०४०

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ इन्द्राग्नी युवम् ’ इति द्वादशर्चं दशमं सूक्तं नाभाकस्यार्षम् । द्वितीया षट्पञ्चाशदक्षरा शक्वरी द्वादशी त्रिष्टुप् शिष्टा महापङ्क्तयः । इन्द्राग्नी देवता । तथा चानुक्रान्तम् - ’ इन्द्राग्नी द्वादशैन्द्राग्नं त्रिष्टुबन्तं द्वितीया शक्वरी ’ इति । महाव्रते निष्केवल्ये ऊरुभाग एतत्सूक्तम् । तथा च पञ्चमारण्यके सूत्रितम् - ‘ ऊरू इन्द्राग्नी युवं सु नः ’ (ऐ. आ. ५. ३. १ ) इति । चातुर्विंशिकेऽहनि तृतीयसवने मैत्रावरुणो यदि महावालभिदं शंसेत्तदानीं माध्यंदिनसवने होत्रकाः स्वशस्त्र आरम्भ णीयाभ्य ऊर्ध्वं नाभाकतृचावावपेरन् । तत्र ‘ता हि मध्यम् ’ इत्यच्छावाकस्य नाभाकतृचः । सूत्रितं च – ता हि मध्यं भराणामित्यच्छावाकः’ (आश्व. श्रौ. ७. २) इति । चातुर्विंशिकेऽहनि माध्यंदिनसवने ब्राह्मणाच्छंसिनः ‘ पूर्वीष्ट इन्द्र ’ इति नाभाकतृचः। सूत्रितं च - ’ पूर्वीष्ट इन्द्रोपमातय इति ब्राह्मणाच्छंसी ’ (आश्व. श्रौ. ७. २) इति ॥

Jamison Brereton

40 (660)
Indra and Agni
Nābhāka Kāṇva
12 verses: mahāpaṅkti, except śakvarī 2 and triṣṭubh 12
Unlike many Indra and Agni hymns, in this one the two divinities achieve some measure of independence, with the more significant role falling to Indra, who is mentioned alone in several verses, in part or wholly (2, 5, 6, 9, 10). Much of the content is martial, appropriate to Indra, and also more appropriate to the Nābhāka refrain than any other of the Nābhāka hymns. The freeing and winning of the waters is celebrated several times (vss. 5, 8, 10/11). There are several paired verses: 4 and 5 where Nābhāka is mentioned by name, and 10/11, the first to Indra, the sec
ond, almost identical, to Agni. The hymn ends with a verse in a different meter, without the refrain, that summarizes the hymn that precedes, as is often the case.

Jamison Brereton Notes

Indra and Agni

01 इन्द्राग्नी युवम् - महापङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

इ᳓न्द्रअग्नी युवं᳓ सु᳓ नः
स᳓हन्ता दा᳓सथो रयि᳓म्
ये᳓न दॄळ्हा᳓+ सम᳓त्सु आ᳓
वीळु᳓ चित् साहिषीम᳓हि
अग्नि᳓र् व᳓नेव वा᳓त इ᳓न्
न᳓भन्ताम् अन्यके᳓ समे

02 नहि वाम् - शक्वरी

विश्वास-प्रस्तुतिः ...{Loading}...

नहि᳓ वां वव्र᳓यामहे᳓
अथे᳓न्द्रम् इ᳓द् यजामहे
श᳓विष्ठं नॄणां᳐᳓+ न᳓रम्
स᳓ नः कदा᳓ चिद् अ᳓र्वता
ग᳓मद् आ᳓ वा᳓जसातये
ग᳓मद् आ᳓ मेध᳓सातये
न᳓भन्ताम् अन्यके᳓ समे

03 ता हि - महापङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

ता᳓ हि᳓ म᳓ध्यम् भ᳓राणा᳐म्
इन्द्रअग्नी᳓ अधिक्षितः᳓
ता᳓ उ कवित्वना᳓ कवी᳓
पृछ्य᳓माना सखीयते᳓
सं᳓ धीत᳓म् अश्नुतं नरा
न᳓भन्ताम् अन्यके᳓ समे

