०१३

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

तृतीयेऽनुवाकेऽष्ट सूक्तानि । तत्र “इन्द्रः सुतेषु’ इति त्रयस्त्रिशदृचं प्रथमं सूक्तं काण्वस्य नारदस्यार्षमौष्णिहमैन्द्रम् । तथा चानुक्रान्तम् - ‘इन्द्रः सुतेषु नारदः’ इति । महाव्रते निष्केवल्ये औष्णिहतृचाशीतौ पूर्वसूक्तेन सहोक्तो विनियोगः । तृतीये पर्यायेऽच्छावाकशस्त्र • इन्द्रः सुतेषु’ इति तृचः स्तोत्रियः । सूत्र्यते हि – इन्द्रः सुतेषु सोमेषु य इन्द्र सोमपातमः’ (आश्व. श्रौ. ६. ४) इति ॥

Jamison Brereton

13 (633)
Indra
Nārada Kāṇva
33 verses: uṣṇih, arranged in trcas ̥
Though, like the previous hymn (VIII.12), this one is in uṣṇih meter and arranged in tr̥cas, the tight structuring of VIII.12 is absent here, save in the final tr̥ca (vss. 31–33) with its four-syllable refrain and repeated identifications with the “bull,” and most of the tr̥cas lack clear unity. The theme of growing and making strong found in VIII.12 is continued here, however—notably in the first tr̥ca (vss. 1–3) and that formed by verses 16–18, but also generally throughout the hymn. There are also less insistent links between different parts of the hymn (e.g., the tree branches of vss. 6, 17), and some pleasing turns of phrase, like the “sea of the stalk” (vs. 15) referring to a particular large vessel of soma.
Mythological material is mostly lacking in the hymn, and what is found is given perfunctory treatment (see the allusions to the Maruts in vss. 20 and 28–29). The focus instead is the usual give-and-take of the ritual compact. Although the hymn has no spectacularly memorable features, it does not seem to deserve Geldner’s scornful dismissal as “ein recht nichtssagendes [‘trivial’ or ‘vacuous’] Lied.”1054 VIII.13

Jamison Brereton Notes

Indra Although the introduction. to the published translation is somewhat dismissive of this hymn and dubious about any unifying factors, closer examination shows a subsurface thematic unity esp. in the mid and later parts of the hymn, roughly vss. 16-30. For discussion see below.

01 इन्द्रः सुतेषु - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

इ᳓न्द्रः᳓ सुते᳓षु᳓ सो᳓मेषु᳓
क्र᳓तुम् +++(=कर्तारम्)+++ पुनीत उक्थ्य᳙म् +++(=स्तोतारम्)+++।
विदे᳓ वृध᳓स्य᳓ +++(=वर्धकस्य)+++ द᳓क्षसो +++(=बलस्य)+++ महा᳓न्हि᳓ षः᳓ ।।

02 स प्रथमे - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓ प्रथमे᳓ वि᳓ओमनि
देवा᳓नां स᳓दने वृधः᳓
सुपारः᳓ सुश्र᳓वस्तमः स᳓म् अप्सुजि᳓त्

03 तमह्वे वाजसातय - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

त᳓म् अह्वे वा᳓जसातय
इ᳓न्द्रम् भ᳓राय शुष्मि᳓णम्
भ᳓वा नः सुम्ने᳓ अ᳓न्तमः स᳓खा वृधे᳓

04 इयं त - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

इयं᳓ त इन्द्र गिर्वणो
रातिः᳓ क्षरति सुन्वतः᳓
मन्दानो᳓ अस्य᳓ बर्हि᳓षो वि᳓ राजसि

05 नूनं तदिन्द्र - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

नूनं᳓ त᳓द् इन्द्र दद्धि नो
य᳓त् त्वा सुन्व᳓न्त ई᳓महे
रयिं᳓ नश् चित्र᳓म् आ᳓ भरा सुवर्वि᳓दम्

