०३५

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘अग्निनेन्द्रेण’ इति चतुर्विंशत्यृचं पञ्चमं सूक्तं श्यावाश्वस्यात्रेयस्यार्षम् । अत्रानुक्रमणिका– ‘अग्निना चतुर्विंशतिः श्यावाश्व आश्विनमौपरिष्टाज्ज्योतिषं पङ्क्तिमहाबृहतीपङ्क्त्यन्तम्’ इति । उपरिष्टाज्ज्योतिश्छन्दः। चतुर्थपादस्याष्टाक्षरत्वात् । यतोऽष्टकस्ततो ज्योतिः’ (अनु. ९.८) इति तल्लक्षणम्। द्वाविंशी पङ्क्तिः । त्रयोविंशी महाबृहती ‘चत्वारोऽष्टका जागतश्च महाबृहती ’ ( अनु. ९. ९ ) इत्युक्तलक्षणोपेतत्वात् । चतुर्विंशी पङ्क्तिः । अश्विनौ देवता । अप्तोर्यामे होतुरतिरिक्तोक्थे ’ अग्निनेन्द्रेण ’ इत्येतत्सूक्तम् । सूत्रितं च– अग्निनेन्द्रेणा भात्यग्निः ’ ( आश्व. श्रौ. ९. ११ ) इति ।

Jamison Brereton

35 (655)
Aśvins
Śyāvāśva Ātreya
24 verses: pariṣṭājjyotis, except paṅkti 22, 24 and mahābr̥hatī 24, arranged in trcas. ̥
The Anukramaṇī’s attribution of this hymn to Śyāvāśva is supported by his self-refer ence in verses 19–21 and his reference to his ancestor Atri in verse 19, but the virtuos ity so characteristic of Śyāvāśva’s Marut hymns in Maṇḍala V is not on display here. This long hymn may be one of the most repetitive in the R̥gveda. In the first twenty one verses the c-pāda is identical, and the tr̥cas making up the hymn all have refrains encompassing at least the second half-verse (pādas cd: vss. 1–3; pādas cde: vss. 22–24) and usually the second (b) pāda as well (bcd: vss. 4–6, 7–9, 10–12, 13–15, 16–18, 19–21). This leaves the first (a) pāda as the only locus of variation in each tr̥ca, and even that variation is patterned and under strict control. Moreover, the contents and phraseology of the individual tr̥cas do not differ significantly one from another—urg ing the Aśvins to come to the sacrifice with numerous other gods and to partake of our offerings while providing us with gifts and aid in return. The repetitive structure has an incantatory effect, but it does not challenge the decoding skills of the audience.
The most interesting tr̥ca consists of verses 16–18. As a number of others have pointed out, these three verses, asking the Aśvins to “quicken” or “animate” various things for us, are appropriate to the three varṇas in turn: verse 16 to the brahmin, 17 to the kṣatriya, and 18 to the vaiśya. In fact, verse 16 begins with the word bráhma, while 17 begins with kṣatrám. In 16 we ask for the Aśvins’ aid for ritual and priestly elements, in 17 for elements related to kingly and martial power, and in 18 for our livestock and people. As is well known, the varṇa system is not a prominent feature of the R̥gveda and may well only be taking shape in this period, but this small collec tion of Śyāvāśva hymns displays it clearly—not only in this tr̥ca, but in the next two twinned hymns (36 and 37) with their reference to bráhman and kṣatrá respectively.

Jamison Brereton Notes

Aśvins See the published introduction. for the pattern of repetitions in this very repetitious hymn.

The c pāda of every vs. save for the last three (22-24), “in concert with Dawn and the Sun” (sajóṣasā uṣásā sū́ryeṇa ca), of course refers to the Aśvins’ participation in the dawn sacrifice.

01 अग्निनेन्द्रेण वरुणेन - उपरिष्टाज्ज्योतिः

विश्वास-प्रस्तुतिः ...{Loading}...

अग्नि᳓ने᳓न्द्रेण व᳓रुणेन वि᳓ष्णुना
आदित्यइ᳓ रुद्रइ᳓र् व᳓सुभिः सचाभु᳓वा
सजो᳓षसा उष᳓सा सू᳓रियेण च
सो᳓मम् पिबतम् अश्विना

02 विश्वाभिर्धिभिर्भुवनेन वाजिना - उपरिष्टाज्ज्योतिः

विश्वास-प्रस्तुतिः ...{Loading}...

वि᳓श्वाभिर् धीभि᳓र् भु᳓वनेन वाजिना
दिवा᳓ पृथिव्या᳓ अ᳓द्रिभिः सचाभु᳓वा
सजो᳓षसा उष᳓सा सू᳓रियेण च
सो᳓मम् पिबतम् अश्विना

03 विश्वैर्देवैस्त्रिभिरेकादशैरिहाद्भिर्मरुद्भिभृड़्गुभिः सचाभुवा - उपरिष्टाज्ज्योतिः

विश्वास-प्रस्तुतिः ...{Loading}...

