००९

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘आ नूनम्’ इत्येकविंशत्यृचं चतुर्थं सूक्तं शशकर्णस्यार्षमश्विदेवत्यम् । विंश्येकविंश्यौ द्वितीयातृतीये चेति चतस्रो गायत्र्यः प्रथमा चतुर्थी षष्टी चतुर्दशी पञ्चदशी चेति पञ्च बृहत्यः पञ्चमी ककुप् ‘मध्यमश्चेत्कुप्’ (अनु. ५. ३) इत्युक्तलक्षणसद्भावात् । दशमी त्रिष्टुबेकादशी विराड्द्वादशी जगती शिष्टा अनुष्टुभः । तथा चानुक्रान्तम् -‘आ नूनं सैका शशकर्णोऽन्त्ये गायत्र्यावुपाद्ये चाद्या चतुर्थी षष्टी चतुर्दश्याद्ये च बृहत्यः पञ्चमी ककुब्दशम्याद्यास्त्रिष्टुब्विराड्जगत्यः’ इति । अप्तोर्यामे ब्राह्मणाच्छंसिनोऽतिरिक्तोक्थ इदं सूक्तम् । सूत्र्यते हि - ’आ नूनमश्विना तं वां रथम्’ (आश्व. श्रौ. ९. ११ ) इति ॥

Jamison Brereton

9 (629)
Aśvins
Śaśakarṇa Kāṇva
21 verses: br̥hatī 1, 4, 6, 14, 15; gāyatrī 2, 3, 20, 21; kakubh 5; anuṣṭubh 7–9, 13, 16–19; triṣṭubh 10; virāj 11; jagatī 12, all arranged in trcas ̥
As is clear from the display above, a dizzying variety of meters is found in this hymn. However, as Oldenberg points out (1888: 151), save for the tr̥ca composed of verses 10–12, all these differently named meters are composed of combinations of eight- and twelve-syllable pādas, which combine easily and without confusion, and several tr̥cas consist of a single meter (anuṣṭubh vss. 7–9, 16–18).
As in the previous hymn, the poet identifies himself several times as Vatsa (vss. 1, 6, 15); the Anukramaṇī’s ascription to Śaśakarṇa (“Hare-eared”) may be taken as a nickname or simply a fanciful invention, as it has no verbal support in the hymn.
The contents of the hymn are both as various as its meters and, underlyingly, as harmonious. Certain expressions recur throughout the hymn (half-verse initial ā́ nūnám “here and now,” alternating with simple ā́ “here”; repeated yád and yád vā “when”/“or when”; repeated prá). The poet focuses on asking the Aśvins for aid and protection, and offers sacrificial service in return. A tr̥ca late in the hymn (vss. 16–18) is addressed to Dawn in her relation to the Aśvins, a connection that fixes the ritual time of at least that part of the hymn as the Morning Pressing.

Jamison Brereton Notes

Aśvins

01 आ नूनमश्विना - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

आ नू॒नम॑श्विना यु॒वं व॒त्सस्य॑ गन्त॒मव॑से ।
प्रास्मै॑ यच्छतमवृ॒कं पृ॒थु च्छ॒र्दिर्यु॑यु॒तं या अरा॑तयः ॥

02 यदन्तरिक्षे यद्दिवि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

यद॒न्तरि॑क्षे॒ यद्दि॒वि यत्पञ्च॒ मानु॑षाँ॒ अनु॑ ।
नृ॒म्णं तद्ध॑त्तमश्विना ॥

03 ये वाम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

ये वां॒ दंसां॑स्यश्विना॒ विप्रा॑सः परिमामृ॒शुः ।
ए॒वेत्का॒ण्वस्य॑ बोधतम् ॥

04 अयं वाम् - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒यं वां॑ घ॒र्मो अ॑श्विना॒ स्तोमे॑न॒ परि॑ षिच्यते ।
अ॒यं सोमो॒ मधु॑मान्वाजिनीवसू॒ येन॑ वृ॒त्रं चिके॑तथः ॥

05 यदप्सु यद्वनस्पतौ - ककुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यद॒प्सु यद्वन॒स्पतौ॒ यदोष॑धीषु पुरुदंससा कृ॒तम् ।
तेन॑ माविष्टमश्विना ॥

06 यन्नासत्या भुरण्यथो - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

यन्ना॑सत्या भुर॒ण्यथो॒ यद्वा॑ देव भिष॒ज्यथः॑ ।
अ॒यं वां॑ व॒त्सो म॒तिभि॒र्न वि॑न्धते ह॒विष्म॑न्तं॒ हि गच्छ॑थः ॥

