०२३

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

ईळिष्व’ इति त्रिंशदृचं तृतीयं सूक्तम् । व्यश्वपुत्रो विश्वमना ऋषिः । उष्णिक् छन्दः । अग्निर्देवता । तथा चानुक्रान्तम्-’ ईळिष्व त्रिंशद्विश्वमना वैयश्व आग्नेयमौष्णिहं ह’ इति । प्रातरनुवाक आग्नेये क्रतावौष्णिहे छन्दस्याश्विनशस्त्रे चेदं सूक्तम् । सूत्रितं च- ईलिष्वा हीत्यौष्णिहम्’ (आश्व. श्रौ. ४. १३) इति ॥

Jamison Brereton

23 (643)
Agni
Viśvamanas Vaiyaśva
30 verses: uṣṇih, arranged in trcas ̥
The poet begins the hymn by urging himself to perform his sacrificial tasks (vss. 1–2ab), ending this little section with vocatives addressed to himself but seem ingly designed to identify himself with his divine target Agni: “belonging to all domains” is often an epithet of Agni (as well as of Indra) and “having all in mind” (viśvámanas) could be a divine descriptor. However, at least according to the Anukramaṇī, it is the poet’s own name, and he then (vs. 2c) speaks in his own 1st-person voice. This interactive quality is prominent throughout the hymn. The poet’s self-address returns in verse 24, and in between he also addresses in the 2nd person plural the assembled priests and worshipers, on whose behalf he is work ing (vss. 7–9; see esp. 9a, where he calls them “seekers of the truth”). (On poetic self-address see Jamison 2009a.) Agni’s role in this social context, as clanlord of

clans, is also emphasized (vss. 10, 13–14, 20). Manu, the mythical founder of the larger Ārya sacrificial community known as the “descendants of Manu,” is also duly remembered (vss. 13, 17, 25–26), as are the mythical seer Uśanā Kāvya (vs. 17) and the poet’s immediate ancestor, the seer Vyaśva (vss. 16, 23), whose devo
tion to Agni and lucrative relationship with his patron, Ukṣan, merit mention and provide a model for Vaiyaśva’s own gentle hint to his patron Varo Suṣāman (vs. 28). Thus the poet situates his praise of the god and his requests to him in a web of social relations and mutual dependency pertaining both in the current time and in the long history of the descendants of Manu.
Both the praise and the requests follow the common tropes of the genre, though often nicely executed. The focus is on Agni as the messenger of the gods and as the carrier of our oblations to them. Some of the tr̥cas show thematic or syntactic unity (e.g., vss. 13–15 against demons and cheats), but the tr̥ca structure is not prominent, and there are bridges across tr̥cas (e.g., the messenger theme in vss. 18–19).

Jamison Brereton Notes

Agni

01 ईळिष्वा हि - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

ई᳓ळिष्वा हि᳓ प्रतीवि᳓यं
य᳓जस्व जात᳓वेदसम्
चरिष्णु᳓धूमम् अ᳓गृभीतशोचिषम्

02 दामानं विश्वचर्षणेऽग्निम् - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

दामा᳓नं विश्वचर्षणे
अग्निं᳓ विश्वमनो गिरा᳓
उत᳓ स्तुषे वि᳓ष्पर्धसो र᳓थाना᳐म्

03 येषामाबाध ऋग्मिय - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

ये᳓षाम् आबाध᳓ ऋग्मि᳓य
इषः᳓ पृक्ष᳓श् च निग्र᳓भे
उपवि᳓दा · व᳓ह्निर् विन्दते व᳓सु

04 उदस्य शोचिरस्थाद्दीदियुषो - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

उ᳓द् अस्य शोचि᳓र् अस्था᳐द्
दीदियु᳓षो वि᳓ अज᳓रम्
त᳓पुर्जम्भस्य सुद्यु᳓तो गणश्रि᳓यः

05 उदु तिष्ट - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

उ᳓द् उ तिष्ठ सुअध्वर
स्त᳓वानो देविया᳓ कृपा᳓
अभिख्या᳓ भासा᳓ बृहता᳓ शुशुक्व᳓निः

06 अग्ने याहि - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓ग्ने याहि᳓ सुशस्ति᳓भिर्
हव्या᳓ जु᳓ह्वान आनुष᳓क्
य᳓था दूतो᳓ बभू᳓थ हव्यवा᳓हनः

07 अग्निं वः - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

अग्निं᳓ वः पूर्वियं᳓ हुवे
हो᳓तारं चर्षणीना᳐᳓म्
त᳓म् अया᳓ वाचा᳓ गृणे त᳓म् उ व स्तुषे

08 यज्ञेभिरद्भुतक्रतुं यम् - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

यज्ञे᳓भिर् अ᳓द्भुतक्रतुं
यं᳓ कृपा᳓ सूद᳓यन्त इ᳓त्
मित्रं᳓ न᳓ ज᳓ने सु᳓धितम् ऋता᳓वनि

09 ऋतावानमृतायवो यज्ञस्य - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

ऋता᳓वानम् ऋतायवो
यज्ञ᳓स्य सा᳓धनं गिरा᳓
उ᳓पो एनं जुजुषुर् न᳓मसस् पदे᳓

10 अच्छा नो - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓छा नो अ᳓ङ्गिरस्तमं
यज्ञा᳓सो यन्तु संय᳓तः
हो᳓ता यो᳓ अ᳓स्ति विक्षु᳓ आ᳓ यश᳓स्तमः

