०२४

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘सखाय आ शिषामहि’ इति त्रिंशदृचं चतुर्थं सूक्तम् । अत्रेयमनुक्रमणिका सखायस्तृचोऽन्त्यः सौषाम्णस्य वरोर्दानस्तुतिरन्त्यानुष्टुप् ’ इति । व्यश्वपुत्रो विश्वमना ऋषिः । ‘ औष्णिहं ह’ इत्युक्तत्वादेतदादीनि त्रीणि सूक्तानि उष्णिक्छन्दस्कानि । अनुक्तत्वादिन्द्रो देवता । अन्त्यासु तिसृषु सुषामाख्यस्य राज्ञः पुत्रस्य वरूनाम्नो राज्ञो दानं स्तूयते । अतस्तास्तद्देवताकाः । महाव्रते निष्केवल्ये औष्णिहतृचाशीतावेतत्सूक्तम् । तथैव पञ्चमारण्यके शौनकेन सूत्र्यते – ‘सखाय आ शिषामहि य एक इद्विदयते’ (ऐ. आ. ५. २. ५) इति । दशमेऽहनि मरुस्वतीयशस्त्रे ‘सखायः इति तिस्र ऋचः । सूत्र्यते च – ‘सखाय आ शिषामहीति तिस्र उष्णिहः’ (आश्व.श्रौ. ८.१२) इति ॥

Jamison Brereton

24 (644)
Indra
Viśvamanas Vaiyaśva
30 verses: uṣṇih (except anuṣṭubh 30), arranged in trcas ̥
The first twenty-seven verses of this hymn are dedicated to Indra, while the final tr̥ca (vss. 28–30) is a dānastuti of the patron Varo Suṣāman, with Dawn the divinity addressed because of her association with the distribution of the priestly gift. The first two verses of the dānastuti are unexceptional in diction and tone, but the last verse (30) contains puns and neologisms, as often in dānastutis.
The rest of the hymn contains fairly standard praise of Indra, with special emphasis on his generosity—rā́dhas “generosity” is something of a signature word in the hymn, occurring six times—though his powers do not go unmentioned. The need to praise Indra to stimulate his giving is also a recurrent motif in the hymn, and the poet calls upon both himself (sometimes by name) and his companions to provide that praise (see, e.g., vss. 1, 14, 19, 22–23). Such interactivity was also char
acteristic of the preceding hymn (VIII.23) to Agni.
The hymn consists of tr̥cas, but there is little unity within most of these triplets; instead, there are a number of instances of cross-tr̥ca transitions (see, e.g., vss. 3/4, 6/7, 9/10). The poet also makes considerable use of alliteration and, especially, of pairing derivationally related words. Verse 10 provides a particularly fine example of the latter practice.

Jamison Brereton Notes

Indra

01 सखाय आ - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓खाय आ᳓ शिषामहि
ब्र᳓ह्म इ᳓न्द्राय वज्रि᳓णे
स्तुष᳓ ऊ षु᳓ वो नृ᳓तमाय धृष्ण᳓वे

02 शवसा ह्यसि - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

श᳓वसा हि᳓ अ᳓सि श्रुतो᳓
वृत्रह᳓त्येन वृत्रहा᳓
मघइ᳓र् मघो᳓नो अ᳓ति शूर दाशसि

03 स न - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓ न स्त᳓वान आ᳓ भर
रयिं᳓ चित्र᳓श्रवस्तमम्
निरेके᳓ चिद् यो᳓ हरिवो व᳓सुर् ददिः᳓

04 आ निरेकमुत - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ निरेक᳓म् उत᳓ प्रिय᳓म्
इ᳓न्द्र द᳓र्षि ज᳓नाना᳐म्
धृषता᳓ धृष्णो स्त᳓वमान आ᳓ भर

05 न ते - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

न᳓ ते सव्यं᳓ न᳓ द᳓क्षिणं
ह᳓स्तं वरन्त आमु᳓रः
न᳓ परिबा᳓धो हरिवो ग᳓विष्टिषु

06 आ त्वा - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ त्वा गो᳓भिर् इव व्रजं᳓
गीर्भि᳓र् ऋणोमि अद्रिवः
आ᳓ स्मा का᳓मं जरितु᳓र् आ᳓ म᳓नः पृण

07 विश्वानि विश्वमनसो - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

वि᳓श्वानि विश्व᳓मनसो
धिया᳓ नो वृत्रहन्तम
उ᳓ग्र प्रणेतर् अ᳓धि षू᳓ वसो गहि

08 वयं ते - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

वयं᳓ ते अस्य᳓ वृत्रहन्
विद्या᳓म शूर न᳓व्यसः
व᳓सो स्पार्ह᳓स्य पुरुहूत रा᳓धसः

09 इन्द्र यथा - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

इ᳓न्द्र य᳓था हि᳓ अ᳓स्ति ते
अ᳓परीतं नृतो श᳓वः
अ᳓मृक्ता रातिः᳓ पुरुहूत दाशु᳓षे

10 आ वृषस्व - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ वृषस्व महामह
महे᳓ नृतम रा᳓धसे
दॄळ्ह᳓श्+ चिद् दृह्य मघवन् मघ᳓त्तये

11 नू अन्यत्रा - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

नू᳓ अन्य᳓त्रा चिद् अद्रिवस्
तुव᳓न् नो जग्मुर् आश᳓सः
म᳓घवञ् छग्धि᳓ त᳓व त᳓न् न ऊति᳓भिः

