०३७

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘प्रेदं ब्रह्म’ इति सप्तर्चं सप्तमं सूक्तमात्रेयस्य श्यावाश्वस्यार्षम् । आद्या द्वापञ्चाशदक्षरातिजगती । शिष्टाः षड़ृचः षडष्टका महापङ्क्तयः । इन्द्रो देवता । तथा चानुक्रान्तं- ‘ प्रेदं महापाङ्क्तमाद्यातिजगती’ इति । महाव्रते निष्केवल्य एतत्सूक्तम् । तथा च सूत्रं - प्रेदं ब्रह्मेन्द्रो मदाय’ (आश्व. श्रौ. ७. १२) इति ।।

Jamison Brereton

37 (657)
Indra
Śyāvāśva Ātreya
7 verses: mahāpaṅkti, except atijagatī 1
For the relationship between this hymn and its twin, VIII.36, see the introduction to the previous hymn. As discussed there, the final verse (7) of this hymn with its reference to kṣatrā́ṇi “lordly powers” (as opposed to the “priestly formulations” of VIII.36.7) puts the hymn in the domain of the kṣatriya varṇa. Unlike the previous hymn, where the brahmanical aspect is muted at best, this hymn does present a kingly and martial profile in the variant material in the first pādas of verses 2–6.

Jamison Brereton Notes

Indra

01 प्रेदं ब्रह्म - अतिजगती

विश्वास-प्रस्तुतिः ...{Loading}...

प्रे᳓द᳓म् ब्र᳓ह्म वृत्रतू᳓र्येषु आविथ
प्र᳓ सुन्वतः᳓ शचीपत
इ᳓न्द्र वि᳓श्वाभिर् ऊति᳓भिः
मा᳓ध्यंदिनस्य स᳓वनस्य वृत्रहन्न् अनेदिय
पि᳓बा सो᳓मस्य वज्रिवः

02 सेहान उग्र - महापङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

सेहान᳓ उग्र पृ᳓तना अभि᳓ द्रु᳓हः शचीपत
इ᳓न्द्र वि᳓श्वाभिर् ऊति᳓भिः
मा᳓ध्यंदिनस्य स᳓वनस्य वृत्रहन्न् अनेदिय
पि᳓बा सो᳓मस्य वज्रिवः

03 एकराळस्य भुवनस्य - महापङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

एकरा᳓ळ् अस्य᳓ भु᳓वनस्य राजसि शचीपत
इ᳓न्द्र वि᳓श्वाभिर् ऊति᳓भिः
मा᳓ध्यंदिनस्य स᳓वनस्य वृत्रहन्न् अनेदिय
पि᳓बा सो᳓मस्य वज्रिवः

04 सस्थावाना यवयसि - महापङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

सस्था᳓वाना यवयसि त्व᳓म् ए᳓क इ᳓च् छचीपत
इ᳓न्द्र वि᳓श्वाभिर् ऊति᳓भिः
मा᳓ध्यंदिनस्य स᳓वनस्य वृत्रहन्न् अनेदिय
पि᳓बा सो᳓मस्य वज्रिवः

05 क्षेमस्य च - महापङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

क्षे᳓मस्य च प्रयु᳓जश् च त्व᳓म् ईशिषे शचीपत
इ᳓न्द्र वि᳓श्वाभिर् ऊति᳓भिः
मा᳓ध्यंदिनस्य स᳓वनस्य वृत्रहन्न् अनेदिय
पि᳓बा सो᳓मस्य वज्रिवः

06 क्षत्राय त्वमवसि - महापङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

क्षत्रा᳓य त्वम् अ᳓वसि न᳓ त्वम् आविथ शचीपत
इ᳓न्द्र वि᳓श्वाभिर् ऊति᳓भिः
मा᳓ध्यंदिनस्य स᳓वनस्य वृत्रहन्न् अनेदिय
पि᳓बा सो᳓मस्य वज्रिवः

07 श्यावाश्वस्य रेभतस्तथा - महापङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

श्यावा᳓शुवस्य रे᳓भतस् त᳓था शृणु
य᳓था᳓शृणोर् अ᳓त्रेः क᳓र्माणि कृण्वतः᳓
प्र᳓ त्रस᳓दस्युम् आविथ त्व᳓म् ए᳓क इ᳓न् नृषा᳓हिय
इ᳓न्द्र क्षत्रा᳓णि वर्ध᳓यन्