०३२

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

।। श्रीगणेशाय नमः ।।

यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।

निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥

अथ षष्ठस्य तृतीयोऽध्याय आरभ्यते । प्र कृतानि ’ इति त्रिंशदृचं द्वितीयं सूक्तम् । तत्रेयमनुक्रमणिका— ‘प्र कृतानि त्रिंशन्मेधातिथिः’ इति । काण्वो मेधातिथिर्ऋषिः । ‘ परं गायत्रं प्राग्वत्सप्रेः’ इति परिभाषया गायत्री छन्दः । अनादेशपरिभाषयेन्द्रो देवता । महाव्रते निष्केवल्ये गायत्रतृचाशीतावेतत्सूक्तम् । तथैव पञ्चमारण्यके शौनकेन सूत्रितं - प्र कृतान्यृजीषिण आ घा ये अग्निमिन्धते ’ ( ऐ. आ. ५. २. ३ ) इति । अतिरात्रे प्रथमे पर्याये मैत्रावरुणशस्त्रे ‘ प्र कृतानि ’ इति तृचोऽनुरूपः । सूत्रितं च - प्र व इन्द्राय मादनं’ प्र कृतान्यृजीषिणः’ (आश्व. श्रौ. ६. ४ ) इति । तस्मिन्नेव शस्त्रे प्रति श्रुताय’ इत्याद्याः पञ्चदशर्चः । सूत्र्यते हि- ‘ प्रति श्रुताय वो धृषदिति पञ्चदश’ ( आश्व श्रौ. ६. ४ ) इति । दशमेऽहनि प्रातःसवनेऽच्छावाकवादे पत्नीयजमानस्थाने ‘ प्रति श्रुताय ’ इति तृचः । सूत्रितं च— प्रति श्रुताय वो धृषदिति तृचौ ’ ( आश्व. श्रौ. ८. १२) इति । अहीनान्तर्गतस्यातिरात्रस्य प्रथमे पर्याये होतुः ‘पन्य इदुप गायत’ इत्यनुरूपः ॥

Jamison Brereton

32 (652)
Indra
Medhātithi Kāṇva
30 verses: gāyatrī, arranged for the most part in trcas ̥
The hymn begins with a call to the Kaṇva poets to praise Indra’s great deeds, and the next two verses (2–3) provide a quick catalogue of Indra’s victories over several of his lesser known opponents. This theme, with some of the same names/epithets, returns at the end of the hymn (esp. vss. 25–27). In between we find the usual twin exhortations to Indra—to come to our soma sacrifice (rather than that of others; see esp. vss. 21–22) and to give us wealth and aid. The reciprocal obligation of the sacrificers and the recipient of sacrifice is nicely expressed in verse 16, where Indra’s debt to (other) sacrificers has been discharged by his countergift.
There is nothing of particular note in this hymn, though it is nicely executed. It also contains several hapaxes and words with apparently non-Indo-Aryan phonol ogy, especially toward the beginning, that give it a slightly exotic air.
The internal structure of the hymn is not entirely clear. We follow Oldenberg’s analysis, whereby the hymn consists of tr̥cas plus a final verse (30) save for verses 19–20, which form an incomplete tr̥ca with perhaps a verse missing. However, the tr̥cas thus identified show little internal unity.1094 VIII.32

Jamison Brereton Notes

Indra

01 प्र कृतान्यृजीषिणः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓ कृता᳓नि ऋजीषि᳓णः
क᳓ण्वा इ᳓न्द्रस्य गा᳓थया
म᳓दे सो᳓मस्य वोचत

02 यः सृबिन्दमनर्शनिम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

यः᳓ सृ᳓बिन्दम् अ᳓नर्शनिम्
पि᳓प्रुं दास᳓म् अहीशु᳓वम्
व᳓धीद् उग्रो᳓ रिण᳓न्न् अपः᳓

03 न्यर्बुदस्य विष्थपम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

नि᳓ अ᳓र्बुदस्य विष्ट᳓पं
वर्ष्मा᳓णम् बृहत᳓स् तिर
कृषे᳓ त᳓द् इन्द्र पउं᳓सियम्

04 प्रति श्रुताय - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓ति श्रुता᳓य वो धृष᳓त्
तू᳓र्णाशं न᳓ गिरे᳓र् अ᳓धि
हुवे᳓ सुशिप्र᳓म् ऊत᳓ये

05 स गोरश्वस्य - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓ गो᳓र् अ᳓श्वस्य वि᳓ व्रज᳓म्
मन्दानः᳓ सोमिये᳓भियः
पु᳓रं न᳓ शूर दर्षसि

06 यदि मे - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓दि मे रार᳓णः सुत᳓
उक्थे᳓ वा द᳓धसे च᳓नः
आरा᳓द् उ᳓प स्वधा᳓ गहि