11 अग्ने तव - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓ग्ने त᳓व त्ये᳓ अजर
इ᳓न्धानासो बृह᳓द् भाः᳐᳓
अ᳓श्वा इव वृ᳓षणस् तविषीय᳓वः

12 स त्वम् - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓ त्वं᳓ न ऊर्जा᳐म् पते
रयिं᳓ रास्व सुवी᳓रियम्
प्रा᳓व नस् तोके᳓ त᳓नये सम᳓त्सु आ᳓

13 यद्वा उ - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓द् वा᳓ उ विश्प᳓तिः शितः᳓
सु᳓प्रीतो म᳓नुषो विशि᳓
वि᳓श्वे᳓द् अग्निः᳓ प्र᳓ति र᳓क्षांसि सेधति

14 श्रुष्थ्यग्ने नवस्य - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

श्रुष्टी᳓ अग्ने न᳓वस्य मे
स्तो᳓मस्य वीर विश्पते
नि᳓ मायि᳓नस् त᳓पुषा रक्ष᳓सो दह

15 न तस्य - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

न᳓ त᳓स्य माय᳓या चन᳓
रिपु᳓र् ईशीत म᳓र्तियः
यो᳓ अग्न᳓ये ददा᳓श हव्य᳓दातिभिः

16 व्यश्वस्त्वा वसुविदमुक्षण्युरप्रीणादृषिः - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

वि᳓अश्वस् त्वा वसुवि᳓दम्
उक्षण्यु᳓र् अप्रिणाद्° ऋ᳓षिः
महो᳓ राये᳓ त᳓म् उ त्वा स᳓म् इधीमहि

17 उशना काव्यस्त्वा - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

उश᳓ना काविय᳓स् तुवा
नि᳓ हो᳓तारम् असादयत्
आयजिं᳓ त्वा म᳓नवे जात᳓वेदसम्

18 विश्वे हि - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

वि᳓श्वे हि᳓ त्वा सजो᳓षसो
देवा᳓सो दूत᳓म् अ᳓क्रत
श्रुष्टी᳓ देव प्रथमो᳓ यज्ञि᳓यो भुवः

19 इमं घा - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

इमं᳓ घा वीरो᳓ अमृ᳓तं
दूतं᳓ कृण्वीत म᳓र्तियः
पवाकं᳓+ कृष्ण᳓वर्तनिं वि᳓हायसम्

20 तं हुवेम - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

तं᳓ हुवेम यत᳓स्रुचः
सुभा᳓सं शुक्र᳓शोचिषम्
विशा᳓म् अग्नि᳓म् अज᳓रम् प्रत्न᳓म् ई᳓डियम्

21 यो अस्मै - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

यो᳓ अस्मै हव्य᳓दातिभिर्
आ᳓हुतिम् म᳓र्तो अ᳓विधत्
भू᳓रि पो᳓षं स᳓ धत्ते वीर᳓वद् य᳓शः

22 प्रथमं जातवेदसमग्निम् - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

प्रथमं᳓ जात᳓वेदसम्
अग्निं᳓ यज्ञे᳓षु पूर्विय᳓म्
प्र᳓ति स्रु᳓ग् एति न᳓मसा हवि᳓ष्मती

23 आभिर्विधेमाग्नये ज्येष्टाभिर्व्यश्ववत् - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓भिर् विधेम अग्न᳓ये
ज्य᳓यिष्ठाभिर्+ विअश्वव᳓त्
मं᳓हिष्ठाभिर् मति᳓भिः शुक्र᳓शोचिषे

24 नूनमर्च विहायसे - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

नून᳓म् अर्च वि᳓हायसे
स्तो᳓मेभि स्थूरयूपव᳓त्
ऋ᳓षे वैयश्व द᳓मियाय अग्न᳓ये

25 अतिथिं मानुषाणाम् - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓तिथिम् मा᳓नुषाणां᳐
सूनुं᳓ व᳓नस्प᳓तीना᳐म्
वि᳓प्रा अग्नि᳓म् अ᳓वसे प्रत्न᳓म् ईळते

26 महो विश्वाँ - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

महो᳓ वि᳓श्वाँ अभि᳓ षतो᳓
अभि᳓ हव्या᳓नि मा᳓नुषा
अ᳓ग्ने नि᳓ षत्सि न᳓मसा᳓धि बर्हि᳓षि

27 वंस्वा नो - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

वं᳓स्वा नो वा᳓रिया पुरु᳓
वं᳓स्व रायः᳓ पुरुस्पृ᳓हः
सुवी᳓र्यस्य प्रजा᳓वतो य᳓शस्वतः

28 त्वं वरो - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

तुवं᳓ वरो सुषा᳓मणे
अ᳓ग्ने ज᳓नाय चोदय
स᳓दा वसो रातिं᳓ यविष्ठ श᳓श्वते

29 त्वं हि - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

तुवं᳓ हि᳓ सुप्रतू᳓र् अ᳓सि
तुवं᳓ नो गो᳓मतीर् इ᳓षः
महो᳓ रायः᳓ साति᳓म् अग्ने अ᳓पा वृधि

30 अग्ने त्वम् - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓ग्ने तुवं᳓ यशा᳓ असि
आ᳓ मित्रा᳓व᳓रुणा वह
ऋता᳓वाना सम्रा᳓जा पूत᳓दक्षसा