०११

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ त्वमग्ने ’ इति दशर्चं षष्ठं सूक्तं कण्वगोत्रस्य वत्सस्यार्षमाग्नेयम् । आद्या प्रतिष्ठागायत्री अष्टकसप्तकषट्कोपेतत्वात् । द्वितीया वर्धमाना षट्कसप्तकाष्टकोपेतत्वात् । तथा चोक्तं-’ षट्कसप्तकाष्टकैर्वर्धमाना विपरीता प्रतिष्ठा ’ (पि. सू. ३. १४-१५) इति। दशमी त्रिष्टुप् शिष्टा गायत्र्यः। तथा चानुक्रान्तं– त्वमग्ने दश वत्स आग्नेये गायत्रेऽन्त्या त्रिष्टुबाद्या प्रतिष्ठोपाद्या वर्धमाना ’ इति । प्रातरनुवाकस्याग्नेये क्रतौ गायत्रे छन्दस्याश्विनशस्त्रे चोत्तमावर्जमेतत्सूक्तम् । सूत्र्यते हि- त्वमग्ने व्रतपा इत्युत्तमामुद्धरेत् ’ ( आश्व. श्रौ. ४. १३ ) इति । व्रातपत्यामाद्यानुवाक्या। सूत्रितं च— ‘ त्वमग्ने व्रतपा असि यद्वो वयं प्रमिनाम व्रतानि ’ ( आश्व. श्रौ. ३. १३ ) इति ।

Jamison Brereton

11 (631)
Agni
Vatsa Kāṇva
10 verses: gāyatrī, except pratiṣṭhā 1, vardhamāna 2, triṣṭubh 10, arranged in trcas, ̥ with a final verse
This is the last hymn in the Vatsa group and the only one dedicated to Agni. Compared to earlier hymns in the cycle it is both brief and, as Renou points out (EVP 13: 147), elementary. Nonetheless it is a pleasing composition, with adroit deployment of contrastive terms, such as “mortal/god,” and of parallel structures, such as “to be X-ed at Y” (vss. 1, 2, 10—the last also providing a simple ring).

Jamison Brereton Notes

Agni

01 त्वमग्ने व्रतपा - प्रतिष्ठा

विश्वास-प्रस्तुतिः ...{Loading}...

त्वम् अ॑ग्ने व्रत॒पा अ॑सि
दे॒व आ मर्त्ये॒ष्व् आ ।
त्वय्ँ य॒ज्ञेष्व् ईड्यः॑ ॥

02 त्वमसि प्रशस्यो - वर्धमाना

विश्वास-प्रस्तुतिः ...{Loading}...

त्वम॑सि प्र॒शस्यो॑ वि॒दथे॑षु सहन्त्य ।
अग्ने॑ र॒थीर॑ध्व॒राणा॑म् ॥

03 स त्वमस्मदप - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

स त्वम॒स्मदप॒ द्विषो॑ युयो॒धि जा॑तवेदः ।
अदे॑वीरग्ने॒ अरा॑तीः ॥

04 अन्ति चित्सन्तमह - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अन्ति॑ चि॒त्सन्त॒मह॑ य॒ज्ञं मर्त॑स्य रि॒पोः ।
नोप॑ वेषि जातवेदः ॥

05 मर्ता अमर्त्यस्य - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

मर्ता॒ अम॑र्त्यस्य ते॒ भूरि॒ नाम॑ मनामहे ।
विप्रा॑सो जा॒तवे॑दसः ॥

06 विप्रं विप्रासोऽवसे - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

विप्रं॒ विप्रा॒सोऽव॑से दे॒वं मर्ता॑स ऊ॒तये॑ ।
अ॒ग्निं गी॒र्भिर्ह॑वामहे ॥

07 आ ते - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

आ ते॑ व॒त्सो मनो॑ यमत्पर॒माच्चि॑त्स॒धस्था॑त् ।
अग्ने॒ त्वाङ्का॑मया गि॒रा ॥

08 पुरुत्रा हि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

पु॒रु॒त्रा हि स॒दृङ्ङसि॒ विशो॒ विश्वा॒ अनु॑ प्र॒भुः ।
स॒मत्सु॑ त्वा हवामहे ॥

09 समत्स्वग्निमवसे वाजयन्तो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

स॒मत्स्व॒ग्निमव॑से वाज॒यन्तो॑ हवामहे ।
वाजे॑षु चि॒त्ररा॑धसम् ॥

10 प्रत्नो हि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्र॒त्नो हि क॒मीड्यो॑ अध्व॒रेषु॑ स॒नाच्च॒ होता॒ नव्य॑श्च॒ सत्सि॑ ।
स्वां चा॑ग्ने त॒न्वं॑ पि॒प्रय॑स्वा॒स्मभ्यं॑ च॒ सौभ॑ग॒मा य॑जस्व ॥