07 वयं घा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

वयं᳓ घा ते अ᳓पि ष्मसि
स्तोता᳓र इन्द्र गिर्वणः
तुवं᳓ नो जिन्व सोमपाः

08 उत नः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

उत᳓ नः पितु᳓म् आ᳓ भर
संरराणो᳓ अ᳓विक्षितम्
म᳓घवन् भू᳓रि ते व᳓सु

09 उत नो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

उत᳓ नो गो᳓मतस् कृधि
हि᳓रण्यवतो अश्वि᳓नः
इ᳓ळाभिः सं᳓ रभेमहि

10 बृबदुक्थं हवामहे - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

बृब᳓दुक्थं हवामहे
सृप्र᳓करस्नम् ऊत᳓ये
सा᳓धु कृण्व᳓न्तम् अ᳓वसे

11 यः संस्थे - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

यः᳓ संस्थे᳓ चिच् छत᳓क्रतुर्
आ᳓द् ईं कृणो᳓ति वृत्रहा᳓
जरितृ᳓भ्यः पुरूव᳓सुः

12 स नः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓ नः शक्र᳓श् चिद् आ᳓ शकद्
दा᳓नवाँ अन्तराभरः᳓
इ᳓न्द्रो वि᳓श्वाभिर् ऊति᳓भिः

13 यो रायोथ्ऽवनिर्महान्त्सुपारः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

यो᳓ रायो᳓ अव᳓निर् महा᳓न्
सुपारः᳓ सुन्वतः᳓ स᳓खा
त᳓म् इ᳓न्द्रम् अभि᳓ गायत

14 आयन्तारं महि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

आयन्ता᳓रम् म᳓हि स्थिर᳓म्
पृ᳓तनासु श्रवोजि᳓तम्
भू᳓रेर् ई᳓शानम् ओ᳓जसा

15 नकिरस्य शचीनाम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

न᳓किर् अस्य श᳓चीनां᳐
नियन्ता᳓ सूनृ᳓ताना᳐म्
न᳓किर् वक्ता᳓ न᳓ दाद् इ᳓ति

16 न नूनम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

न᳓ नून᳓म् ब्रह्म᳓णाम् ऋण᳓म्
प्राशूना᳓म् अस्ति सुन्वता᳓म्
न᳓ सो᳓मो अप्रता᳓ पपे

17 पन्य इदुप - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

प᳓न्य इ᳓द् उ᳓प गायत
प᳓न्य उक्था᳓नि शंसत
ब्र᳓ह्मा कृणोत प᳓न्य इ᳓त्

18 पन्य आ - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

प᳓न्य आ᳓ दर्दिरच् छता᳓
सह᳓स्रा वाजी᳓ अ᳓वृतः
इ᳓न्द्रो यो᳓ य᳓ज्वनो वृधः᳓

19 वि षू - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

वि᳓ षू᳓ चर स्वधा᳓ अ᳓नु
कृष्टीना᳓म् अ᳓नु आहु᳓वः
इ᳓न्द्र पि᳓ब सुता᳓ना᳐म्

20 पिब स्वधैनवानामुत - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

पि᳓ब स्व᳓धैनवाना᳐म्
उत᳓ य᳓स् तु᳓ग्रिये स᳓चा
उता᳓य᳓म् इन्द्र य᳓स् त᳓व

21 अतीहि मन्युषाविणम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓तीहि मन्युषावि᳓णं
सुषुवां᳓सम् उपा᳓रणे
इमं᳓ रातं᳓ सुत᳓म् पिब

22 इहि तिस्रः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

इहि᳓ तिस्रः᳓ पराव᳓त
इहि᳓ प᳓ञ्च ज᳓नाँ अ᳓ति
धे᳓ना इन्द्रावचा᳓कशत्

23 सूर्यो रश्मिम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

सू᳓र्यो रश्मिं᳓ य᳓था सृज
आ᳓ त्वा यछन्तु मे गि᳓रः
निम्न᳓म् आ᳓पो न᳓ सध्रि᳓अक्

24 अध्वर्यवा तु - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓ध्वर्यव् आ᳓ तु᳓ हि᳓ षिञ्च᳓
सो᳓मं वीरा᳓य शिप्रि᳓णे
भ᳓रा सुत᳓स्य पीत᳓ये

25 य उद्नः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓ उद्नः᳓ फलिग᳓म् भिन᳓न्
नि᳓अक् सि᳓न्धूँर् अवा᳓सृजत्
यो᳓ गो᳓षु पक्वं᳓ धार᳓यत्

26 अहन्वृत्रमृचीषम और्णवाभमहीशुवम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓हन् वृत्र᳓म् ऋ᳓चीषम
और्णवाभ᳓म् अहीशु᳓वम्
हिमे᳓नाविध्यद् अ᳓र्बुदम्

27 प्र व - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓ व उग्रा᳓य निष्टु᳓रे
अ᳓षाळ्हाय प्रसक्षि᳓णे
देव᳓त्तम् ब्र᳓ह्म गायत

28 यो विश्वान्यभि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

यो᳓ वि᳓श्वानि अभि᳓ व्रता᳓
सो᳓मस्य म᳓दे अ᳓न्धसः
इ᳓न्द्रो देवे᳓षु चे᳓तति

29 इह त्या - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

इह᳓ त्या᳓ सधमा᳓दिया
ह᳓री हि᳓रण्यकेशिया
वोळ्हा᳓म् अभि᳓ प्र᳓यो हित᳓म्

30 अर्वाञ्चं त्वा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अर्वा᳓ञ्चं त्वा पुरुष्टुत
प्रिय᳓मेधस्तुता ह᳓री
सोमपे᳓याय वक्षतः