04 अभ्यर्च नभाकवदिन्द्राग्नी - महापङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

अभि᳓ अर्च नभाकव᳓द्
इन्द्राग्नी᳓ यज᳓सा गिरा᳓
य᳓योर् वि᳓श्वम् इदं᳓ ज᳓गद्
इयं᳓ द्यउः᳓ पृथिवी᳓ मही᳓
उप᳓स्थे बिभृतो᳓ व᳓सु
न᳓भन्ताम् अन्यके᳓ समे

05 प्र ब्रह्माणि - महापङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓ ब्र᳓ह्माणि नभाकव᳓द्
इन्द्राग्नि᳓भ्याम् इरज्यत
या᳓ सप्त᳓बुध्नम् अर्णवं᳓
जिह्म᳓बारम् अपोर्णुत᳓
इ᳓न्द्र ई᳓शान ओ᳓जसा
न᳓भन्ताम् अन्यके᳓ समे

06 अपि वृश्च - महापङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓पि वृश्च पुराणव᳓द्
व्रत᳓तेर् इव गुष्पित᳓म्
ओ᳓जो दास᳓स्य दम्भय
वयं᳓ त᳓द् अस्य स᳓म्भृतं
व᳓सु इ᳓न्द्रेण वि᳓ भजेमहि
न᳓भन्ताम् अन्यके᳓ समे

07 यदिन्द्राग्नी जना - महापङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓द् इन्द्राग्नी᳓ ज᳓ना इमे᳓
विह्व᳓यन्ते त᳓ना गिरा᳓
अस्मा᳓केभिर् नृ᳓भिर् वयं᳓
सासह्या᳓म पृतन्यतो᳓
वनुया᳓म वनुष्यतो᳓
न᳓भन्ताम् अन्यके᳓ समे

08 या नु - महापङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

या᳓ नु᳓ श्वेता᳓व् अवो᳓ दिव᳓
उच्च᳓रात उ᳓प द्यु᳓भिः
इन्द्राग्नियो᳓र् अ᳓नु व्रत᳓म्
उ᳓हाना यन्ति सि᳓न्धवो
या᳓न् सीम् बन्धा᳓द् अ᳓मुञ्चतां
न᳓भन्ताम् अन्यके᳓ समे

09 पूर्विष्थ इन्द्रोपमातयः - महापङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

पूर्वी᳓ष् ट इन्द्रो᳓पमातयः
पूर्वी᳓र् उत᳓ प्र᳓शस्तयः
सू᳓नो हिन्व᳓स्य हरिवः
व᳓स्वो वीर᳓स्य अपृ᳓चो
या᳓ नु᳓ सा᳓धन्त नो धि᳓यो
न᳓भन्ताम् अन्यके᳓ समे

10 तं शिशीता - महापङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

तं᳓ शिशीता सुवृक्ति᳓भिस्
त्वेषं᳓ स᳓त्वानम् ऋग्मि᳓यम्
उतो᳓ नु᳓ चिद् य᳓ ओ᳓जसा
शु᳓ष्णस्याण्डा᳓नि भे᳓दति
जे᳓षत् सु᳓वर्वतीर् अपो᳓
न᳓भन्ताम् अन्यके᳓ समे

11 तं शिशीता - महापङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

तं᳓ शिशीता सुअध्वरं᳓
सत्यं᳓ स᳓त्वानम् ऋत्वि᳓यम्
उतो᳓ नु᳓ चिद् य᳓ ओ᳓हत
आण्डा᳓ शु᳓ष्णस्य भे᳓दति
अ᳓जैः सु᳓वर्वतीर् अपो᳓
न᳓भन्ताम् अन्यके᳓ समे

12 एवेन्द्राग्निभ्यां पितृवन्नवीयो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

एवे᳓न्द्राग्नि᳓भ्याम् पितृव᳓न् न᳓वीयो
मन्धातृव᳓द् अङ्गिरस्व᳓द् अवाचि
त्रिधा᳓तुना श᳓र्मणा पातम् अस्मा᳓न्
वयं᳓ सियाम प᳓तयो रयीणा᳓म्