०३८

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘यज्ञस्य हि’ इति दशर्चमष्टमं सूक्तं श्यावाश्वस्यार्षं प्राग्वत्सप्रपरिभाषया गायत्रमिन्द्राग्निदेवताकम् । तथा चानुक्रान्तं - यज्ञस्य दशैन्द्राग्नम् ’ इति । पृष्ठ्याभिप्लवषडहयोः प्रातःसवनेऽच्छावाकशस्त्र आवापार्थमेतत्सूक्तम् । सूत्रितं च – यज्ञस्य हि स्थ इत्यच्छावाकस्य ’ ( आश्व. श्रौ. ७.५) इति । चातुर्विंशिकेऽहनि प्रातःसवने यज्ञस्य हि स्थः’ इति षळहस्तोत्रियसंज्ञकस्तृचः । सूत्रितं च - ’ इन्द्राग्नी युवामिमे यज्ञस्य हि ऋत्विजेत्यच्छावाकस्य ’ ( आश्व. श्रौ. ७. २ ) इति । अग्निष्टोमे प्रातःसवनेऽच्छावाकस्य ‘प्रातर्यावभिः’ इति प्रातःसवनीयस्य प्रस्थितयाज्या । सूत्रितं च – प्रातर्यावभिरिति यजति ’ ( आश्व. श्रौ. ५. ७) इति । चातुर्विंशिके प्रातःसवनेऽच्छावाकशस्त्रे ‘ श्यावाश्वस्य ’ इत्ययं पर्यासस्तृचः । अन्यत्राप्यहर्गणेषु द्वितीयादिष्वहःसु । सूत्र्यते हि - श्यावाश्वस्य सुन्वत इति तृचाः पर्यासाः ’ ( आश्व. श्रौ. ७. २ ) इति ॥

Jamison Brereton

38 (658)
Indra and Agni
Śyāvāśva Ātreya
10 verses: gāyatrī, arranged in trcas ̥
This simple hymn is defined by its structure. Each of the three tr̥cas has a differ ent refrain, though each of the refrains begins with the vocative dual dvandva índrāgnī “o Indra and Agni.” The final verse (10) breaks the pattern, though the same dvandva is found, pāda-initial, in the genitive. In content the hymn is entirely devoted to the soma sacrifice and the poet’s invitation to the two gods to come and enjoy it. The poet names himself in verse 9 and summarizes his poetic activity in the past tense. Such a summary is ordinarily found in the absolute final verse of hymns, but here it is capped by the pattern-breaking verse 10.
As often in hymns dedicated jointly to these two gods, who share little in terms of activities and attributes, they are either described in general terms or with epi thets related to one or the other—for example, in verse 1 it is technically only Agni who is a “regular offerer of sacrifice” (r̥tvíj), while Indra is more appropriately the victor in prize contests (vā́jeṣu) than Agni. The third term in that verse, kármasu “in acts/deeds,” is ambiguous, however, since kárman is regularly used both of the types of heroic deeds associated with Indra and with ritual acts more commonly ascribed to Agni.

Jamison Brereton Notes

Indra and Agni

01 यज्ञस्य हि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

यज्ञ᳓स्य हि᳓ स्थ᳓ ऋत्वि᳓जा
स᳓स्नी वा᳓जेषु क᳓र्मसु
इ᳓न्द्राग्नी त᳓स्य बोधतम्

02 तोशासा रथयावाना - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

तोशा᳓सा रथया᳓वाना
वृत्रह᳓णा᳓पराजिता
इ᳓न्द्राग्नी त᳓स्य बोधतम्

03 इदं वाम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

इदं᳓ वाम् मदिर᳓म् म᳓धु
अ᳓धुक्षन्न् अ᳓द्रिभिर् न᳓रः
इ᳓न्द्राग्नी त᳓स्य बोधतम्

04 जुषेथां यज्ञमिष्थये - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

जुषे᳓थां यज्ञ᳓म् इष्ट᳓ये
सुतं᳓ सो᳓मं सधस्तुती
इ᳓न्द्राग्नी आ᳓ गतं नरा

05 इमा जुषेथाम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

इमा᳓ जुषेथां स᳓वना
ये᳓भिर् हव्या᳓नि ऊह᳓थुः
इ᳓न्द्राग्नी आ᳓ गतं नरा

06 इमां गायत्रवर्तनिम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

इमां᳓ गायत्र᳓वर्तनिं
जुषे᳓थां सुष्टुति᳓म् म᳓म
इ᳓न्द्राग्नी आ᳓ गतं नरा

07 प्रातर्यावभिरा गतम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

प्रातर्या᳓वभिर् आ᳓ गतं
देवे᳓भिर् जेनियावसू
इ᳓न्द्राग्नी सो᳓मपीतये

08 श्यावाश्वस्य सुन्वतोऽत्रीणाम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

श्यावा᳓शुवस्य सुन्वतो᳓
अ᳓त्रीणां शृणुतं ह᳓वम्
इ᳓न्द्राग्नी सो᳓मपीतये

09 एवा वामह्व - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

एवा᳓ वाम् अह्व ऊत᳓ये
य᳓था᳓हुवन्त मे᳓धिराः
इ᳓न्द्राग्नी सो᳓मपीतये

10 आहं सरस्वतीवतोरिन्द्राग्न्योरवो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓हं᳓ स᳓रस्वतीवतोर्
इन्द्राग्नियो᳓र् अ᳓वो वृणे
या᳓भ्यां गायत्र᳓म् ऋच्य᳓ते