वि᳓श्वैर् देवइ᳓स् त्रिभि᳓र् एकादशइ᳓र् इह᳓
अद्भि᳓र् मरु᳓द्भिर् भृ᳓गुभिः सचाभु᳓वा
सजो᳓षसा उष᳓सा सू᳓रियेण च
सो᳓मम् पिबतम् अश्विना

04 जुषेथां यज्ञम् - उपरिष्टाज्ज्योतिः

विश्वास-प्रस्तुतिः ...{Loading}...

जुषे᳓थां यज्ञ᳓म् बो᳓धतं ह᳓वस्य मे
वि᳓श्वेह᳓ देवौ स᳓वना᳓व गछतम्
सजो᳓षसा उष᳓सा सू᳓रियेण च
इ᳓षं नो वोळ्हम् अश्विना

05 स्तोमं जुषेथाम् - उपरिष्टाज्ज्योतिः

विश्वास-प्रस्तुतिः ...{Loading}...

स्तो᳓मं जुषेथां युवशे᳓व कन्य᳓नां
वि᳓श्वेह᳓ देवौ स᳓वना᳓व गछतम्
सजो᳓षसा उष᳓सा सू᳓रियेण च
इ᳓षं नो वोळ्हम् अश्विना

06 गिरो जुषेथामध्वरम् - उपरिष्टाज्ज्योतिः

विश्वास-प्रस्तुतिः ...{Loading}...

गि᳓रो जुषेथाम् अध्वरं᳓ जुषेथां᳐
वि᳓श्वेह᳓ देवौ स᳓वना᳓व गछतम्
सजो᳓षसा उष᳓सा सू᳓रियेण च
इ᳓षं नो वोळ्हम् अश्विना

07 हारिद्रवेव पतथो - उपरिष्टाज्ज्योतिः

विश्वास-प्रस्तुतिः ...{Loading}...

हारिद्रवे᳓व पतथो व᳓ने᳓द् उ᳓प
सो᳓मं सुत᳓म् महिषे᳓वा᳓व गछथः
सजो᳓षसा उष᳓सा सू᳓रियेण च
त्रि᳓र् वर्ति᳓र् यातम् अश्विना

08 हंसाविव पतथो - उपरिष्टाज्ज्योतिः

विश्वास-प्रस्तुतिः ...{Loading}...

हंसा᳓व् इव पतथो अध्वगा᳓व् इव
सो᳓मं सुत᳓म् महिषे᳓वा᳓व गछथः
सजो᳓षसा उष᳓सा सू᳓रियेण च
त्रि᳓र् वर्ति᳓र् यातम् अश्विना

09 श्येनाविव पतथो - उपरिष्टाज्ज्योतिः

विश्वास-प्रस्तुतिः ...{Loading}...

श्येना᳓व् इव पतथो हव्य᳓दातये
सो᳓मं सुत᳓म् महिषे᳓वा᳓व गछथः
सजो᳓षसा उष᳓सा सू᳓रियेण च
त्रि᳓र् वर्ति᳓र् यातम् अश्विना

10 पिबतं च - उपरिष्टाज्ज्योतिः

विश्वास-प्रस्तुतिः ...{Loading}...

पि᳓बतं च तृप्णुतं᳓ चा᳓ च गछतम्
प्रजां᳓ च धत्तं᳓ द्र᳓विणं च धत्तम्
सजो᳓षसा उष᳓सा सू᳓रियेण च
ऊ᳓र्जं नो धत्तम् अश्विना

11 जयतं च - उपरिष्टाज्ज्योतिः

विश्वास-प्रस्तुतिः ...{Loading}...

ज᳓यतं च प्र᳓ स्तुतं च प्र᳓ चावतम्
प्रजां᳓ च धत्तं᳓ द्र᳓विणं च धत्तम्
सजो᳓षसा उष᳓सा सू᳓रियेण च
ऊ᳓र्जं नो धत्तम् अश्विना

12 हतं च - उपरिष्टाज्ज्योतिः

विश्वास-प्रस्तुतिः ...{Loading}...

हतं᳓ च श᳓त्रून् य᳓ततं च मित्रि᳓णः
प्रजां᳓ च धत्तं᳓ द्र᳓विणं च धत्तम्
सजो᳓षसा उष᳓सा सू᳓रियेण च
ऊ᳓र्जं नो धत्तम् अश्विना

13 मित्रावरुणवन्ता उत - उपरिष्टाज्ज्योतिः

विश्वास-प्रस्तुतिः ...{Loading}...