07 आ नूनमश्विनोऋड़्षि - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ नू॒नम॒श्विनो॒रृषिः॒ स्तोमं॑ चिकेत वा॒मया॑ ।
आ सोमं॒ मधु॑मत्तमं घ॒र्मं सि॑ञ्चा॒दथ॑र्वणि ॥

08 आ नूनम् - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ नू॒नं र॒घुव॑र्तनिं॒ रथं॑ तिष्ठाथो अश्विना ।
आ वां॒ स्तोमा॑ इ॒मे मम॒ नभो॒ न चु॑च्यवीरत ॥

09 यदद्य वाम् - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यद॒द्य वां॑ नासत्यो॒क्थैरा॑चुच्युवी॒महि॑ ।
यद्वा॒ वाणी॑भिरश्विने॒वेत्का॒ण्वस्य॑ बोधतम् ॥

10 यद्वां कक्षीवाँ - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यद्वां॑ क॒क्षीवाँ॑ उ॒त यद्व्य॑श्व॒ ऋषि॒र्यद्वां॑ दी॒र्घत॑मा जु॒हाव॑ ।
पृथी॒ यद्वां॑ वै॒न्यः साद॑नेष्वे॒वेदतो॑ अश्विना चेतयेथाम् ॥

11 यातं छर्दिष्पा - विराट्

विश्वास-प्रस्तुतिः ...{Loading}...

या॒तं छ॑र्दि॒ष्पा उ॒त नः॑ पर॒स्पा भू॒तं ज॑ग॒त्पा उ॒त न॑स्तनू॒पा ।
व॒र्तिस्तो॒काय॒ तन॑याय यातम् ॥

12 यदिन्द्रेण सरथम् - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

यदिन्द्रे॑ण स॒रथं॑ या॒थो अ॑श्विना॒ यद्वा॑ वा॒युना॒ भव॑थः॒ समो॑कसा ।
यदा॑दि॒त्येभि॑रृ॒भुभिः॑ स॒जोष॑सा॒ यद्वा॒ विष्णो॑र्वि॒क्रम॑णेषु॒ तिष्ठ॑थः ॥

13 यदद्याश्विनावहं हुवेय - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यद॒द्याश्विना॑व॒हं हु॒वेय॒ वाज॑सातये ।
यत्पृ॒त्सु तु॒र्वणे॒ सह॒स्तच्छ्रेष्ठ॑म॒श्विनो॒रवः॑ ॥

14 आ नूनम् - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

आ नू॒नं या॑तमश्विने॒मा ह॒व्यानि॑ वां हि॒ता ।
इ॒मे सोमा॑सो॒ अधि॑ तु॒र्वशे॒ यदा॑वि॒मे कण्वे॑षु वा॒मथ॑ ॥

15 यन्नासत्या पराके - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

यन्ना॑सत्या परा॒के अ॑र्वा॒के अस्ति॑ भेष॒जम् ।
तेन॑ नू॒नं वि॑म॒दाय॑ प्रचेतसा छ॒र्दिर्व॒त्साय॑ यच्छतम् ॥

16 अभुत्स्यु प्र - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अभु॑त्स्यु॒ प्र दे॒व्या सा॒कं वा॒चाहम॒श्विनोः॑ ।
व्या॑वर्दे॒व्या म॒तिं वि रा॒तिं मर्त्ये॑भ्यः ॥

17 प्र बोधयोषो - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्र बो॑धयोषो अ॒श्विना॒ प्र दे॑वि सूनृते महि ।
प्र य॑ज्ञहोतरानु॒षक्प्र मदा॑य॒ श्रवो॑ बृ॒हत् ॥

18 यदुषो यासि - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यदु॑षो॒ यासि॑ भा॒नुना॒ सं सूर्ये॑ण रोचसे ।
आ हा॒यम॒श्विनो॒ रथो॑ व॒र्तिर्या॑ति नृ॒पाय्य॑म् ॥

19 यदापीतासो अंशवो - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यदापी॑तासो अं॒शवो॒ गावो॒ न दु॒ह्र ऊध॑भिः ।
यद्वा॒ वाणी॒रनू॑षत॒ प्र दे॑व॒यन्तो॑ अ॒श्विना॑ ॥

20 प्र द्युम्नाय - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

प्र द्यु॒म्नाय॒ प्र शव॑से॒ प्र नृ॒षाह्या॑य॒ शर्म॑णे ।
प्र दक्षा॑य प्रचेतसा ॥

21 यन्नूनं धीभिरश्विना - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

यन्नू॒नं धी॒भिर॑श्विना पि॒तुर्योना॑ नि॒षीद॑थः ।
यद्वा॑ सु॒म्नेभि॑रुक्थ्या ॥