12 नह्यट्ङ्ग नृतो - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

नहि᳓ अङ्ग᳓ नृतो तुव᳓द्
अन्यं᳓ विन्दा᳓मि रा᳓धसे
राये᳓ द्युम्ना᳓य श᳓वसे च गिर्वणः

13 एन्दुमिन्द्राय सिञ्चत - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

ए᳓न्दुम् इ᳓न्द्राय सिञ्चत
पि᳓बाति सोमिय᳓म् म᳓धु
प्र᳓ रा᳓धसा चोदयाते महित्वना᳓

14 उपो हरीणाम् - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

उ᳓पो ह᳓रीणा᳐म् प᳓तिं
द᳓क्षम् पृञ्च᳓न्तम् अब्रवम्
नूनं᳓ श्रुधि स्तुवतो᳓ अश्विय᳓स्य

15 नह्यट्ङ्ग पुरा - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

नहि᳓ अङ्ग᳓ पुरा᳓ चन᳓
जज्ञे᳓ वीर᳓तरस् तुव᳓त्
न᳓की राया᳓ न᳓ एव᳓था न᳓ भन्द᳓ना

16 एदु मध्वो - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

ए᳓द् उ म᳓ध्वो मदि᳓न्तरं
सिञ्च᳓ वाध्वर्यो अ᳓न्धसः
एवा᳓ हि᳓ वीर᳓ स्त᳓वते सदा᳓वृधः

17 इन्द्र स्थातर्हरीणाम् - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

इ᳓न्द्र स्थातर् हरीणां᳐
न᳓किष् टे पूर्विय᳓स्तुतिम्
उ᳓द् आनंश · श᳓वसा न᳓ भन्द᳓ना

18 तं वो - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

तं᳓ वो वा᳓जाना᳐म् प᳓तिम्
अ᳓हूमहि श्रवस्य᳓वः
अ᳓प्रायुभिर् यज्ञे᳓भिर् वावृधे᳓नियम्

19 एतो न्विन्द्रम् - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

ए᳓तो नु इ᳓न्द्रं स्त᳓वाम
स᳓खाय स्तो᳓मियं न᳓रम्
कृष्टी᳓र् यो᳓ वि᳓श्वा अभि᳓ अ᳓स्ति ए᳓क इ᳓त्

20 अगोरुधाय गविषे - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓गोरुधाय गवि᳓षे
द्युक्षा᳓य द᳓स्मियं व᳓चः
घृता᳓त् स्वा᳓दीयो म᳓धुनश् च वोचत

21 यस्यामितानि वीर्याथ् - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓स्या᳓मितानि वीरि᳓या
न᳓ रा᳓धः प᳓रिएतवे
ज्यो᳓तिर् न᳓ वि᳓श्वम् अभि᳓ अ᳓स्ति द᳓क्षिणा

22 स्तुहीन्द्रं व्यश्ववदनूर्मिम् - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

स्तुहि᳓ इ᳓न्द्रं विअश्वव᳓द्
अ᳓नूर्मिं वाजि᳓नं य᳓मम्
अर्यो᳓ ग᳓यम् मं᳓हमानं वि᳓ दाशु᳓षे

23 एवा नूनमुप - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

एवा᳓ नून᳓म् उ᳓प स्तुहि
वइ᳓यश्व दशमं᳓ न᳓वम्
सु᳓विद्वांसं चर्कृ᳓त्यं चर᳓णीना᳐म्

24 वेत्था हि - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

वे᳓त्था हि᳓ नि᳓रृतीनां᳐
व᳓ज्रहस्त परिवृ᳓जम्
अ᳓हर्-अहः शुन्ध्युः᳓ परिप᳓दाम् इव

25 तदिन्द्राव आ - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

त᳓द् इन्द्र अ᳓व आ᳓ भर
ये᳓ना दंसिष्ठ कृ᳓त्वने
द्विता᳓ कु᳓त्साय शिश्नथो नि᳓ चोदय

26 तमु त्वा - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

त᳓म् उ त्वा नून᳓म् ईमहे
न᳓व्यं दंसिष्ठ स᳓न्यसे
स᳓ त्वं᳓ नो वि᳓श्वा अभि᳓मातीः सक्ष᳓णिः

27 य ऋक्षादंहसो - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓ ऋ᳓क्षाद् अं᳓हसो मुच᳓द्
यो᳓ वा᳓र्यात् सप्त᳓ सि᳓न्धुषु
व᳓धर् दास᳓स्य तुविनृम्ण नीनमः

28 यथा वरो - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓था वरो सुषा᳓मणे
सनि᳓भ्य आ᳓वहो रयि᳓म्
वि᳓अश्वेभ्यः सुभगे वाजिनीवति

29 आ नार्यस्य - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ नारिय᳓स्य द᳓क्षिणा
वि᳓अश्वाँ एतु सोमि᳓नः
स्थूरं᳓ च रा᳓धः शत᳓वत् सह᳓स्रवत्

30 यत्त्वा पृच्छादीजानः - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓त् त्वा पृछा᳓द् ईजानः᳓
कुहया᳓ कुहयाकृते
एषो᳓ अ᳓पश्रितो वलो᳓
गोमती᳓म् अ᳓व तिष्ठति