मित्रा᳓व᳓रुणवन्ता उत᳓ ध᳓र्मवन्ता
मरु᳓त्वन्ता जरितु᳓र् गछथो ह᳓वम्
सजो᳓षसा उष᳓सा सू᳓रियेण च
आदित्यइ᳓र् यातम् अश्विना

14 अङ्गिरस्वन्ता उत - उपरिष्टाज्ज्योतिः

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓ङ्गिरस्वन्ता उत᳓ वि᳓ष्णुवन्ता
मरु᳓त्वन्ता जरितु᳓र् गछथो ह᳓वम्
सजो᳓षसा उष᳓सा सू᳓रियेण च
आदित्यइ᳓र् यातम् अश्विना

15 ऋभुमन्ता वृषणा - उपरिष्टाज्ज्योतिः

विश्वास-प्रस्तुतिः ...{Loading}...

ऋभुम᳓न्ता वृषणा वा᳓जवन्ता
मरु᳓त्वन्ता जरितु᳓र् गछथो ह᳓वम्
सजो᳓षसा उष᳓सा सू᳓रियेण च
आदित्यइ᳓र् यातम् अश्विना

16 ब्रह्म जिन्वतमुत - उपरिष्टाज्ज्योतिः

विश्वास-प्रस्तुतिः ...{Loading}...

ब्र᳓ह्म जिन्वतम् उत᳓ जिन्वतं धि᳓यो
हतं᳓ र᳓क्षांसि से᳓धतम् अ᳓मीवाः
सजो᳓षसा उष᳓सा सू᳓रियेण च
सो᳓मं सुन्वतो᳓ अश्विना

17 क्षत्रं जिन्वतमुत - उपरिष्टाज्ज्योतिः

विश्वास-प्रस्तुतिः ...{Loading}...

क्षत्रं᳓ जिन्वतम् उत᳓ जिन्वतं नॄ᳓न्
हतं᳓ र᳓क्षांसि से᳓धतम् अ᳓मीवाः
सजो᳓षसा उष᳓सा सू᳓रियेण च
सो᳓मं सुन्वतो᳓ अश्विना

18 धेनूर्जिन्वतमुत जिन्वतम् - उपरिष्टाज्ज्योतिः

विश्वास-प्रस्तुतिः ...{Loading}...

धेनू᳓र् जिन्वतम् उत᳓ जिन्वतं वि᳓शो
हतं᳓ र᳓क्षांसि से᳓धतम् अ᳓मीवाः
सजो᳓षसा उष᳓सा सू᳓रियेण च
सो᳓मं सुन्वतो᳓ अश्विना

19 अत्रेरिव शृणुतम् - उपरिष्टाज्ज्योतिः

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓त्रेर् इव शृणुतम् पूर्विय᳓स्तुतिं
श्यावा᳓शुवस्य सुन्वतो᳓ मदच्युता
सजो᳓षसा उष᳓सा सू᳓रियेन च
अ᳓श्विना तिरो᳓अह्नियम्

20 सर्गाँ इव - उपरिष्टाज्ज्योतिः

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓र्गाँ इव सृजतं सुष्टुती᳓र् उ᳓प
श्यावा᳓शुवस्य सुन्वतो᳓ मदच्युता
सजो᳓षसा उष᳓सा सू᳓रियेण च
अ᳓श्विना तिरो᳓अह्नियम्

21 रश्मीँरिव यच्छतमध्वराँ - उपरिष्टाज्ज्योतिः

विश्वास-प्रस्तुतिः ...{Loading}...

रश्मीँ᳓र् इव यछतम् अध्वराँ᳓ उ᳓प
श्यावा᳓शुवस्य सुन्वतो᳓ मदच्युता
सजो᳓षसा उष᳓सा सू᳓रियेण च
अ᳓श्विना तिरो᳓अह्नियम्

22 अर्वाग्रथं नि - पङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

अर्वा᳓ग् र᳓थं नि᳓ यछतम्
पि᳓बतं सोमिय᳓म् म᳓धु
आ᳓ यातम् अश्विना᳓ गतम्
अवस्यु᳓र् वाम् अहं᳓ हुवे
धत्तं᳓ र᳓त्नानि दाशु᳓षे

23 नमोवाके प्रस्थिते - महाबृहती

विश्वास-प्रस्तुतिः ...{Loading}...

नमोवाके᳓ प्र᳓स्थिते अध्वरे᳓ नरा
विव᳓क्षणस्य पीत᳓ये
आ᳓ यातम् अश्विना᳓ गतम्
अवस्यु᳓र् वाम् अहं᳓ हुवे
धत्तं᳓ र᳓त्नानि दाशु᳓षे

24 स्वाहाकृतस्य तृम्पतम् - पङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

स्वा᳓हाकृतस्य तृम्पतं
सुत᳓स्य देवाव् अ᳓न्धसः
आ᳓ यातम् अश्विना᳓ गतम्
अवस्यु᳓र् वाम् अहं᳓ हुवे
धत्तं᳓ र᳓त्नानि दाशु᳓षे