०२१

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

॥ श्रीगणेशाय नमः ॥

यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।

निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥

चतुर्थेऽनुवाके दश सूक्तानि । तत्र ‘ वयमु त्वाम्’ इत्यष्टादशर्चं प्रथमं सूक्तम् । अत्रानुक्रमणिका–‘वयमु द्व्यूनान्त्ये द्वृचे चित्रस्य दानस्तुतिः’ इति । ‘ऋषिश्चान्यस्मात् ’ इति परिभाषया काण्वः सोभरिर्ऋषिः । ‘ काकुभं प्रागाथं ह’ इत्युक्तत्वादस्यापि सूक्तस्यायुजः ककुभो युजः सतोबृहत्यः । अन्त्ये द्वृचे चित्रस्य दानं देवता । शिष्टा ऐन्द्र्यः । सूक्तविनियोगो लैङ्गिकः । उक्थ्ये ब्राह्मणाच्छंसिशस्त्रे ‘वयमु त्वाम्’ इति प्रगाथः स्तोत्रियः । सूत्रितं च-’ वयमु त्वामपूर्व्यं यो न इदमिदं पुरेति प्रगाथौ’ (आश्व. श्रौ. ६. १ ) इति । आभिप्लविकेषूक्थ्येष्वपि तृतीयसवने ब्राह्मणाच्छंसिनो वैकल्पिकोऽयं स्तोत्रियः प्रगाथः । सूत्रमुक्तम् । अस्मिन्नेव शस्त्रे ‘ त्वं न इन्द्रा भर ’ इति प्रगाथो यदा स्तोत्रियः तदा ‘वयमु त्वा’ इत्यनुरूपतृचस्याद्या । सूत्रितं च – वयमु त्वामपूर्व्य यो न इदमिदं पुरा याहीम इन्दव इति समाहार्योऽनुरूपः’ (आश्व. श्रौ. ७. ८) इति ॥

Jamison Brereton

21 (641)
Indra (1–16), Citra’s Dānastuti (17–18)
Sobhari Kāṇva
18 verses: kakubh alternating with satobr̥hatī, arranged in pragāthas
This hymn ends with a brief dānastuti to king Citra (vss. 17–18) and begins with a pun on his name: in verse 1 Indra is described as citrá “brilliant.” In between the poet ponders the various different relationships that he and his people might have with Indra, deploying a surprising range of terminology: “comrade” (vss. 2, 8, 14, 15), “kin” (vs. 4), “rival” (vs. 13), “friend” (vs. 13), and “father” (vs. 14). Amid the standard invitations to the soma sacrifice (e.g., vss. 3, 5) and praise of Indra’s quali
ties (e.g., vs. 10), the poet depicts himself and his people as previously deprived of Indra (vs. 7), but as possessing hopes and visions of the god’s entering into rela tionship with them (see esp. vs. 6), and he imagines what they could achieve if this relationship were activated (vss. 11–12). The stress on the 1st plural “we” (including Indra along with the mortals) and on “our” states of mind is highly unusual in R̥gvedic poetry.
The poet’s conception of possible relationships develops in even more unpredict able ways toward the end of the hymn. The pragātha strophe consisting of verses 13–14 begins strikingly by calling Indra friendless, and continues in verse 14 with a brief and idiosyncratic characterization of some who don’t have relationships with Indra. The following pragātha (vss. 15–16) urges “us” not to miss our own chance with Indra, with a noteworthy comparison of “our” potentially damaging lack of activity to that of aging spinsters.
Thus, though much of the hymn contains conventional Indra-hymn material, there is a distinct “psychological” tinge to the poet’s depiction of the interaction of his group with Indra. This depiction of an emotional bond between the worshipers and the deity makes the abrupt transition to the dānastuti all the more surprising, especially because the dānastuti seems to belittle Indra’s giving in comparison to King Citra’s.

Jamison Brereton Notes

Indra

01 वयमु त्वामपूर्व्य - ककुप्

विश्वास-प्रस्तुतिः ...{Loading}...

वय᳓म् उ त्वा᳓म् अपूर्विय
स्थूरं᳓ न᳓ क᳓च् चिद् भ᳓रन्तो अवस्य᳓वः
वा᳓जे चित्रं᳓ हवामहे

02 उप त्वा - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

उ᳓प त्वा क᳓र्मन् ऊत᳓ये स᳓ नो यु᳓वा
उग्र᳓श् चक्राम यो᳓ धृष᳓त्
तुवा᳓म् इ᳓द् धि᳓ अविता᳓रं ववृम᳓हे
स᳓खाय इन्द्र सानसि᳓म्

03 आ याहीम - ककुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ याहि इम᳓ इ᳓न्दवो
अ᳓श्वपते गो᳓पत उ᳓र्वरापते
सो᳓मं सोमपते पिब

04 वयं हि - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

वयं᳓ हि᳓ त्वा ब᳓न्धुमन्तम् अबन्ध᳓वो
वि᳓प्रास इन्द्र येमिम᳓
या᳓ ते धा᳓मानि वृषभ ते᳓भिर् आ᳓ गहि
वि᳓श्वेभिः सो᳓मपीतये

05 सीदन्तस्ते वयो - ककुप्

विश्वास-प्रस्तुतिः ...{Loading}...

