०२६

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘युवोरु षू’ इति पञ्चविंशत्यृचं षष्ठं सूक्तम् । अत्रानुक्रमणिका – ‘युवोः पञ्चाधिका व्यश्वो वाङ्गिरस आश्विनं विंश्याद्या वायव्यास्तत्पूर्वाश्चतस्रो गायत्र्योऽन्यैकविंश्यौ च विंश्यनुष्टुप्’ इति । आङ्गिरसो व्यश्वो वैयश्वो विश्वमना वा ऋषिः । षोडश्याद्याश्चतस्रो गायत्र्यो विंश्यनुष्टुबेकविंशी पञ्चविंशी च गायत्र्यौ शिष्टाः पूर्ववदुष्णिहः । अश्विनौ देवता। विंश्याद्याः पञ्चर्चो वायुदेवताकाः । प्रातरनुवाक आश्विने क्रतौ औष्णिहे छन्दस्याश्विनशस्त्रे चादितः पञ्चदशर्चः । सूत्रितं च – युवोरु षू रथं हुव इति पञ्चदशेत्यौष्णिहम् ’ (आश्व. श्रौ. ४. १५) इति ॥

Jamison Brereton

26 (646)
Aśvins (1–19), Vāyu (20–25)
Viśvamanas Vaiyaśva or Vyaśva Āṅgirasa
25 verses: uṣṇih, except gāyatrī 16–19, 21, 25 and anuṣṭubh 20, arranged in trcas, with ̥ an extra verse, 19, at the end of the Aśvin sequence
A long and rather repetitive hymn. The first nineteen verses are dedicated to the Aśvins and, as usual, urge them to drive their chariot to our sacrifice and to give us goods in return. There is little novel to capture the audience; the most striking image is found in verse 13: the unnamed god Agni, dressed in sacrifices like a bride in her wedding finery.
The final six verses belong to Vāyu, deified Wind, another god associated with the early-morning sacrifice, who receives the first soma drink there. He too is called to make the journey to our sacrifice and reward us for our offerings. He is twice (vss. 21, 22) designated as the son-in-law of Tvaṣṭar, the fashioner god—a somewhat surprising identification, given the tangled marital situation of Tvaṣṭar’s daughter as tantalizingly sketched in X.17.1–2—where Vāyu is not in the picture.

Jamison Brereton Notes

Aśvins and Vāyu

01 युवोरु षू - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

युवो᳓र् उ षू᳓ र᳓थं हुवे
सध᳓स्तुत्याय सूरि᳓षु
अ᳓तूर्तदक्षा वृषणा वृषण्वसू

02 युवं वरो - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

युवं᳓ वरो सुषा᳓मणे
महे᳓ त᳓ने नासतिया
अ᳓वोभिर् याथो वृषणा वृषण्वसू

03 ता वामद्य - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

ता᳓ वाम् अद्य᳓ हवामहे
हव्ये᳓भिर् वाजिनीवसू
पूर्वी᳓र् इष᳓ इष᳓यन्ताव् अ᳓ति क्षपः᳓

04 आ वाम् - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ वां वा᳓हिष्ठो अश्विना
र᳓थो यातु श्रुतो᳓ नरा
उ᳓प स्तो᳓मान् तुर᳓स्य दर्शथः श्रिये᳓

05 जुहुराणा चिदश्विना - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

जुहुराणा᳓ चिद् अश्विना
आ᳓ मन्येथां वृषण्वसू
युवं᳓ हि᳓ रुद्रा प᳓र्षथो अ᳓ति द्वि᳓षः

06 दस्रा हि - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

दस्रा᳓ हि᳓ वि᳓श्वम् आनुष᳓ङ्
मक्षू᳓भिः परिदी᳓यथः
धियंजिन्वा᳓ म᳓धुवर्णा शुभ᳓स् प᳓ती

07 उप नो - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

उ᳓प नो यातम् अश्विना
राया᳓ विश्वपु᳓षा सह᳓
मघ᳓वाना सुवी᳓राव् अ᳓नपच्युता

08 आ मे - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ मे अस्य᳓ प्रतीवि᳓यम्
इ᳓न्द्रनासतिया गतम्
देवा᳓ देवे᳓भिर् अद्य᳓ सच᳓नस्तमा

