०२५

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ ता वाम्’ इति चतुर्विंशत्यृचं पञ्चमं सूक्तम् । अत्रेयमनुक्रमणिका-’ ता वां चतुर्विंशतिर्मैत्रावरुणं दशम्याद्यास्तिस्रो वैश्वदेव्य उपान्त्योष्णिग्गर्भा ’ इति । व्यश्वपुत्रो विश्वमना ऋषिः । उष्णिक् छन्दः । उपान्त्या उष्णिग्गर्भा ‘षट्सप्तैकादशा उष्णिग्गर्भा’ (अनु. ४. ३ ) इति तल्लक्षणोपेतत्वात् । दशम्येकादशीद्वादश्यो वैश्वदेव्योऽवशिष्टानां मित्रावरुणौ देवता । सूक्तविनियोगो लैङ्गिकः ॥

Jamison Brereton

25 (645)
Mitra and Varuṇa (1–9, 13–24) and the All Gods (10–12)
Viśvamanas Vaiyaśva
24 verses: uṣṇih, arranged in trcas ̥
The only hymn in Maṇḍala VIII ostensibly devoted to Mitra and Varuṇa, it keeps its focus on these two gods only during the first part of the hymn (vss. 1–9), which celebrates them as sovereign kings possessing the truth. Starting in verse 10 other gods join the group besought for help and protection. In particular the Sun, as a representative of the Ādityas, is the main subject of two tr̥cas (vss. 16–21). The final verses of the hymn (starting with vs. 19) turn their attention to the sacrificial setting. A simile concerning the ritual fire in verse 19 serves as a transition to this scene, and an address to the Sun in verse 21, which introduces the poet’s “benefactors,” likewise produces a transition to the final tr̥ca (vss. 22–24), a dānastuti praising the gift of several horses and a chariot.
Although the thematic structure of the hymn roughly tracks the arrangement in tr̥cas, the tr̥cas do not have strong internal cohesion, and there is relatively little verbal unity within them.

Jamison Brereton Notes

Mitra and Varuṇa

01 ता वाम् - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

ता᳓ वां वि᳓श्वस्य गोपा᳐᳓
देवा᳓ देवे᳓षु यज्ञि᳓या
ऋता᳓वाना यजसे पूत᳓दक्षसा

02 मित्रा तना - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

मित्रा᳓ त᳓ना न᳓ रथि᳓या
व᳓रुणो य᳓श् च सुक्र᳓तुः
सना᳓त् सुजाता᳓ त᳓नया धृत᳓व्रता

03 ता माता - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

ता᳓ माता᳓ विश्व᳓वेदसा
असुर्या᳡य प्र᳓महसा
मही᳓ जजान अ᳓दितिर् ऋता᳓वरी

04 महान्ता मित्रावरुणा - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

महा᳓न्ता मित्रा᳓व᳓रुणा
सम्रा᳓जा देवा᳓व् अ᳓सुरा
ऋता᳓वानाव् ऋत᳓म् आ᳓ घोषतो बृह᳓त्

05 नपाता शवसो - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

न᳓पाता श᳓वसो महः᳓
सूनू᳓ द᳓क्षस्य सुक्र᳓तू
सृप्र᳓दानू इषो᳓ वा᳓स्तु अ᳓धि क्षितः

06 सं या - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

सं᳓ या᳓ दा᳓नूनि येम᳓थुर्
दिवियाः᳓ पा᳓र्थिवीर् इ᳓षः
न᳓भस्वतीर् आ᳓ वां चरन्तु वृष्ट᳓यः

07 अधि या - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓धि या᳓ बृहतो᳓ दिवो᳓
अभि᳓ यूथे᳓व प᳓श्यतः
ऋता᳓वाना सम्रा᳓जा न᳓मसे हिता᳓

08 ऋतावाना नि - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

ऋता᳓वाना नि᳓ षेदतुः
सा᳓म्राजियाय सुक्र᳓तू
धृत᳓व्रता क्षत्रि᳓या क्षत्र᳓म् आशतुः

09 अक्ष्णश्चिद्गातुवित्तरानुल्बणेन चक्षसा - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