सी᳓दन्तस् ते व᳓यो यथा
गो᳓श्रीते म᳓धौ मदिरे᳓ विव᳓क्षणे
अभि᳓ त्वा᳓म् इन्द्र नोनुमः

06 अच्छा च - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓छा च त्वैना᳓ न᳓मसा व᳓दामसि
कि᳓म् मु᳓हुश् चिद् वि᳓ दीधयः
स᳓न्ति का᳓मासो हरिवो ददि᳓ष् टुवं᳓
स्मो᳓ वयं᳓ स᳓न्ति नो धि᳓यः

07 नूत्ना इदिन्द्र - ककुप्

विश्वास-प्रस्तुतिः ...{Loading}...

नू᳓त्ना इ᳓द् इन्द्र ते वय᳓म्
ऊती᳓ अभूम नहि᳓ नू᳓ ते अद्रिवः
विद्मा᳓ पुरा᳓ प᳓रीणसः

08 विद्मा सखित्वमुत - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

विद्मा᳓ सखित्व᳓म् उत᳓ शूर भोजि᳓यम्
आ᳓ ते ता᳓ वज्रिन् ईमहे
उतो᳓ समस्मिन् आ᳓ शिशीहि नो वसो
वा᳓जे सुशिप्र गो᳓मति

09 यो न - ककुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यो᳓ न इद᳓म्-इदम् पुरा᳓
प्र᳓ व᳓स्य आनिना᳓य त᳓म् उ व स्तुषे
स᳓खाय इ᳓न्द्रम् ऊत᳓ये

10 हर्यश्वं सत्पतिम् - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

ह᳓रिअश्वं स᳓त्पतिं चर्षणीस᳓हं
स᳓ हि᳓ ष्मा यो᳓ अ᳓मन्दत
आ᳓ तु᳓ नः स᳓ वयति ग᳓व्यम् अ᳓श्वियं
स्तोतृ᳓भ्यो मघ᳓वा शत᳓म्

11 त्वया ह - ककुप्

विश्वास-प्रस्तुतिः ...{Loading}...

त्व᳓या ह स्विद् युजा᳓ वय᳓म्
प्र᳓ति श्वस᳓न्तं वृषभ ब्रुवीमहि
संस्थे᳓ ज᳓नस्य गो᳓मतः

12 जयेम कारे - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

ज᳓येम कारे᳓ पुरुहूत कारि᳓णो
अभि᳓ तिष्ठेम दूढि᳓यः
नृ᳓भिर् वृत्रं᳓ हन्या᳓म शूशुया᳓म च
अ᳓वेर् इन्द्र प्र᳓ णो धि᳓यः

13 अभ्रातृव्यो अना - ककुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अभ्रातृव्यो᳓ अना᳓ तुव᳓म्
अ᳓नापिर् इन्द्र जनु᳓षा सना᳓द् असि
युधे᳓द् आपित्व᳓म् इछसे

14 नकी रेवन्तम् - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

न᳓की रेव᳓न्तं सखिया᳓य विन्दसे
पी᳓यन्ति ते सुराशु᳓वः
यदा᳓ कृणो᳓षि नदनुं᳓ स᳓म् ऊहसि
आ᳓द् इ᳓त् पिते᳓व हूयसे

15 मा ते - ककुप्

विश्वास-प्रस्तुतिः ...{Loading}...

मा᳓ ते अमाजु᳓रो यथा
मूरा᳓स इन्द्र सखिये᳓ तुवा᳓वतः
नि᳓ षदाम स᳓चा सुते᳓

16 मा ते - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

मा᳓ ते गोदत्र नि᳓र् अराम रा᳓धस
इ᳓न्द्र मा᳓ ते गृहामहि
दॄळ्हा᳓+ चिद् अर्यः᳓ प्र᳓ मृशाभि आ᳓ भर
न᳓ ते दामा᳓न आद᳓भे

17 इन्द्रो वा - ककुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इ᳓न्द्रो वा घे᳓द् इ᳓यन् मघं᳓
स᳓रस्वती वा सुभ᳓गा ददि᳓र् व᳓सु
तुवं᳓ वा चित्र दाशु᳓षे

18 चित्र इद्राजा - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

चि᳓त्र इ᳓द् रा᳓जा राजका᳓ इ᳓द् अन्यके᳓
यके᳓ स᳓रस्वतीम् अ᳓नु
पर्ज᳓न्य इव तत᳓नद् धि᳓ वृष्टिया᳓
सह᳓स्रम् अयु᳓ता द᳓दत्