09 वयं हि - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

वयं᳓ हि᳓ वां ह᳓वामह
उक्षण्य᳓न्तो विअश्वव᳓त्
सुमति᳓भिर् उ᳓प विप्राव् इहा᳓ गतम्

10 अश्विना स्वृषे - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

अश्वि᳓ना सु᳓ ऋषे स्तुहि
कुवि᳓त् ते श्र᳓वतो ह᳓वम्
ने᳓दीयसः कूळयातः पणीँ᳓र् उत᳓

11 वैयश्वस्य श्रुतम् - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

वैयश्व᳓स्य श्रुतं नरा
उतो᳓ मे अस्य᳓ वेदथः
सजो᳓षसा व᳓रुणो मित्रो᳓ अर्यमा᳓

12 युवादत्तस्य धिष्ण्या - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

युवा᳓दत्तस्य धिष्णिया
युवा᳓नीतस्य सूरि᳓भिः
अ᳓हर्-अहर् वृषण म᳓ह्य° शिक्षतम्

13 यो वाम् - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

यो᳓ वां यज्ञे᳓भिर् आ᳓वृतो
अ᳓धिवस्त्रा वधू᳓र् इव
सपर्य᳓न्ता शुभे᳓ चक्राते अश्वि᳓ना

14 यो वामुरुव्यचस्तमम् - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

यो᳓ वाम् उरुव्य᳓चस्तमं
चि᳓केतति नृपा᳓यियम्
वर्ति᳓र् अश्विना प᳓रि यातम् अस्मयू᳓

15 अस्मभ्यं सु - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

अस्म᳓भ्यं सु᳓ वृषण्वसू
यातं᳓ वर्ति᳓र् नृपा᳓यियम्
विषुद्रु᳓हेव यज्ञ᳓म् ऊहथुर् गिरा᳓

16 वाहिष्टो वाम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

वा᳓हिष्ठो वां ह᳓वानां᳐
स्तो᳓मो दूतो᳓ हुवन् नरा
युवा᳓भ्याम् भूतु अश्विना

17 यददो दिवो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓द् अदो᳓ दिवो᳓ अर्णव᳓
इषो᳓ वा म᳓दथो गृहे᳓
श्रुत᳓म् इ᳓न् मे अमर्तिया

18 उत स्या - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

उत᳓ स्या᳓ श्वेतया᳓वरी
वा᳓हिष्ठा वां नदी᳓ना᳐म्
सि᳓न्धुर् हि᳓रण्यवर्तनिः

19 स्मदेतया सुकीर्त्याश्विना - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

स्म᳓द् एत᳓या सुकीर्तिया᳓
अ᳓श्विना श्वेत᳓या धिया᳓
व᳓हेथे शुभ्रयावाना

20 युक्ष्वा हि - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

युक्ष्वा᳓ हि᳓ त्वं᳓ रथास᳓हा
युव᳓स्व पो᳓षिया वसो
आ᳓न् नो वायो म᳓धु पिब
अस्मा᳓कं स᳓वना᳓ गहि

21 तव वायवृतस्पते - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

त᳓व वायव् ऋतस्पते
त्व᳓ष्टुर् जामातर् अद्भुत
अ᳓वांसि आ᳓ वृणीमहे

22 त्वष्थुर्जामातरं वयमीशानम् - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

त्व᳓ष्टुर् जा᳓मातरं वय᳓म्
ई᳓शानं राय᳓ ईमहे
सुता᳓वन्तो वायुं᳓ द्युम्ना᳓ ज᳓नासः

23 वायो याहि - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

वा᳓यो याहि᳓ शिवा᳓ दिवो᳓
व᳓हस्वा सु᳓ सुअ᳓श्वियम्
व᳓हस्व महः᳓ पृथुप᳓क्षसा र᳓थे

24 त्वां हि - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

तुवां᳓ हि᳓ सुप्स᳓रस्तमं
नृष᳓दनेषु हूम᳓हे
ग्रा᳓वाणं न᳓ अ᳓श्वपृष्ठम् मंह᳓ना

25 स त्वम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓ त्वं᳓ नो देव म᳓नसा
वा᳓यो मन्दानो᳓ अग्रियः᳓
कृधि᳓ वा᳓जाँ अपो᳓ धि᳓यः