06 स्तोता यत्ते - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

स्तोता᳓ य᳓त् ते वि᳓चर्षणिर्
अतिप्रशर्ध᳓यद् गि᳓रः
वया᳓ इवा᳓नु रोहते जुष᳓न्त य᳓त्

07 प्रत्नवज्जनया गिरः - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

प्रत्नव᳓ज् जनया गि᳓रः
शृणुधी᳓ जरितु᳓र् ह᳓वम्
म᳓दे-मदे ववक्षिथा सुकृ᳓त्वने

08 क्रीळन्त्यस्य सूनृता - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

क्री᳓ळन्ति अस्य सूनृ᳓ता
आ᳓पो न᳓ प्रव᳓ता यतीः᳓
अया᳓ धिया᳓ य᳓ उच्य᳓ते प᳓तिर् दिवः᳓

09 उतो पतिर्य - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

उतो᳓ प᳓तिर् य᳓ उच्य᳓ते
कृष्टीना᳓म् ए᳓क इ᳓द् वशी᳓
नमोवृधइ᳓र् अवस्यु᳓भिः सुते᳓ रण

10 स्तुहि श्रुतम् - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

स्तुहि᳓ श्रुतं᳓ विपश्चि᳓तं
ह᳓री य᳓स्य प्रसक्षि᳓णा+++(=??)+++ ।
ग᳓न्तारा दाशु᳓षो गृहं᳓ नमस्वि᳓नः

11 तूतुजानो महेमतेऽश्वेभिः - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

तूतुजानो᳓ महेमते
अ᳓श्वेभिः प्रुषित᳓प्सुभिः
आ᳓ याहि यज्ञ᳓म् आशु᳓भिः श᳓म् इ᳓द् धि᳓ ते

12 इन्द्र शविष्ट - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

इ᳓न्द्र शविष्ठ सत्पते
रयिं᳓ गृण᳓त्सु धारय
श्र᳓वः सूरि᳓भ्यो अमृ᳓तं वसुत्वन᳓म्

13 हवे त्वा - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

ह᳓वे त्वा सू᳓र उ᳓दिते
ह᳓वे मध्यं᳓दिने दिवः᳓
जुषाण᳓ इन्द्र स᳓प्तिभिर् न आ᳓ गहि

14 आ तू - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ तू᳓ गहि प्र᳓ तु᳓ द्रव
म᳓त्स्वा सुत᳓स्य गो᳓मतः
त᳓न्तुं तनुष्व पूर्वियं᳓ य᳓था विदे᳓

15 यच्छक्रासि परावति - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓च् छक्रा᳓सि पराव᳓ति
य᳓द् अर्वाव᳓ति वृत्रहन्
य᳓द् वा समुद्रे᳓ अ᳓न्धसो ऽविते᳓द् असि

16 इन्द्रं वर्धन्तु - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

इ᳓न्द्रं वर्धन्तु नो गि᳓र
इ᳓न्द्रं सुता᳓स इ᳓न्दवः
इ᳓न्द्रे हवि᳓ष्मतीर् वि᳓शो अराणिषुः

17 तमिद्विप्रा अवस्यवः - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

त᳓म् इ᳓द् वि᳓प्रा अवस्य᳓वः
प्रव᳓त्वतीभिर् ऊति᳓भिः
इ᳓न्द्रं क्षोणी᳓र् अवर्धयन् वया᳓ इव

18 त्रिकद्रुकेषु चेतनम् - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

त्रि᳓कद्रुकेषु चे᳓तनं
देवा᳓सो यज्ञ᳓म् अत्नत
त᳓म् इ᳓द् वर्धन्तु नो गि᳓रः सदा᳓वृधम्

