०४१

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

अस्मा ऊ षु ’ इति दशर्चमेकादशं सूक्तम् । अत्रेयमनुक्रमणिका— अस्मा ऊ षु दश वारुणं तु ’ इति । नाभाक ऋषिरनुवृत्तत्वात् । ‘महापाङ्क्तं हि ’ इत्युक्तत्वादिदमपि महापाङ्क्तम् । इदमादिके द्वे सूक्ते वरुणदेवत्ये । विनियोगो लैङ्गिकः । चातुर्विंशिकेऽहनि माध्यंदिनसवने मैत्रावरुणशस्त्र आरम्भणीयाया ऊर्ध्वं ’ स क्षपः ’ इत्ययं नाभाकतृचः । सूत्रितं च - ‘ स क्षपः परि षस्वज इति मैत्रावरुणः ’ ( आश्व. श्रौ. ७. २) इति । ‘ यः ककुभः’ इत्येतत्प्रभृतिको वा नाभाकतृचः ।। सूत्रितं च – यः ककुभो निधारय इति वा ’ ( आश्व. श्रौ. ७. २ ) इति ॥

Jamison Brereton

41 (661)
Varuṇa
Nābhāka Kāṇva
10 verses: mahāpaṅkti
A mystical hymn dedicated to Varuṇa alone, celebrating the god as cosmogonic creator and shaper of the world—both spatially, by measuring out the primordial cosmic domains and holding down and apart the cosmic realms (esp. vss. 4, 10), and temporally, by regulating the nights and days (vss. 3, 10). The sun and moon as his deputies function at the intersection of the spatial and temporal (vs. 9). The god is also presented as holding both human and natural phenomena within his encom
passing physical protection (vss. 1cd, 3ac, 4de, 7abc).
The hymn seems to have a loose omphalos structure. Verbal correspondences in verses 2/9 (especially the “seven”) and 3/8 (ní √dhā “deposit” and feminine plurals) provide a weak ring (see also the “three” in vss. 3/9 and “embrace” [pári √svaj] and “envelop” [pári √mr̥ś] 3/7). And the two middle verses, 5–6, the omphalos proper, point to the hymn’s cryptic message—the creative power of poetry and of the knowledge and control of words, especially names.
Varuṇa’s later association with the waters is evident in several hints in the hymn: his closeness to the rivers in 2d, who are also his seven sisters in 2e and the seven over which he has control in 9e, and his identification as “a secret sea” in 8a. The waters may well be the referents of the unidentified feminine plurals in 7a and 8c.
Much remains unclear in this hymn, however, and we do not claim to have pen etrated all its many mysteries. One of the most obvious, but perhaps least interest ing, puzzles is the relevance of the jaunty and bloodthirsty Nābhāka refrain to the high-minded and solemn contents of the hymn.

Jamison Brereton Notes

Varuṇa

01 अस्मा ऊ - महापङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒स्मा ऊ॒ षु प्रभू॑तये॒
वरु॑णाय म॒रुद्भ्यो
ऽर्चा॑ वि॒दुष्-ट॑रेभ्यः(=विद्वत्तरेभ्यः)
यो धी॒ता(=चिन्तिता) मानु॑षाणां
प॒श्वो गा इ॑व॒ रक्ष॑ति॒
नभ॑न्ताम्(←हिंसायाम्) अन्य॒के स॑मे ॥

02 तमू षु - महापङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

तमू॒ षु स॑म॒ना गि॒रा पि॑तॄ॒णां च॒ मन्म॑भिः ।
ना॒भा॒कस्य॒ प्रश॑स्तिभि॒र्यः सिन्धू॑ना॒मुपो॑द॒ये स॒प्तस्व॑सा॒ स म॑ध्य॒मो नभ॑न्तामन्य॒के स॑मे ॥

03 स क्षपः - महापङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

स क्षपः॒ परि॑ षस्वजे॒ न्यु१॒॑स्रो मा॒यया॑ दधे॒ स विश्वं॒ परि॑ दर्श॒तः ।
तस्य॒ वेनी॒रनु॑ व्र॒तमु॒षस्ति॒स्रो अ॑वर्धय॒न्नभ॑न्तामन्य॒के स॑मे ॥

04 यः ककुभो - महापङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

यः क॒कुभो॑ निधार॒यः पृ॑थि॒व्यामधि॑ दर्श॒तः ।
स माता॑ पू॒र्व्यं प॒दं तद्वरु॑णस्य॒ सप्त्यं॒ स हि गो॒पा इ॒वेर्यो॒ नभ॑न्तामन्य॒के स॑मे ॥

05 यो धर्ता - महापङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

यो ध॒र्ता भुव॑नानां॒ य उ॒स्राणा॑मपी॒च्या॒३॒॑ वेद॒ नामा॑नि॒ गुह्या॑ ।
स क॒विः काव्या॑ पु॒रु रू॒पं द्यौरि॑व पुष्यति॒ नभ॑न्तामन्य॒के स॑मे ॥

06 यस्मिन्विश्वानि काव्या - महापङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

यस्मि॒न्विश्वा॑नि॒ काव्या॑ च॒क्रे नाभि॑रिव श्रि॒ता ।
त्रि॒तं जू॒ती स॑पर्यत व्र॒जे गावो॒ न सं॒युजे॑ यु॒जे अश्वाँ॑ अयुक्षत॒ नभ॑न्तामन्य॒के स॑मे ॥

07 य आस्वत्क - महापङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

(दिव्यास्व् अप्सु) आ॒स्व् अत्क॑(←अत सातत्यगमने) आ॒शये॒
विश्वा॑ जा॒तान्य् ए॑षाम् ।
परि॒ धामा॑नि॒ मर्मृ॑श॒द्(←मृश्),
वरु॑णस्य पु॒रो गये॒ -
विश्वे॑ दे॒वा अनु॑ व्र॒तं,
नभ॑न्ताम् अन्य॒के स॑मे ॥

08 स समुद्रो - महापङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

स स॑मु॒द्रो अ॑पी॒च्य॑स्तु॒रो द्यामि॑व रोहति॒ नि यदा॑सु॒ यजु॑र्द॒धे ।
स मा॒या अ॒र्चिना॑ प॒दास्तृ॑णा॒न्नाक॒मारु॑ह॒न्नभ॑न्तामन्य॒के स॑मे ॥

09 यस्य श्वेता - महापङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

यस्य॑ श्वे॒ता वि॑चक्ष॒णा (सूर्याचन्द्रमसौ?)
ति॒स्रो भूमी॑र् अधिक्षि॒तः ।
त्रिर् उत्त॑राणि प॒प्रतु॒र्(←पूरणे),
वरु॑णस्य ध्रु॒वं (→ध्रुवतारया) सदः॒,
स स॑प्ता॒नाम् (ऋक्षमण्डलगतानां) इ॑रज्यति॒(=इष्टे)
नभ॑न्ताम् अन्य॒के स॑मे ॥

10 यः श्वेताँ - महापङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

यः श्वे॒ताँ अधि॑निर्णिजश्च॒क्रे कृ॒ष्णाँ अनु॑ व्र॒ता ।
स धाम॑ पू॒र्व्यं म॑मे॒ यः स्क॒म्भेन॒ वि रोद॑सी अ॒जो न द्यामधा॑रय॒न्नभ॑न्तामन्य॒के स॑मे ॥