०१०

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘यत्स्थः’ इति षडृचं पञ्चमं सूक्तं कण्वपुत्रस्य प्रगाथस्यार्षमाश्विनम् । आद्या बृहती । द्वितीया मध्येज्योतिस्त्रिष्टुप् ‘यतोऽष्टकस्ततो ज्योतिः’ (अनु. ९. ८) इत्युक्तलक्षणसद्भावात् । तृतीयानुष्टुप चतुर्थी आस्तारपङ्क्तिः । ‘अन्त्यौ चेदास्तारपङ्क्तिः ’ (अनु. ८. ७) इति हि तल्लक्षणम् । पञ्चमी बृहती षष्ठी सतोबृहती। तथा चानुक्रान्तं यत्स्थः षट् प्रगाथोऽपश्यद्बृहती मध्येज्योतिरनुष्टुबास्तारपङ्क्तिः प्रगाथः’ इति । प्रातरनुवाकाश्विने क्रतो बार्हते छन्दस्याश्विनशस्त्रे चेदं सूक्तम् । सूत्र्यते हि- द्युम्नी वां यत्स्थ इति बार्हतम्’ (आश्व. श्रौ. ४. १५) इति ॥

Jamison Brereton

10 (630)
Aśvins
Pragātha Kāṇva
6 verses: br̥hatī 1, 5, madhyejyotis 2, anuṣṭubh 3, āstārapaṅkti 4, satobr̥hatī 6, arranged in pragāthas
Like the previous hymn, this one contains a number of different meters, though all fall into the twelve- and eight-syllable pādas that combine easily into mixed lyric hymns. Unlike the tr̥ca structure of the last hymn, this one is arranged in pragāthas, the first two of which (vss. 1–4) are irregular, while the last (5–6) has the familiar br̥hatī/satobr̥hatī alternation.
The hymn is a distillation of one of the key themes in the much longer Aśvin hymns that precede it (VIII.8–9). The last pādas of the first and last verses are iden tical: “from there drive here, o Aśvins,” and most of the rest of the hymn (vss. 1–2, 5–6) consists of speculation on where “there” might be, with an array of cosmic locations suggested. The middle two verses (3–4) invoke the Aśvins and remind them of their devotion to us and to our sacrifice.

Jamison Brereton Notes

Aśvins

01 यत्स्थो दीर्घप्रसद्मनि - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓त् स्थो᳓ दीर्घ᳓प्रसद्मनि
य᳓द् वादो᳓ रोचने᳓ दिवः᳓
य᳓द् वा समुद्रे᳓ अ᳓धि आ᳓कृते गृहे᳓
अ᳓त आ᳓ यातम् अश्विना

02 यद्वा यज्ञम् - मध्येज्योतिः

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓द् वा यज्ञ᳓म् म᳓नवे सम्मिमिक्ष᳓थुर्
एवे᳓त् काण्व᳓स्य बोधतम्
बृ᳓हस्प᳓तिं वि᳓श्वान् देवाँ᳓ अहं᳓ हुव
इ᳓न्द्रावि᳓ष्णू अश्वि᳓नाव् आशुहे᳓षसा

03 त्या न्वट्श्विना - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तिया᳓ नु᳓ अश्वि᳓ना हुवे
सुदं᳓ससा गृभे᳓ कृता᳓
य᳓योर् अ᳓स्ति प्र᳓ णः सख्यं᳓
देवे᳓षु अ᳓धि आ᳓पियम्

04 ययोरधि प्र - आस्तारपङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓योर् अ᳓धि प्र᳓ यज्ञा᳓
असूरे᳓ स᳓न्ति सूर᳓यः
ता᳓ यज्ञ᳓स्य अध्वर᳓स्य प्र᳓चेतसा
स्वधा᳓भिर् या᳓ पि᳓बतः सोमिय᳓म् म᳓धु

05 यदद्याश्विनावपाग्यत्प्राक्स्थो वाजिनीवसू - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓द् अद्य᳓ अश्विनाव् अ᳓पाग्
य᳓त् प्रा᳓क् स्थो᳓ वाजिनीवसू
य᳓द् द्रुह्य᳓वि अ᳓नवि तुर्व᳓शे य᳓दौ
हुवे᳓ वाम् अ᳓थ मा᳓ गतम्

06 यदन्तरिक्षे पतथः - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓द् अन्त᳓रिक्षे प᳓तथः पुरुभुजा
य᳓द् वेमे᳓ रो᳓दसी अ᳓नु
य᳓द् वा स्वधा᳓भिर् अधिति᳓ष्ठथो र᳓थम्
अ᳓त आ᳓ यातम् अश्विना