अक्ष्ण᳓श् चिद् गातुवि᳓त्तर
अनुल्बणे᳓न च᳓क्षसा
नि᳓ चिन् मिष᳓न्ता निचिरा᳓ नि᳓ चिक्यतुः

10 उत नो - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

उत᳓ नो देवी᳓ अ᳓दितिर्
उरुष्य᳓तां ना᳓सतिया
उरुष्य᳓न्तु मरु᳓तो वृद्ध᳓शवसः

11 ते नो - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

ते᳓ नो नाव᳓म् उरुष्यत
दि᳓वा न᳓क्तं सुदानवः
अ᳓रिष्यन्तो नि᳓ पायु᳓भिः सचेमहि

12 अघ्नते विष्णवे - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓घ्नते वि᳓ष्णवे वय᳓म्
अ᳓रिष्यन्तः सुदा᳓नवे
श्रुधि᳓ स्वयावन् सिन्धो पूर्व᳓चित्तये

13 तद्वार्यं वृणीमहे - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

त᳓द् वा᳓रियं वृणीमहे
व᳓रिष्ठं गोपय᳓तियम्
मित्रो᳓ य᳓त् पा᳓न्ति व᳓रुणो य᳓द् अर्यमा᳓

14 उत नः - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

उत᳓ नः सि᳓न्धुर् अपां᳐᳓
त᳓न् मरु᳓तस् त᳓द् अश्वि᳓ना
इ᳓न्द्रो वि᳓ष्णुर् मीढुवां᳓सः सजो᳓षसः

15 ते हि - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

ते᳓ हि᳓ ष्मा वनु᳓षो न᳓रो
अभि᳓मातिं क᳓यस्य चित्
तिग्मं᳓ न᳓ क्षो᳓दः प्रतिघ्न᳓न्ति भू᳓र्णयः

16 अयमेक इत्था - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

अय᳓म् ए᳓क इत्था᳓ पुरु᳓
उरु᳓ चष्टे वि᳓ विश्प᳓तिः
त᳓स्य व्रता᳓नि अ᳓नु वश् चरामसि

17 अनु पूर्वाण्योक्या - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓नु पू᳓र्वाणि ओकि᳓या
साम्राजिय᳓स्य सश्चिम
मित्र᳓स्य व्रता᳓ व᳓रुणस्य दीर्घश्रु᳓त्

18 परि यो - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

प᳓रि यो᳓ रश्मि᳓ना दिवो᳓
अ᳓न्तान् ममे᳓ पृथिवियाः᳓
उभे᳓ आ᳓ पप्रौ रो᳓दसी महित्वा᳓

19 उदु ष्य - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

उ᳓द् उ ष्य᳓ शरणे᳓ दिवो᳓
ज्यो᳓तिर् अयंस्त सू᳓रियः
अग्नि᳓र् न᳓ शुक्रः᳓ समिधान᳓ आ᳓हुतः

20 वचो दीर्घप्रसद्मनीशे - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

व᳓चो दीर्घ᳓प्रसद्मनि
ई᳓शे वा᳓जस्य गो᳓मतः
ई᳓शे हि᳓ पित्वो᳓ अविष᳓स्य दाव᳓ने

21 तत्सूर्यं रोदसी - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

त᳓त् सू᳓र्यं रो᳓दसी उभे᳓
दोषा᳓ व᳓स्तोर् उ᳓प ब्रुवे
भोजे᳓षु अस्माँ᳓ अभि᳓ उ᳓च् चरा स᳓दा

22 ऋज्रमुक्षण्यायने रजतम् - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

ऋज्र᳓म् उक्षणिया᳓यने
रजतं᳓ ह᳓रयाणे
र᳓थं युक्त᳓म् असनाम सुषा᳓मणि

23 ता मे - उष्णिग्गर्भा

विश्वास-प्रस्तुतिः ...{Loading}...

ता᳓ मे अ᳓श्वियानां᳐
ह᳓रीणां᳐ नितो᳓शना
उतो᳓ नु᳓ कृ᳓त्वियानां᳐ नृवा᳓हसा

24 स्मदभीशू कशावन्ता - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

स्म᳓दभीशू क᳓शावन्ता
वि᳓प्रा न᳓विष्ठया मती᳓
महो᳓ वाजि᳓नाव् अ᳓र्वन्ता स᳓चासनम्