विश्व᳓वेदा
अ᳓मिमीत वरिमा᳓णम् पृथिव्याः᳓
आ᳓सीदद् वि᳓श्वा भु᳓वनानि सम्रा᳓ड्
वि᳓श्वे᳓त् ता᳓नि व᳓रुणस्य व्रता᳓नि

02 एवा वन्दस्व - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

एव᳓+आ᳓ वन्दस्व व᳓रुणम् बृह᳓न्तम् ।
नमस्य᳓+ आ᳓ धी᳓रम् अमृ᳓तस्य गोपा᳓म् ।
स᳓ नश् श᳓र्म त्रि-व᳓रूथव्ँ+++(=वर्म)+++ वि᳓यँसत्+++(=वियमयतु)+++ ॥37॥
यूय᳓म् पात स्वस्ति᳓भिस् स᳓दा नः ।

03 इमां धियम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इमां᳓ धि᳓यं शि᳓क्षमाणस्य देव
क्र᳓तुं द᳓क्षं वरुण सं᳓ शिशाधि
य᳓या᳓ति वि᳓श्वा दुरिता᳓ त᳓रेम
सुत᳓र्माणम् अ᳓धि ना᳓वं रुहेम

04 आ वाम् - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ वां ग्रा᳓वाणो अश्विना
धीभि᳓र् वि᳓प्रा अचुच्यवुः
ना᳓सत्या सो᳓मपीतये
न᳓भन्ताम् अन्यके᳓ समे

05 यथा वामत्रिरश्विना - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓था वाम् अ᳓त्रिर् अश्विना
गीर्भि᳓र् वि᳓प्रो अ᳓जोहवीत्
ना᳓सत्या सो᳓मपीतये
न᳓भन्ताम् अन्यके᳓ समे

06 एवा वामह्व - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

एवा᳓ वाम् अह्व ऊत᳓ये
य᳓था᳓हुवन्त मे᳓धिराः
ना᳓सत्या सो᳓मपीतये
न᳓भन्ताम् अन्यके᳓ समे