०२२

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

“ओ त्यमह्वे’ इत्यष्टादशर्चं द्वितीयं सूक्तं काण्वस्य सोभरेरार्षम् । आद्यातृतीयापञ्चम्यो बृहत्यो द्वितीयाचतुर्थीषष्ट्यः सतोबृहत्यः सप्तमी बृहती अष्टम्यनुष्टुप् । ‘काकुभं प्रागाथं ह’ इत्युक्तस्यानुवृत्तेः शिष्टाश्चत्वारः काकुभाः प्रगाथाः । अश्विनौ देवता । तथा चानुक्रान्तम्-‘ओ त्यमाश्विनं त्रिप्रगाथादि बृहत्यनुष्टुबेकादश्याद्ये ककुम्मध्येज्योतिषी’ इति । प्रातरनुवाक आश्विने क्रतौ बार्हते छन्दस्याश्विनशस्त्रे चाद्याः सप्तर्चः । सूत्रितं च- ओ त्यमह्व आ रथमिति सप्त’ (आश्व. श्रौ. ४. १५) इति ॥

Jamison Brereton

22 (642)
Aśvins
Sobhari Kāṇva
18 verses: br̥hatī alternating with satobr̥hatī 1–7; anuṣṭubh 8; kakubh alternating with satobr̥hatī 9–10, 13–18; kakubh 11; madhyejyotis 12, all arranged in pragāthas.
The metrical complexity of this hymn is not matched by corresponding complexity of content. The hymn focuses especially on the chariot of the Aśvins, as well as on their journey to us, the sacrifice with which we will welcome them, and the multi form aid we hope for in return.
Nonetheless there are a few striking images and turns of phrase, particularly in verse 6 where the Aśvins “plow barley with a wolf,” an expression that cannot be sep arated from the similar one in I.117.21, likewise an Aśvin hymn, where they “scatter barley with a wolf.” Starting with Yaska (6.26), the “wolf” has regularly been identi fied as a type of plow, though this recourse to agricultural technology could be taken as a reductive attempt to explain away the wondrous nature of the Aśvins’ feats—here perhaps their ability to harness the power of a dangerous and semi-wild beast for a civilizing task. On the wolf as a cross-category in the Vedic conceptual universe, situ ated between the wild and the civilized and partaking of both, see Jamison (2008b).

Jamison Brereton Notes

Aśvins Esp. towards the end of the hymn, pāda-initial (C)ā becomes an insistent marker: ā́(8c, 9a), yā́(bhiḥ) (10a, b), tā́(bhiḥ) (10c, 12a), yā́(bhiḥ) (12d), tā́(u) (13a, b, c, 14a, b), mā́(14c), ā́(15a), prā(tā́) (15b), ā(rā́ttāc) (16c), ā́(17a). The most concentrated sequence is in vss. 13-14 with the repeated dual prn. tā́(u) ‘these two’, referring to the Aśvins.

01 ओ त्यमह्व - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

õ᳓ त्य᳓म् अह्व आ᳓ र᳓थम्
अद्या᳓ दं᳓सिष्ठम् ऊत᳓ये
य᳓म् अश्विना सुहवा रुद्रवर्तनी
आ᳓ सूरिया᳓यै तस्थ᳓थुः

02 पूर्वायुषं सुहवम् - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

पूर्वआयु᳓षं सुह᳓वम् पुरुस्पृ᳓हम्
भुज्युं᳓ वा᳓जेषु पू᳓र्वियम्
सचना᳓वन्तं सुमति᳓भिः सोभरे
वि᳓द्वेषसम् अनेह᳓सम्

03 इह त्या - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

इह᳓ त्या᳓ पुरुभू᳓तमा
देवा᳓ न᳓मोभिर् अश्वि᳓ना
अर्वाचीना᳓ सु᳓ अ᳓वसे करामहे
ग᳓न्तारा दाशु᳓षो गृह᳓म्

04 युवो रथस्य - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

युवो᳓ र᳓थस्य प᳓रि चक्र᳓म् ईयत
ईर्मा᳓न्य᳓द् वाम् इषण्यति
अस्माँ᳓ अ᳓छा सुमति᳓र् वां शुभस् पती
आ᳓ धेनु᳓र् इव धावतु

05 रथो यो - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

र᳓थो यो᳓ वां त्रिवन्धुरो᳓
हि᳓रण्याभीशुर् अश्विना
प᳓रि द्या᳓वापृथिवी᳓ भू᳓षति श्रुत᳓स्
ते᳓न नासतिया᳓ गतम्

