०२०

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘आ गन्त’ इति षड्विंशत्यृचमष्टमं सूक्तं काण्वस्य सोभरेरार्षं मारुतम् । प्रथमाद्ययुजः ककुभो द्वितीयादियुजः सतोबृहत्यः । अनुक्रम्यते हि - ‘ आ गन्त षड्विंशतिर्मारुम्’ इति । गतो विनियोगः ॥

Jamison Brereton

20 (640)
Maruts
Sobharī Kāṇva
26 verses: kakubh alternating with satobr̥hatī, arranged in pragāthas
The typical Marut themes are deftly woven together in this hymn. After inviting them to the sacrifice (vss. 1–2), the poet first describes the effects in nature of the storm they embody (vss. 3–6) and then their flashy beauty and that of their chariot (vss. 7–12), ending this section with two verses (13–14) on their lack of individuality (see also vs. 21). The remainder of the hymn concerns the generosity of the Maruts and begs them to display it in response to Sobhari’s hymn: the poet addresses him
self in verses 19–20. Unlike the generic gifts generally asked for in R̥gvedic hymns, the final verses make it clear that the poet has a specific request: Marut medicine to heal the afflicted (vss. 23–26). Their association with healing comes through their father Rudra.
The hymn exhibits a light touch and has a number of neat turns of phrase—for instance, verse 8, where “the music of the Sobharis is anointed with cows” indicates that their hymn reaps a bovine reward from the patron, or verse 19, with its pun on the participle cárkr̥ṣat meaning both “plowing” and “celebrating.”

Jamison Brereton Notes

Maruts

01 आ गन्ता - ककुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ गन्ता मा᳓ रिषण्यत
प्र᳓स्थावानो मा᳓प स्थाता समन्यवः
स्थिरा᳓ चिन् नमयिष्णवः

02 वीळुपविभिर्मरुत ऋभुक्षण - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

वीळुपवि᳓भिर् मरुत ऋभुक्षण
आ᳓ रुद्रासः सुदीति᳓भिः
इषा᳓ नो अद्य᳓ आ᳓ गता पुरुस्पृहो
यज्ञ᳓म् आ᳓ सोभरीय᳓वः

03 विद्मा हि - ककुप्

विश्वास-प्रस्तुतिः ...{Loading}...

विद्मा᳓ हि᳓ रुद्रि᳓याणां᳐
शु᳓ष्मम् उग्र᳓म् मरु᳓तां᳐ शि᳓मीवताम्
वि᳓ष्णोर् एष᳓स्य मीळ्हु᳓षाम्

04 वि द्वीपानि - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

वि᳓ द्वीपा᳓नि पा᳓पतन् ति᳓ष्ठद् दुछु᳓ना
उभे᳓ युजन्त रो᳓दसी
प्र᳓ ध᳓न्वानि ऐरत शुभ्रखादयो
य᳓द् ए᳓जथ स्वभानवः

05 अच्युता चिद्वो - ककुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓च्युता चिद् वो अ᳓ज्मन् आ᳓
ना᳓नदति प᳓र्वतासो व᳓नस्प᳓तिः
भू᳓मिर् या᳓मेषु रेजते

06 अमाय वो - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓माय वो मरुतो या᳓तवे दियउ᳓र्
जि᳓हीत उ᳓त्तरा बृह᳓त्
य᳓त्रा न᳓रो दे᳓दिशते तनू᳓षु आ᳓
त्व᳓क्षांसि बाहु᳓ओजसः

07 स्वधामनु श्रियम् - ककुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स्वधा᳓म् अ᳓नु श्रि᳓यं न᳓रो
म᳓हि त्वेषा᳓ अ᳓मवन्तो वृ᳓षप्सवः
व᳓हन्ते अ᳓ह्रुतप्सवः

08 गोभिर्वाणो अज्यते - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

गो᳓भिर् वाणो᳓ अज्यते सो᳓भरीणां᳐
र᳓थे को᳓शे हिरण्य᳓ये
गो᳓बन्धवः सुजाता᳓स इषे᳓ भुजे᳓
महा᳓न्तो न स्प᳓रसे नु᳓

09 प्रति वो - ककुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓ति वो वृषदञ्जयो
वृ᳓ष्णे श᳓र्धाय मा᳓रुताय भरध्वम्
हव्या᳓ वृ᳓षप्रयावणे

10 वृषणश्वेन मरुतो - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

वृषणश्वे᳓न मरुतो वृ᳓षप्सुना
र᳓थेन वृ᳓षनाभिना
आ᳓ श्येना᳓सो न᳓ पक्षि᳓णो वृ᳓था नरो
हव्या᳓ नो वीत᳓ये गत

11 समानमञ्ज्येषां वि - ककुप्

विश्वास-प्रस्तुतिः ...{Loading}...