19 स्तोता यत्ते - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

स्तोता᳓ य᳓त् ते अ᳓नुव्रत
उक्था᳓नि ऋतुथा᳓ दधे᳓
शु᳓चिः पवाक᳓+ उच्यते सो᳓ अ᳓द्भुतः

20 तदिद्रुद्रस्य चेतति - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

त᳓द् इ᳓द् रुद्र᳓स्य चेतति
यह्व᳓म् प्रत्ने᳓षु धा᳓मसु
म᳓नो य᳓त्रा वि᳓ त᳓द् दधु᳓र् वि᳓चेतसः

21 यदि मे - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓दि मे सख्य᳓म् आव᳓र
इम᳓स्य पाहि अ᳓न्धसः
ये᳓न वि᳓श्वा अ᳓ति द्वि᳓षो अ᳓तारिम

22 कदा त - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

कदा᳓ त इन्द्र गिर्वण
स्तोता᳓ भवाति शं᳓तमः
कदा᳓ नो ग᳓व्ये अ᳓श्विये व᳓सौ दधः

23 उत ते - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

उत᳓ ते सु᳓ष्टुता ह᳓री
वृ᳓षणा वहतो र᳓थम्
अजुर्य᳓स्य मदि᳓न्तमं य᳓म् ई᳓महे

24 तमीमहे पुरुष्थुतम् - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

त᳓म् ईमहे पुरुष्टुतं᳓
यह्व᳓म् प्रत्ना᳓भिर् ऊति᳓भिः
नि᳓ बर्हि᳓षि प्रिये᳓ सदद् अ᳓ध द्विता᳓

25 वर्धस्वा सु - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

व᳓र्धस्वा सु᳓ पुरुष्टुत
ऋ᳓षिष्टुताभिर् ऊति᳓भिः
धुक्ष᳓स्व पिप्यु᳓षीम् इ᳓षम् अ᳓वा च नः

26 इन्द्र त्वमवितेदसीत्था - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

इ᳓न्द्र त्व᳓म् अविते᳓द् असि
इत्था᳓ स्तुवतो᳓ अद्रिवः
ऋता᳓द् इयर्मि ते धि᳓यम् मनोयु᳓जम्

27 इह त्या - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

इह᳓ त्या᳓ सधमा᳓दिया
युजानः᳓ सो᳓मपीतये
ह᳓री इन्द्र प्रत᳓द्वसू अभि᳓ स्वर

28 अभि स्वरन्तु - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

अभि᳓ स्वरन्तु ये᳓ त᳓व
रुद्रा᳓सः सक्षत श्रि᳓यम्
उतो᳓ मरु᳓त्वतीर् वि᳓शो अभि᳓ प्र᳓यः

29 इमा अस्य - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

इमा᳓ अस्य प्र᳓तूर्तयः
पदं᳓ जुषन्त य᳓द् दिवि᳓
ना᳓भा यज्ञ᳓स्य सं᳓ दधुर् य᳓था विदे᳓

30 अयं दीर्घाय - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

अयं᳓ दीर्घा᳓य च᳓क्षसे
प्रा᳓चि प्रयति᳓ अध्वरे᳓
मि᳓मीते यज्ञ᳓म् आनुष᳓ग् विच᳓क्षिय

31 वृषायमिन्द्र ते - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

वृ᳓षाय᳓म् इन्द्र ते र᳓थ
उतो᳓ ते वृ᳓षणा ह᳓री
वृ᳓षा तुवं᳓ शतक्रतो वृ᳓षा ह᳓वः

32 वृषा ग्रावा - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

वृ᳓षा ग्रा᳓वा वृ᳓षा म᳓दो
वृ᳓षा सो᳓मो अयं᳓ सुतः᳓
वृ᳓षा यज्ञो᳓ य᳓म् इ᳓न्वसि वृ᳓षा ह᳓वः

33 वृषा त्वा - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

वृ᳓षा त्वा वृ᳓षणं हुवे
व᳓ज्रिञ् चित्रा᳓भिर् ऊति᳓भिः
वाव᳓न्थ हि᳓ प्र᳓तिष्टुतिं वृ᳓षा ह᳓वः