०१८

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘इदं ह ’ इति द्वाविंशत्यृचं षष्ठं सूक्तमिरिम्बिठेरार्षमुष्णिक्छन्दस्कम् । ‘उत त्या ’ इत्येषा अश्विदेवताका । शमग्निः ’ इत्येषा अग्निसूर्यवायुदेवताका । शिष्टा आदित्यदेवताकाः । तथा चानुक्रम्यते - इदं ह द्वयधिकादित्यमौष्णिहमष्टम्यश्विभ्यां पराग्निसूर्यानिलानाम् ’ इति । गतो विनियोगः ।।

Jamison Brereton

18 (638)
Ādityas
Irimbiṭhi Kāṇva
22 verses: uṣṇih, arranged in trcas, with a final verse ̥
Like the other hymns to the Ādityas in VIII (47, 67), this hymn is fairly elementary and rarely strays far from its theme—the hope that the Ādityas (and, toward the end [vss. 16, 20, 21], other gods) will provide protection from various dangers and enemies and long life for us and our offspring. There is a fair amount of coherence within tr̥cas—for example, the dominance of Aditi in verses 4–6, the repetition of śám “weal” and the four-syllable tag refrain in verses 7–9.

Jamison Brereton Notes

Ādityas

01 इदं ह - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

इदं᳓ ह नून᳓म् एषां᳐
सुम्न᳓म् भिक्षेत म᳓र्तियः
आदित्या᳓नाम् अ᳓पूर्वियं स᳓वीमनि

02 अनर्वाणो ह्येषाम् - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

अनर्वा᳓णो हि᳓ एषा᳐म्
प᳓न्था आदितिया᳓ना᳐म्
अ᳓दब्धाः स᳓न्ति पाय᳓वः सुगेवृ᳓धः

03 तत्सु नः - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

त᳓त् सु᳓ नः सविता᳓ भ᳓गो
व᳓रुणो मित्रो᳓ अर्यमा᳓
श᳓र्म यछन्तु सप्र᳓थो य᳓द् ई᳓महे

04 देवेभिर्देव्यदितेऽरिष्थभर्मन्ना गहि - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

देवे᳓भिर् देवि अदिते
अ᳓रिष्टभर्मन् आ᳓ गहि
स्म᳓त् सूरि᳓भिः पुरुप्रिये सुश᳓र्मभिः

05 ते हि - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

ते᳓ हि᳓ पुत्रा᳓सो अ᳓दितेर्
विदु᳓र् द्वे᳓षांसि यो᳓तवे
अंहो᳓श् चिद् उरुच᳓क्रयो अनेह᳓सः

06 अदितिर्नो दिवा - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓दितिर् नो दि᳓वा पशु᳓म्
अ᳓दितिर् न᳓क्तम् अ᳓द्वयाः
अ᳓दितिः पातु अं᳓हसः सदा᳓वृधा

07 उत स्या - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

उत᳓ स्या᳓ नो दि᳓वा मति᳓र्
अ᳓दितिर् ऊतिया᳓ गमत्
सा᳓ शं᳓ताति म᳓यस् करद् अ᳓प स्रि᳓धः

08 उत त्या - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

उत᳓ त्या᳓ दइ᳓व्या भिष᳓जा
शं᳓ नः करतो अश्वि᳓ना
युयुया᳓ताम् इतो᳓ र᳓पो अ᳓प स्रि᳓धः

09 शमग्निरग्निभिः करच्छम् - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

श᳓म् अग्नि᳓र् अग्नि᳓भिः करच्
छं᳓ नस् तपतु सू᳓रियः
शं᳓ वा᳓तो वातु अरपा᳓ अ᳓प स्रि᳓धः

10 अपामीवामप स्रिधमप - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓पा᳓मीवाम् अ᳓प स्रि᳓धम्
अ᳓प सेधत दुर्मति᳓म्
आ᳓दित्यासो युयो᳓तना नो अं᳓हसः

11 युयोता शरुमस्मदाँ - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

युयो᳓ता श᳓रुम् अस्म᳓द् आँ᳓
आ᳓दित्यास उता᳓मतिम्
ऋ᳓धग् द्वे᳓षः कृणुत विश्ववेदसः

12 तत्सु नः - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

त᳓त् सु᳓ नः श᳓र्म यछत
आ᳓दित्या य᳓न् मु᳓मोचति
ए᳓नस्वन्तं चिद् ए᳓नसः सुदानवः

13 यो नः - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

यो᳓ नः क᳓श् चिद् रि᳓रिक्षति
रक्षस्तुवे᳓न म᳓र्तियः
सुवइः᳓ ष᳓ ए᳓वै रिरिषीष्ट यु᳓र् ज᳓नः

14 समित्तमघमश्नवद्दुःशंसं मर्त्यम् - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓म् इ᳓त् त᳓म् अघ᳓म् अश्नवद्
दुःशं᳓सम् म᳓र्तियं रिपु᳓म्
यो᳓ अस्मत्रा᳓ दुर्ह᳓णावाँ उ᳓प द्वयुः᳓

15 पाकत्रा स्थन - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

पाकत्रा᳓ स्थन देवा
हृत्सु᳓ जानीथ म᳓र्तियम्
उ᳓प द्वयुं᳓ च अ᳓द्वयुं च वसवः

16 आ शर्म - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ श᳓र्म प᳓र्वताना᳐म्
ओ᳓ता᳓पां᳐᳓ वृणीमहे
द्या᳓वाक्षामा आरे᳓ अस्म᳓द् र᳓पस् कृतम्

17 ते नो - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

ते᳓ नो भद्रे᳓ण श᳓र्मणा
युष्मा᳓कं नावा᳓ वसवः
अ᳓ति वि᳓श्वानि दुरिता᳓ पिपर्तन

18 तुचे तनाय - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

तुचे᳓ त᳓नाय त᳓त् सु᳓ नो
द्रा᳓घीय आ᳓यु° जीव᳓से
आ᳓दित्यासः सुमहसः कृणो᳓तन

19 यज्ञो हीळो - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

यज्ञो᳓ हीळो᳓ वो अ᳓न्तर
आ᳓दित्या अ᳓स्ति मॄळ᳓त+
युष्मे᳓ इ᳓द् वो अ᳓पि ष्मसि सजाति᳓ये

20 बृहद्वरूथं मरुताम् - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

बृह᳓द् व᳓रूथम् मरु᳓तां
देवं᳓ त्राता᳓रम् अश्वि᳓ना
मित्र᳓म् ईमहे व᳓रुणं सुअस्त᳓ये

21 अनेहो मित्रार्यमन्नृवद्वरुण - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

अनेहो᳓ मित्र अर्यमन्
नृव᳓द् वरुण शं᳓सियम्
त्रिव᳓रूथम् मरुतो यन्त नश् छर्दिः᳓

22 ये चिद्धि - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

ये᳓ चिद् धि᳓ मृत्यु᳓बन्धव
आ᳓दित्या म᳓नवः स्म᳓सि
प्र᳓ सू᳓ न आ᳓यु° जीव᳓से तिरेतन