समान᳓म् अञ्जि᳓ एषां᳐
वि᳓ भ्राजन्ते रुक्मा᳓सो अ᳓धि बाहु᳓षु
द᳓विद्युतति ऋष्ट᳓यः

12 त उग्रासो - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

त᳓ उग्रा᳓सो वृ᳓षण उग्र᳓बाहवो
न᳓किष् टनू᳓षु येतिरे
स्थिरा᳓ ध᳓न्वानि आ᳓युधा र᳓थेषु वो
अ᳓नीकेषु अ᳓धि श्रि᳓यः

13 येषामर्णो न - ककुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ये᳓षाम् अ᳓र्णो न᳓ सप्र᳓थो
ना᳓म त्वेषं᳓ श᳓श्वताम् ए᳓कम् इ᳓द् भुजे᳓
व᳓यो न᳓ पि᳓त्रियं स᳓हः

14 तान्वन्दस्व मरुतस्ताँ - सतो विराट्

विश्वास-प्रस्तुतिः ...{Loading}...

ता᳓न् वन्दस्व मरु᳓तस् ताँ᳓ उ᳓प स्तुहि
ते᳓षां᳐ हि᳓ धु᳓नीना᳐म्
अरा᳓णां᳐ न᳓ चरम᳓स् त᳓द् एषां᳐
दाना᳓ मह्ना᳓ त᳓द् एषा᳐म्

15 सुभगः स - ककुप्

विश्वास-प्रस्तुतिः ...{Loading}...

सुभ᳓गः स᳓ व ऊति᳓षु
आ᳓स पू᳓र्वासु मरुतो वि᳓उष्टिषु
यो᳓ वा नून᳓म् उता᳓सति

16 यस्य वा - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓स्य वा यूय᳓म् प्र᳓ति वाजि᳓नो नर
आ᳓ हव्या᳓ वीत᳓ये गथ᳓
अभि᳓ ष᳓ द्युम्नइ᳓र् उत᳓ वा᳓जसातिभिः
सुम्ना᳓ वो धूतयो नशत्

17 यथा रुद्रस्य - ककुप्

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓था रुद्र᳓स्य सून᳓वो
दिवो᳓ व᳓शन्ति अ᳓सुरस्य वेध᳓सः
यु᳓वानस् त᳓था इ᳓द् असत्

18 ये चार्हन्ति - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

ये᳓ च अ᳓र्हन्ति मरु᳓तः सुदा᳓नवः
स्म᳓न् मीळ्हु᳓षश् च᳓रन्ति ये᳓
अ᳓तश् चिद् आ᳓ न उ᳓प व᳓स्यसा हृदा᳓
यु᳓वान आ᳓ ववृधुवम्

19 यून ऊ - ककुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यू᳓न ऊ षु᳓ न᳓विष्ठया
वृ᳓ष्णः पवाकाँ᳓+ अभि᳓ सोभरे गिरा᳓
गा᳓य गा᳓ इव च᳓र्कृषत्

20 साहा ये - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

साहा᳓ ये᳓ स᳓न्ति मुष्टिहे᳓व ह᳓वियो
वि᳓श्वासु पृत्सु᳓ हो᳓तृषु
वृ᳓ष्णश् चन्द्रा᳓न् न᳓ सुश्र᳓वस्तमान् गिरा᳓
व᳓न्दस्व मरु᳓तो अ᳓ह

21 गावश्चिद्घा समन्यवः - ककुप्

विश्वास-प्रस्तुतिः ...{Loading}...

गा᳓वश् चिद् घा समन्यवः
सजाति᳓येन मरुतः स᳓बन्धवः
रिहते᳓ ककु᳓भो मिथः᳓

22 मर्तश्चिद्वो नृतवो - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

म᳓र्तश् चिद् वो नृतवो रुक्मवक्षस
उ᳓प भ्रातृत्व᳓म् आ᳓यति
अ᳓धि नो गात मरुतः स᳓दा हि᳓ व
आपित्व᳓म् अ᳓स्ति नि᳓ध्रुवि

23 मरुतो मारुतस्य - ककुप्

विश्वास-प्रस्तुतिः ...{Loading}...

म᳓रुतो मा᳓रुतस्य न
आ᳓ भेषज᳓स्य वहता सुदानवः
यूयं᳓ सखायः सप्तयः

24 याभिः सिन्धुमवथ - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

या᳓भिः सि᳓न्धुम् अ᳓वथ या᳓भिस् तू᳓र्वथ
या᳓भिर् दशस्य᳓था क्रि᳓विम्
म᳓यो नो भूत ऊति᳓भिर् मयोभुवः
शिवा᳓भिर् असचद्विषः

25 यत्सिन्धौ यदसिक्न्याम् - ककुप्

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓त् सि᳓न्धौ य᳓द् अ᳓सिक्नियां
य᳓त् समुद्रे᳓षु मरुतः सुबर्हिषः
य᳓त् प᳓र्वतेषु भेषज᳓म्

26 विश्वं पश्यन्तो - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

वि᳓श्वम् प᳓श्यन्तो बिभृथा तनू᳓षु आ᳓
ते᳓ना नो अ᳓धि वोचत
क्षमा᳓ र᳓पो मरुत आ᳓तुरस्य न
इ᳓ष्कर्ता वि᳓ह्रुतम् पु᳓नः