०३९

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘अग्निमस्तोषि’ इति दशर्चं नवमं सूतं काण्वस्य नाभाकस्यार्षम् । षडष्टका महापङ्क्तिश्छन्दः । अग्निर्देवता । अनुक्रान्तं च–’ अग्निमस्तोषि नाभाक आग्नेयं महापाङ्क्तं हि ’ इति । विनियोगो लैङ्गिकः ।।

Jamison Brereton

39 (659)
Agni
Nābhāka Kāṇva
10 verses: mahāpaṅkti
Agni’s role as messenger between heaven and earth and as mediator between gods and men is particularly emphasized in this hymn. And, in addition to his usual ritual role, his identity as poet is also mentioned several times (see esp. vss. 1, 7, 9). The hymn

contains an example of the well-known trope of “pouring prayers” (vs. 3), and in the middle of the hymn we find a pun on one of Agni’s standard epithets Jāta-vedas, in verse 6 where it is said that he “knows” (veda) the “races” (jātā́) of gods and men.
The hymn in general has a benign tone and high discourse level, and so the flip pantly bloodthirsty refrain rests oddly in it. Only in verse 2 does it fit the contents, and even there the linguistic register is quite distinct between the verse proper and the refrain.
The poet handles the six-pāda structure of the mahāpaṅkti flexibly. The last pāda of each verse is the Nabhāka refrain. Otherwise the first two pādas (ab) and the fourth and fifth (de) pādas each group together, while the third pāda (c) belongs sometimes with ab (generally in the first part of the hymn) and sometimes with de (toward the end, vss. 7–9).

Jamison Brereton Notes

Agni

01 अग्निमस्तोष्यृग्मियमग्निमीळा यजध्यै - महापङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

अग्नि᳓म् अस्तोषि ऋग्मि᳓यम्
अग्नि᳓म् ईळा᳓ यज᳓धियै
अग्नि᳓र् देवाँ᳓ अनक्तु न
उभे᳓ हि᳓ विद᳓थे कवि᳓र्
अन्त᳓श् च᳓रति दूति᳓यं
न᳓भन्ताम् अन्यके᳓ समे

02 न्यग्ने नव्यसा - महापङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

नि᳓ अग्ने न᳓व्यसा व᳓चस्
तनू᳓षु शं᳓सम् एषा᳐म्
नि᳓ अ᳓राती र᳓रावणां†
वि᳓श्वा अर्यो᳓ अ᳓राती᳐र्
इतो᳓ युछन्तु आमु᳓रो
न᳓भन्ताम् अन्यके᳓ समे

03 अग्ने मन्मानि - महापङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓ग्ने म᳓न्मानि तु᳓भ्य° कं᳓
घृतं᳓ न᳓ जुह्व आस᳓नि
स᳓ देवे᳓षु प्र᳓ चिकिद्धि
तुवं᳓ हि᳓ अ᳓सि पूर्वियः᳓
शिवो᳓ दूतो᳓ विव᳓स्वतो
न᳓भन्ताम् अन्यके᳓ समे

04 तत्तदग्निर्वयो दधे - महापङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

त᳓त्-तद् अग्नि᳓र् व᳓यो दधे
य᳓था-यथा कृपण्य᳓ति
ऊर्जा᳓हुतिर् व᳓सूनां᳐
शं᳓ च यो᳓श् च म᳓यो दधे
वि᳓श्वस्यै देव᳓हूतियै
न᳓भन्ताम् अन्यके᳓ समे

05 स चिकेत - महापङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓ चिकेत स᳓हीयसा
अग्नि᳓श् चित्रे᳓ण क᳓र्मणा
स᳓ हो᳓ता श᳓श्वतीनां᳐
द᳓क्षिणाभिर् अभी᳓वृत
इनो᳓ति च प्रतीवि᳓यं
न᳓भन्ताम् अन्यके᳓ समे

06 अग्निर्जाता देवानामग्निर्वेद - महापङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

अग्नि᳓र् जाता᳓ देवा᳓ना᳐म्
अग्नि᳓र् वेद म᳓र्तिआनाम्° अपीचि᳓यम्
अग्निः᳓ स᳓ द्रविणोदा᳐᳓
अग्नि᳓र् द्वा᳓रा वि᳓ ऊर्णुते
सु᳓आहुतो न᳓वीयसा
न᳓भन्ताम् अन्यके᳓ समे

07 अग्निर्देवेषु संवसुः - महापङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

अग्नि᳓र् देवे᳓षु सं᳓वसुः
स᳓ विक्षु᳓ यज्ञि᳓यासु आ᳓
स᳓ मुदा᳓ का᳓विया पुरु᳓
वि᳓श्वम् भू᳓मेव पुष्यति
देवो᳓ देवे᳓षु यज्ञि᳓यो
न᳓भन्ताम् अन्यके᳓ समे

08 यो अग्निः - महापङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

यो᳓ अग्निः᳓ सप्त᳓मानुषः
श्रितो᳓ वि᳓श्वेषु सि᳓न्धुषु
त᳓म् आ᳓गन्म त्रिपस्तिय᳓म्
मन्धातु᳓र् दस्युह᳓न्तमम्
अग्निं᳓ यज्ञे᳓षु पूर्वियं᳓
न᳓भन्ताम् अन्यके᳓ समे

09 अग्निस्त्रीणि त्रिधातून्या - महापङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

अग्नि᳓स् त्री᳓णि त्रिधा᳓तूनि
आ᳓ क्षेति विद᳓था कविः᳓
स᳓ त्रीँ᳓र् एकादशाँ᳓ इह᳓
य᳓क्षच् च पिप्र᳓यच् च नो
वि᳓प्रो दूतः᳓ प᳓रिष्कृतो
न᳓भन्ताम् अन्यके᳓ समे

10 त्वं नो - महापङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

तुअं᳓ नो अग्न आयु᳓षु
तुअं᳓ देवे᳓षु पूर्विअ
व᳓स्व ए᳓क इरज्यसि
तुआ᳓म् आ᳓पः परिस्रु᳓तः
प᳓रि यन्ति स्व᳓सेतवो
न᳓भन्ताम् अन्यके᳓ समे