06 दशस्यन्ता मनवे - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

दशस्य᳓न्ता म᳓नवे पूर्वियं᳓ दिवि᳓
य᳓वं वृ᳓केण कर्षथः
ता᳓ वाम् अद्य᳓ सुमति᳓भिः शुभस् पती
अ᳓श्विना प्र᳓ स्तुवीमहि

07 उप नो - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

उ᳓प नो वाजिनीवसू
यात᳓म् ऋत᳓स्य पथि᳓भिः
ये᳓भिस् तृक्षिं᳓ वृषणा त्रासदस्यव᳓म्
महे᳓ क्षत्रा᳓य जि᳓न्वथः

08 अयं वामद्रिभिः - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अयं᳓ वाम् अ᳓द्रिभिः सुतः᳓
सो᳓मो नरा वृषण्वसू
आ᳓ यातं सो᳓मपीतये
पि᳓बतं दाशु᳓षो गृहे᳓

09 आ हि - ककुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ हि᳓ रुह᳓तम् अश्विना
र᳓थे को᳓शे हिरण्य᳓ये वृषण्वसू
युञ्जा᳓थाम् पी᳓वरीर् इ᳓षः

10 याभिः पक्थमवथो - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

या᳓भिः पक्थ᳓म् अ᳓वथो या᳓भिर् अ᳓ध्रिगुं
या᳓भिर् बभ्रुं᳓ वि᳓जोषसम्
ता᳓भिर् नो मक्षू᳓ तू᳓यम् अश्विना᳓ गतम्
भिषज्य᳓तं य᳓द् आ᳓तुरम्

11 यदध्रिगावो अध्रिगू - ककुप्

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓द् अ᳓ध्रिगावो अ᳓ध्रिगू
इदा᳓ चिद् अ᳓ह्नो अश्वि᳓ना ह᳓वामहे
वयं᳓ गीर्भि᳓र् विपन्य᳓वः

12 ताभिरा यातम् - मध्येज्योतिः

विश्वास-प्रस्तुतिः ...{Loading}...

ता᳓भिर् आ᳓ यातं वृषणो᳓प मे ह᳓वं
विश्व᳓प्सुं विश्व᳓वारियम्
इषा᳓ मं᳓हिष्ठा पुरुभू᳓तमा नरा
या᳓भिः क्रि᳓विं वावृधु᳓स् ता᳓भिर् आ᳓ गतम्

13 ताविदा चिदहानाम् - ककुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ता᳓व् इदा᳓ चिद् अ᳓हानां᳐
ता᳓व् अश्वि᳓ना व᳓न्दमान उ᳓प ब्रुवे
ता᳓ उ न᳓मोभिर् ईमहे

14 ताविद्दोषा ता - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

ता᳓व् इ᳓द् दोषा᳓ ता᳓ उष᳓सि शुभ᳓स् प᳓ती
ता᳓ या᳓मन् रुद्र᳓वर्तनी
मा᳓ नो म᳓र्ताय रिप᳓वे वाजिनीवसू
परो᳓ रुद्राव् अ᳓ति ख्यतम्

15 आ सुग्म्याय - ककुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ सु᳓ग्मियाय सु᳓ग्मियम्
प्राता᳓ र᳓थेन अश्वि᳓ना वा सक्ष᳓णी
हुवे᳓ पिते᳓व सो᳓भरी

16 मनोजवसा वृषणा - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

म᳓नोजवसा वृषणा मदच्युता
मक्षुंगमा᳓भिर् ऊति᳓भिः
आरा᳓त्ताच् चिद् भू᳐तम् अस्मे᳓ अ᳓वसे
पूर्वी᳓भिः पुरुभोजसा

17 आ नो - ककुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ नो अ᳓श्वावद् अश्विना
वर्ति᳓र् यासिष्टम् मधुपातमा नरा
गो᳓मद् दस्रा हि᳓रण्यवत्

18 सुप्रावर्गं सुवीर्यम् - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

सुप्रावर्गं᳓ सुवी᳓र्यं सुष्ठु᳓ वा᳓रियम्
अ᳓नाधृष्टं रक्षस्वि᳓ना
अस्मि᳓न्न् आ᳓ वाम् आया᳓ने वाजिनीवसू
वि᳓श्वा वामा᳓नि धीमहि